पूर्वम्: ६।४।८७
अनन्तरम्: ६।४।८९
 
सूत्रम्
भुवो वुग्लुङ्लिटोः॥ ६।४।८८
काशिका-वृत्तिः
भुवो वुग् लुङ्लिटोः ६।४।८८

भुवो वुगागमो भवति लुङि लिटि च अजादौ परतः। अभूवन्। अभूवम् लिट् बभूव, बभूवतुः, बभवुः।
लघु-सिद्धान्त-कौमुदी
भुवो वुग्लुङ्लिटोः ३९५, ६।४।८८

भुवो वुगागमः स्यात् लुङ्लिटोरचि॥
न्यासः
भुवो वुग्लुङ्लिटोः। , ६।४।८८

"अभूवन्()" इति। "गातिस्था" २।४।७७ इत्यादिना सिचो लुक्()। झेरन्तादेशे कृते संयोगान्तलोपः। "अभूवम्()" इति। "तस्थस्थ" ३।४।१०१ इत्यादिना मिपोऽम्भावः। "बभूव" इत्यादि। "भवतेरः" ७।४।७३ इत्यभ्यासस्यात्त्वम्()। "इन्धिभवतिभ्याञ्च" १।२।६ इति लिटः कित्त्वम्(), तेन गुणबुद्धी न भवतः। किमर्थं पुनर्भवेतेः परस्य लिटः कित्त्वमारभ्यते, यावता "एकदेशविकृतमनन्यवद्भवति" (व्या।प।१६) इति कृतयोरपि गुणवृद्ध्योर्वुक्? प्राप्नोत्यकृतयोरपि, वुकि कृतेऽनिगन्तत्वादलघूपधत्वादनजन्तत्वाच्च नास्ति गुणवृद्ध्योः प्राप्तिः, ततः कृताकृतप्रसङ्गित्वेन नित्यत्वाद्()वुकि कृते गुणवृद्ध्योः प्राप्तिरेव नास्तीत्यनर्थकं कित्त्वम्()? नैतदस्ति; वुगप्यनित्य एव, न ह्रसौ कृतयोर्गुणवृद्ध्योः प्राप्नोति, ओरित्यनुवृत्तेरुवर्णान्तस्य वुका भवितव्यमिति कृत्वा। अत्रोभयोरनित्ययोः परत्वात्? गुणवृद्धी स्याताम्()। तस्मात्? कित्त्वमारब्धव्यम्()। किमर्थं पुनः ओरित्यनुवर्तते? बोभाव, बोभवेति गुणवृद्ध्योः कृतयोर्वृङ मा भूदित्येवमर्थम्()। ननु च कित्त्वे सत्यत्रापि गुणवृद्धिभ्यां न भवितव्यम्()? नैतदस्ति; न हि यङलुगन्ताद्? भवतेः परस्य लिटः कित्वं भवति, "इन्धिभवतिभ्याञ्च" १।२।६ इत्यत्र भवतीति श्तिपा निर्देशात्()॥
बाल-मनोरमा
भुवो वुग्लुङ्?लिटोः २४, ६।४।८८

भुवो वुक्। अचीति। "अचि श्नुधात्वि"त्यतस्तदनुवृत्तेरिति भावः। अचीति किम्?। अभूत्। ननु णलि परत्वाद्वुकं बाधित्वा "अचो ञ्णिती"ति वृद्धिः स्यात्, बभूविथेत्यत्र तु "सार्वधातुकाद्र्धधातुकयो"रिति गुणः स्यादित्यत आह--नित्यत्वादिति। कृतयोरपि गुणवृद्ध्योरेकदेशविकृतन्यायद्वुक् प्रवर्तते, अकृतयोरपि प्रवर्तते। ततश्च "कृताऽकृतप्रसङ्गी यो विधिः स नित्य" इति न्यायेन वुङ् नित्यः सन् गुणवृद्धी बाधत इत्यर्थः। वुकि ककार इत्, उकार उच्चारणार्थः। कित्त्वादन्तावयवः।

तत्त्व-बोधिनी
भुवो वुग्लुङ्लिटोः २०, ६।४।८८

"अचि श्नुधात्वि"ति सूत्रादचीत्यनुवर्तते। तदाह-- लुङ्लिटोरचीति। अचीति किम्। अभूत् अभूः। वुकि सति "लोपो व्यो"रिति लोपं बाधित्वा परत्वाद्धल्ङ्यादिलोपः स्यात्। ननु हल्ङ्यादिलोपादन्तरङ्गत्वात् "लोपो व्यो"रिति लोप एव भविष्यति। तथा च मव्यतेर्लङ्लुगन्ताल्लङि तिप्सिपोः अमामत् अमाम इत्यत्र व्योर्लोप एव माधवादिभिः स्वीकृतः। एवं चाऽज्ग्रहणम् "ऊदुपधाया" इत्युत्तरार्थमनुवर्तमानमिहाप्युपरञ्जकतया वृत्तिकारादिभिर्योजितं न त्वावस्यकतयेत्येव निष्कर्ष उचित इति चेत्। अत्राहुः-- "भुवो वुगि त्यस्याङ्गत्वाह्वपेक्षत्वेन हल्ङ्यादिलोपस्येव वुकोऽपि बहिरङ्गतयाऽसिद्धत्वे सति वलिलोपस्य प्राप्तेरेवाऽभवादज्ग्रहणमिहार्थमपीत्येव युक्तमिति। अयं च शङ्काग्रन्थः, समाधानग्रन्थश्च मनोरमायां स्थितः। अत्र नव्याः-- मव्यतिर्यङ्()लुगन्त एव नास्ति, णमामदित्यादि रूपं तु दूरादपास्तमेव, "यकारवकारान्तानामूठ्भाविनां यङ्लुग्नास्ती"ति "छ्वोः शू"डिति सूत्रे भाष्ये ध्वनितम्, कैयटेन च स्पष्टीकृतम्। इदं च छ्वोरिति यत्रोठ् तद्विषयकं, "ज्वरत्वरे" त्यूठ्भाविनोः रिउआविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यं, माधवादिसंमतं च। "मव्य बन्धने" अयं य#आन्त ऊठ्भावी" ति मूले वक्ष्यमाणत्वात्। तथा च तद्ग्रन्थेन सहात्रत्यमनोरमाग्रन्थो विरुध्यत इत्याहुः। यदि तु मवतेर्यङ्लुगन्तादिति मनोरमायां पठ()ते तदा तत्र पूर्वाऽपरग्रन्थविरोधो नास्तीति दिक्।