इणो ऽङ्गस्य यणादेशो भवति अचि परतः। यन्ति। यन्तु। आयन्। इयङादेशापवदो ऽयम्। मध्ये ऽपवदाः पूर्वान् विधीन् बाधन्ते इति गुणवृद्धिभ्यां परत्वादयं बाध्यते। अयनम्। आयकः।
अत्र पक्षद्वयं सम्भाव्यते--"इणः" इति प्रत्याहारग्रहणं स्यात्(),
धातुग्रहणं वा? तत्र "एरच्()"
३।३।५६ इति, "ओरावश्यके"
३।१।१२५ इति, "उरत्()"
७।४।६६ इत्यवमादिभ्यो निर्देशेभ्य एव नेदं प्रत्याहारग्रहणम्()। अतः परिशेष्याद्()धातुग्रहणमेवेदं विज्ञायते। णकारोच्चारणमिगिङोर्निवृत्त्यर्थम्()। ये तु "इण्वदिकः" (वा।१६७) इति सामान्येनातिदेशमिच्छन्ति, तेषामिङ एव निवृत्त्यर्थम्()। इकस्त्वधियन्तीति भवितव्यमेव यणा। अथ "नेणः" इत्येव कस्मान्नोक्तम्(), इयङादेशेऽचि प्रतिषिद्धे सति "इको यणचि" (६।१।
७७) इति यण्? भविष्यति? सत्यमेतत्(); उत्तरार्थन्तु यण्ग्रहणम्()। "यन्ति" इत्यद्युदाहरणेष्वदादित्वाच्छपो लुक्()। "आयन्()" इति।
लङ्? झोऽन्तादेशे संयोगान्तलोपः, असिद्धत्वादजादित्वादाट्()।
अथेह कस्मान्न भवति--अयनम्? आयक इति? अत आह--"इयङादेशापवादोऽयम्()" इति। ननु यथेयङि प्राप्तोऽयमारभ्यते, तथा गुणवृद्ध्योरपि,
तत्? कुत एतल्लभ्यते--अयमियङोऽपवादः, न गुणवृद्ध्योरित्याह--"मध्येऽपवादाः" इत्यादि। इतिकरणो हेतौ।
यस्मात्? "मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान्()" (व्या।प।१०), तस्मादियङ एव पूर्वस्य विधेरयमपवादः, न तु परयोर्गुणवृद्ध्योः यतश्चैतदेवं तेन गुणवृद्धिभ्यां तु परत्वाद्बाध्यते। अस्यावकाशः--यन्ति, यन्त्विति। "गुणवृद्ध्योः--चयनम्(), चायक इति; अयनम्(), आयक इत्यत्रोभयं प्राप्नोति। परत्वाद्यणं बाधित्वा गुणवृद्धी भवतः॥
इणो यण्। "अचि श्नुधातु"इत्यतोऽचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाऽङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे-- अजादौ प्रत्यये परे इति। इयङोऽपवाद इति। इयङि प्राप्ते एव तदारम्भादिति भावः। गुणवृद्धी तु परत्वादस्य बाधिके। यथा--अयनम्। आयकः। यन्तीति। एषि इथः इथ। एमि इवः इमः। इयायेति। द्वित्वे सति उत्तरखण्डवृद्धावायादेशे "अभ्यासस्याऽसवर्णे" इतीयङ्। अतुसि तु द्वित्वे कित्त्वाद्गुणाऽभावे इ इ अतुस् इति स्थिते "इणो य"णित्युत्तरखण्डस्य यणि इ-यतुरिति स्थिते ---