पूर्वम्: ६।४।७८
अनन्तरम्: ६।४।८०
 
सूत्रम्
स्त्रियाः॥ ६।४।७९
काशिका-वृत्तिः
स्त्रियाः ६।४।७९

स्त्री इत्येतस्य अजादौ प्रत्यये परतः इयङादेशो भवति। स्त्री, स्त्रियौ, स्त्रियः। स्त्रीणाम् इत्यत्र परत्वानुडागमः। पृथग्योगकरणम् उत्तरार्थम्।
लघु-सिद्धान्त-कौमुदी
स्त्रियाः २२८, ६।४।७९

अस्येयङ् स्यादजादौ प्रत्यये परे। स्त्रियौ। स्त्रियः॥
न्यासः
स्त्रियाः। , ६।४।७९

"स्त्रियाः" इति। "आण्नद्याः" ७।३।११२, "जातेरस्त्रीविषयादयोपधात्()" ४।१।६३ इति निर्देशान्नेदं स्त्रीप्रत्ययानां ग्रहणम्(), नापि स्त्र्यर्थवृत्तेः शब्दस्येति निश्चित्य स्त्रीशब्दस्यैव स्वरूपेण ग्रहणमिति दर्शयितुमाह--"स्त्री इत्येतस्य" इत्यादि। इतिकरणः स्त्रीशब्दस्य स्वरूपपदार्थता दर्शयति। अथ षष्ठीबहुवचने कस्मान्न भवतीत्याह--"स्त्रीणाम्()" इत्यादि। परत्वात्? षष्ठीबहुवचने नुटा भवितव्यम्(), त()स्मश्च सत्यजादिः परः प्रत्ययो न भवतीतीयङ न प्रवर्तते। अथ किमर्थं पृथग्योगः क्रियते? न, "अचि श्नुधातुस्त्रीभ्रुवाम्()" इत्येक एव योगः क्रियेतेति? अत आह--"प्रथग्योगकरणम्()" इत्यादि। "वाऽम्शसोः" ६।४।८० इत्यत्र स्त्रीशब्दस्यैव विकल्पो यथा स्यात्(), धातुभ्रुवोर्माभूदित्येवमर्थं पृथग्योगकरणम्()॥
बाल-मनोरमा
स्त्रियाः २९९, ६।४।७९

स्त्रियाः। अचि श्नुधात्वित्यतोऽचीति इयङिति चानुवर्तते। तदाह--स्त्रीशब्दस्येत्यादिना। स्त्रियौ स्त्रिय इति। औजसोः रूपम्। अमि शसि च स्त्रियां स्त्रिय इति नित्यमियङि प्राप्ते।

तत्त्व-बोधिनी
स्त्रियाः २६१, ६।४।७९

स्त्रीति। स्यायतोऽस्यां शुक्रशोणिते इति "स्त्री"। "स्यायतेर्ड्रट्"। "लोपे व्यो"रिति यलोपः। टित्त्वान्ङीप्। ङ्यन्तत्वात्सुलोपः।