पूर्वम्: ६।४।८३
अनन्तरम्: ६।४।८५
 
सूत्रम्
वर्षाभ्वश्च॥ ६।४।८४
काशिका-वृत्तिः
वर्षाभ्वश् च ६।४।८४

वर्षाभू इत्येतस्य अजादौ सुपि परतो यणादेशो भवति। वर्षाभ्वौ। वर्षाभ्वः। पुनर्भ्वश्चेति वक्तव्यम्। पुनर्भ्वौ। पुनर्भवः। कारापूर्वस्यापीष्यते। काराभ्वौ। काराभ्वः।
लघु-सिद्धान्त-कौमुदी
वर्षाभ्वश्च २१२, ६।४।८४

अस्य यण् स्यादचि सुपि। वर्षाभ्वावित्यादि॥ दृन्भूः। (दृन्करपुनः पूर्वस्य भुवो यण् वक्तव्यः)। दृन्भ्वौ। एवं करभूः॥ धाता। हे धातः। धातारौ। धातारः। (ऋवर्णान्नस्य णत्वं वाच्यम्)। धातॄणाम्। एवं नप्त्रादयः॥ नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम्। तेनेह न। पिता। पितरौ। पितरः। पितरम्। शेषं धातृवत्। एवं जामात्रादयः॥ ना। नरौ॥
न्यासः
वर्षाभ्वश्च। , ६।४।८४

"न भूसुधियोः" ६।४।८५ इति प्रतिषेधे प्राप्ते तदपवादोऽयमारभ्यते। "वर्षाभ्यौ" इति। वर्षाशब्दाद्भवतेः क्विप्()। "पुनर्भ्वश्चेति वक्तव्यम्()" इति। "नपुनर्भ्वित्येतस्याचि सुपि यणादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--चकारोऽत्रि क्रियते, स चानुक्तसमुच्चयार्थः। तेन पुनर्भ्वित्यस्यापि भविष्यतीति। "कारापूर्वस्यापीष्यते" इति। सोऽपि तत एव चकाराद्भवतीति वेदितव्यम्()॥
बाल-मनोरमा
वर्षाभ्वश्च २८०, ६।४।८४

वर्षाभ्वश्च। "ओः सुपी"त्यनुवर्तते। "अचि श्नुधात्वि"त्यतोऽचीति च, "इणो य" णित्यतो यणिति चानुवर्तते। तदाह--अस्येति। वर्षाभूशब्दस्येत्यर्थः। दृभतीति। "दृभी ग्रन्थे"। तुदादिः। शविकरणस्य "सार्वधातुकमपि"दिति ङित्त्वान्न गुणः। निपातित इति। कूप्रत्ययो नुम्चेह निपात्यते इत्यर्थः। "नश्चापदान्तस्ये"त्यनुस्वारः, "अनुस्वारस्य ययी"ति तस्य परसवर्णो मकारः। अत्र च ऊकारो न धात्ववयवः। अत उवङ्, "ओः सुपी"ति यण्च न। किंतु "इको यणची"त्येव यण्। स च "अमि पूर्वः" इत्यनेन बाध्यत इत्याशयेनाह--दृम्भूमिति। शसि "दीर्घाज्जसि चे"ति निषेधाऽप्रवृत्त्या पूर्वसवर्णदीर्घेण "इको यणची"ति यण् बाध्यत इत्यभिप्रेत्याह--दृम्भूनिति। दृम्भ्वा। दृम्भवे। दृम्भ्वः। दृम्भ्वः दृम्भ्वोः। दृम्भ्वाम्। इह तु "दृन्कारे"ति यण्न भवति, भूशब्दस्यार्थवत एव तत्र ग्रहणात्। इह च भूशब्दस्याऽनर्थकत्वात्। "दृ न्निति नान्तमव्ययं हिंसायां वर्तते। तस्मिन्नुपपदे भूधातोः क्विबित्यर्थः। दृन्-हिंसां, भवते=प्राप्नोतीति विग्रहः। दृन्भूरिति। तरुविशेषः। सर्पविशेष इत्यन्ये। स्वाभाविक एवात्र नकारः। तस्य पदान्तत्वा"न्नश्चापदान्तस्ये"ति नानुस्वारः। अत एव न परसवर्णः।

"न भूसुधियो"रिति निषेधे प्राप्ते--दृन्करपुनः। दृन्भ्वमिति। यणा पूर्वरूपं बाध्यत इति भावः। दृन्भ्व इति। शसि यणा पूर्वसवर्णदीर्घो बाध्यत इति भावः। करात् करे वा भवतीति करभूः, दृन्भूवदित्यभिप्रेत्याह--करभ्वं करभ्व इति। "दृन्करे"त्युदाह्मतवार्तिके दीर्घमध्यकारशब्दपाठ इति मतान्तरं। तत्राह--दीर्घेति। स्वार्थिक इति। स्वस्याः प्रकृतेरर्थः स्वार्थः, तत्र भवः स्वार्थिकः। अध्यात्मादित्वाठ्ठञ्। प्रज्ञाद्यणिति। "प्रज्ञादिभ्योऽणि"ति प्रज्ञादिभ्यः स्वार्थेऽण्विधानादिति भावः। दीर्घपाठे करपूर्वस्य उवडेव। ह्यस्वपाठे करपूर्वस्य यणेवेति विवेकः। पुनर्भवतीति पुनर्भूः। ननु "पुनर्भूर्दिधिषूरूढा" इति कोशात्पुनर्भूशब्दस्य स्त्रीलिङ्गत्वात्स्त्रीलिङ्गाधिकार एव तन्निरूपणं युक्तमित्यत आह--पुनर्भूर्योगिकः पुंसीति। पुनर्भवतीति क्रियानिमित्तस्य पुनर्भूशब्दस्य पुँल्लिङ्गत्वमप्यस्तीत्यर्थः। दृग्भू इति। दृशो भवतीति दृग्भूः। कारायां भवतीति काराभूः। कारा=बन्धनालयः। स्वयंभूवदिति। तत्र "न भूसुधियो"रिति यणः प्रतिषेधात्, प्रतिप्रसवाऽभावाच्चेति भावः। इत्यूदन्ताः। अथ ऋदन्ताः। धातेति। "डुधाञ् धारणपोषणयोः" तत्र तृन् तज्वा स्यात्। क्रोष्टुशब्दवदनङ्दीर्घ सुलोपनलोपाः। हे धातरिति। "ऋदुशनसि"त्यत्रासंबुद्धावित्यनुवृत्तेर्नानङ्। "ऋतो ङी"ति गुणोऽकारः, रपरत्वं, हल्ङ्यादिलोपः, विसर्गः। "अप्तृन्" इति दीर्घस्तु न, असंबुद्धावित्यनुवृत्तेः। धाताराविति। ङिसर्वनामस्थानयोः "ऋतो ङी"ति गुणोऽकारः। रपरत्वम्, "अप्तृन्" इति दीर्घश्च। धातारः। धातारम्। धातारौ। शसि पूर्वसवर्णदीर्घ ॠकारः, नत्वम्। धातृ()न्। टा-यण्। धात्रा। ङे-यण्। धात्रे। ङसिङसोः-ऋत उत्, रपरत्वम्, सलोपः, विसर्गः-धातुः। धातुः। धात्रोः धात्रोः। आमि "ह्यस्वनद्यापः" इति नुट्। "नामी"ति दीर्घः। नकारस्य रेफषकाराभ्यां परत्वाऽभावादप्राप्ते णत्वे।

ऋवर्णान्नस्य। ऋवर्णात्परस्येत्यर्थः। इदं तु वार्तिकं णत्वविधायकसूत्राणां सर्वेषां शेषभूतम्। ङौ "ऋतो ङी"ति गुणोऽकारः, रपरत्वम्। धातरि। धातृषु। नच दातृशब्दस्य हिरण्यगर्भसंज्ञाशब्दादौणादिकशंसिक्षदादितृन्तृजन्तत्वादिह कथमप्तृन्निति दीर्घः,औणादिकतृन्तृजन्तेषु नप्त्रादिसप्तानामेव दीर्घ इति नियमादिति वाच्य, धाञ्धातोः शंसिक्षदादित्वकल्पनायां प्रमाणाऽभावेन धातृशब्दस्यौणादिकत्वाऽभावादिति भावः। एवं नप्त्रादय इति। नप्तृनेष्टुत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृशब्दा धातृशब्दवदित्यर्थः। उद्गातृशब्दस्य औणादिकतृन्तृजन्तस्य नप्त्रादिष्वनन्तर्भावेऽपि समर्थसूत्रे उद्गातार इति भाष्यप्रयोगादेव दीर्घ इत्युक्तंप्राक्। तदेतत्समारयति-उद्गाताराविति। पितेति। धातृवदनङादि। सर्वनामस्थाने तु "ऋतो ङी"ति गुणोऽकारः, रपरत्वम्। "अप्तृन्" इति दीर्घस्तु नेत्याह--व्युत्पत्तीति। पातीति पिता। तृच्प्रत्ययः, इट् आकारलोपश्चेति व्युत्पत्तिर्बोध्या। अव्युत्पत्तिपक्षे तु अप्तृन्तृजादिष्वनन्तर्भावाद्दीर्घशङ्कैव नास्तीति भावः। पितरौ पितरः। पितरम् पितरौ पितृ()नित्यादि धातृवत्। एवं जामातृभ्रात्रादय इति। उणादिषु "नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ" इति सूत्रे पितृजामातृभ्रातृशब्दाः व्युत्पादिताः। तत्र पितृशब्दस्य व्युत्पत्तिरुक्ता। भ्राजेस्तृनि तृचि वा जलोपः। भ्राता। जायां मातीति जामाता। तृन्प्रत्ययः। तृज्वा यालोपश्च। अनयोरप्यौणादिकयोर्नप्त्रादिष्वनन्तर्भावान्न दीर्घ इत्यर्थः। आदिना मन्तृ हन्तृ इत्यनयोग्र्रहणं, तयोरुणादिषु "तृन्तृचौ शंसिक्षदादिभ्यः" इति प्रकरणे बहुलमन्यत्रापि इत्यत्र उदाह्मतत्वात्। नेति। नृशब्दो मनुष्यवाची। तस्मात्सुः। "ऋदुशन"सित्यनङ्। "अप्तृ"न्निति सूत्रेऽनन्तर्भावा"त्सर्वनामस्थाने चे"ति नान्तत्वप्रयुक्तो दीर्घः। हल्ङ्यादिलोपः। नलोपः ना इति रूपम्। नरा नर इति। "ऋतो ङी"ति गुणो रपरः। अप्तृन्नाद्यनन्तर्भावान्नान्तत्वाऽभावाच्च न दीर्घः। हे न इति। "ऋतो ङी"ति गुणो रपरः। हल्ङ्यादिलोपो विसर्गश्च। नरम्। नरौ। शसि पूर्वसवर्णदीर्घो ॠकारः, नत्वम्, नृ()न्। टादावचि यणि रेफः। न्रा। न्रे। ङसिङसोः ऋत् उत्, रपरः, सलोपः, विसर्गश्च। नुः। नुः। न्रोः। आमि नुट्, "नामी"ति नित्यं दीर्घे प्राप्ते-।

तत्त्व-बोधिनी
वर्षाभ्वश्च २४२, ६।४।८४

वर्षाभ्वौ वर्षाभ्व इति। अत्र "इको यणची"ति यणं बाधित्वा "प्रथमयो"रिति पूर्वसवर्णगीर्घः प्राप्तः, तस्य "दीर्घज्जसि चे"ति निषेधे पुनरपि यणादेश प्रसक्तौ "अचि श्नुधातु भ्रुवाम्ित्यवङ्, तं च बाधित्वा "औः सुपी"ति यण्, तस्य "न भूसुधियो"रिति निषेधे पुनरवङादेशस्य प्रसक्तौ "वर्षाभ्वश्चे"ति यणिति बोध्यम्। एवमन्यत्राप्युत्सर्गापवादादविधय ऊह्राः। "भेके मण्डूकवर्षाभूशालूररल्पवदेर्दूराः"इत्यमरः। "भोक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दूरे पुमान्िति यादवः। हम्भतीति। "हम्भी ग्रन्थे"तुदादिः। हन्भूग्र्रन्थकर्ता। कथक इत्यन्ये। व्यचुत्पादिति इति। ऊप्रत्ययो नुमागमश्चात्र निपात्यत इत्यर्थः। दशपादीवृत्तौ तु "दर्भणं हम्भूः। नुमागमोऽनुस्वारश्च निपात्यते"इत्युक्तम्। अयमुकारो न धातोरिति उवङोऽप्रसङ्गात् "इको यणची"ति यण्, स च "अमि पूर्वः"इत्यनेन बाध्यत इत्याशयेनाह--हम्भूमिति। इदं च श्रीपतिमतम्। माधवेन तु "अन्दूहम्भू--"इत्यादिसूत्रेण हढशब्दे उपपदे भुवः कूप्रत्ययः, उपपदस्य हन्नदेशश्च निपात्यते इत्युक्तम्।

हन्करपुनःपूर्वस्य भुवो यण्वक्तव्यः। हम्भूरिति। तरुः। सर्पजातिभेद इत्येके। कपिरित्यन्ये। वक्तव्य इति। "वर्षाभ्वश्चे"ति चकारस्याऽनुक्तसमुच्चयार्थत्वादिति भावः। एवञ्च "ओः सुपि"इति प्राप्तस्य यणो "न भूसुधियो"रिति निषेधे "वर्षाहन्करपुनः पूर्वस्य भुवः"इत्येतद्धिध्यर्थमिति स्थितम्। अत्र नव्याः--"वर्षाहन्करे"त्यस्य नियमार्थतां स्वीकृत्य "न भूसुधियो रित्यत्र भूग्रहणं त्युक्तं शक्यमिति, तन्न, "हन्करपुनः पूर्वस्य चेद्भवे"दिति विपरितनियमापत्तेः। तथाच "पुनर्भ्वौ"इत्यादि न सिद्धयेदिति। दीर्घपाठ इति। "हन्कारे"--ति पाठे इत्यर्थः। एवंच ह्यस्वपाठे कारपूर्वस्योवहेव , दीर्घपाठे तु करपूर्वस्योवङिति विवेकः। "पुनर्भूदिंधिषूरूढा द्वि"रित्यमरोक्तेः पुनर्भूशब्दो नित्यस्त्रीलिङ्गः। तथा च स्त्रीलिङ्गप्रकतरण एव वक्तुमुचितो न त्वत्रेत्याशङ्कायामाह----यौगिकः पुंसीति। "पुनर्भवतीति पुनर्भू"रिति क्रियाशब्दः पुंलिङ्गेऽप्यस्तीत्यर्थः। स्वयंभूवदिति। प्राचा तु "हम्भू""काराम्भू"शब्दौ वर्षाभूवदाह्मतौ, तदुपेक्ष्यमिति भावः। इत्यूदन्ताः। धातेति। दधातीति धाता अब्जयोनिः। डुधाञस्तृच् तृन् वा। अनङ्दीर्घसुलोपनलोपः।

ऋवर्णान्नस्य णत्वं वाच्यम्। व्युत्पत्तिपक्ष इति। अव्युत्पत्तिपक्षे दीर्घशङ्कैव नास्ति, अबादिष्वपठनादिति भावःष नेति। "नयतेर्डिच्चे"ति ऋपत्र्ययान्तो "नृ"शब्दः। अनङादि प्राग्वत्।