गोहो ऽङ्गस्य उपधाया ऊकारादेशो भवति अजादौ प्रत्यये परतः। निगूहति। निगूहकः। साधुनिगूही। निगूहंनिगूहम्। निगूहन्ति। गूहो वर्तते। उपधायाः इति किम्? अलः अन्त्यस्य मा भूत्। गोहः इति विकृतग्रहणं विषयार्थम्। यत्र अस्य एतद् रूपं तत्र एव यथा स्यात्। इह मा भूत्, निजुगुहतुः। निजुगुहुः। अयादेशप्रतिषेधार्थं च केचिदिच्छन्ति। निगूह्य गतः इत्यूत्वस्य असिद्धत्वाद् ल्यपि लघुपूर्वादिति णेरयादेशः स्यात्। व्याश्रयत्वादेव असिद्धत्वम् अत्र न अस्ति, णावूत्वं, ण्यन्तस्य च ल्यप्ययादेश इति। अचि इत्येव, निगोढा। निगोढुम्।
"निगूहयति" इति। "गुहू संवरणे" (धा।पा।८९६), हेतुमाण्णिच्()। "निगूहकः" इति। ण्वुल्()। "साधुनिगूहि" इति। "सुप्यजातौ णिनिस्ताच्छील्ये"
३।२।७८ इति णिनिः। "निगूहं निगूहम्()" इति।
"आभीक्ष्ण्ये णमुल्? च"
३।४।२२ इति णमुल्(), "आभीक्ष्ण्ये द्वे भवतः" (वा।८८७) इति द्विर्वचनम्()। "निगूहः" इति। भावे घञ्()। "अलोऽन्यस्य मा भूत्()" इति। उत्तरत्र इत्यभिप्रायः।
इह त्वोरित्यनुवत्र्य विनाप्युपधाग्रहणेन शक्यत एवायमर्थः प्रतिपादयितुमित्येतदेव मनसि कृत्वा परं पृष्टवान्()--"उपधाग्रहणं किं? इति; इत्तरार्थञ्चोपधाग्रहणं क्रियमाणमत्राप्यलोऽन्त्यस्य विधिं निवत्र्तयति।
तेन प्रयोजनाभावात्? ओरित्येतन्नानुवर्तते।
अथ किमर्थम्? "गोहः" इति विकृतनिर्देशः क्रियते, न "गुहः" इत्येवोच्येत,
लघु ह्रेवं सूत्रं भवति? इत्याह--"गोह इति विकृतग्रहणम्()" इत्यादि। ऊत्त्वस्य विशिष्टविषयो यथा स्यादित्येवमर्थम्()। "गोह" इति विकृतस्य कृतोकारस्थ ग्रहणमित्यर्थः। एतदेव व्यक्तीकर्त्तुमाह--"यत्र" इत्यादि। अस्य कश्चिदमुमर्थमाचष्टे। एतदुक्तं भवति--गुणे कृते ऊत्त्वेन भवितव्यमिति लक्ष्यते; एतच्चायुक्तम्();
एवं हि व्याख्यायमाने "अयादेशप्रतिषेधार्थं "निगूह्र गतः" इति "केचिदिच्छन्ति" इत्युक्त्वा यद्वक्ष्यति--"उत्त्वस्यासिद्धत्वात्? "ल्यपि लघूपूर्वात्()"
६।४।५६ इति णेरयादेशः स्यात्()" इति, तन्नोपपद्यते। यदि गूणं कृत्वोकारस्योत्त्वं विधीयते, ततश्च सत्यूकारस्यासिद्धत्वेनैव लघुपूर्वत्वमुपपद्यते, ओकारपूर्वत्वात्();
तत्? कुत ऊकारस्यासिद्धत्वेऽयादेशप्रसङ्गः? तस्मादयमत्रार्थः--यस्मिन्? विषये गुहेर्गोह इत्येतद्रूपं सम्भाव्यते तत्र यथा स्यात्()।
यत्र प्रत्यये गुणः सम्भवति तस्मिन्? कृतेऽकृत एव गुणे यथा स्यात्(), अन्यत्र मा भूदिति।
तस्माद्विकृतनिर्देशस्य विशिष्टविषयोपलक्षणार्थत्वात्? गुणविषये सम्मुखीभूत एवाकृत एव गुण ऊत्वेन भवितव्यम्()। एवञ्च सति "ऊत्तवस्यासिद्धत्वात्()" इत्यादिकः प्रसङ्गग्रन्थो युज्यते, नान्यथा।
ननु च गुणनिमित्ते प्रत्यय उत्पन्ने परत्वाद्? गुणेनैव भवितव्यम्(),
तत्कथमकृत एव गुण ऊत्त्वं भवेत्()? कृताकृतप्रसङ्गित्वात्()। तद्धि कृते गुणे प्राप्नोत्यकृतेऽपि, विकृतनिर्देशस्य विशिष्टविषयोपलक्षणार्थत्वात्()। न तूत्त्वे कृते गुणः प्राप्नोति, अलघूपधत्वात्()।
तस्माद्? गुणात्? पूर्वमूत्त्वेन नित्यत्वाद्भवितव्यम्()। अत एव दीर्घोच्चारणमर्थवद्भवति, नान्यथा। यदि गुणे कृते सत्ययमादेशः स्यात्(), दीर्घोच्चारणमनर्थकं स्यात्()। आन्तरतम्यादेव दीर्घस्य दीर्घो भविष्यति। ज्ञापितं हि "दिव उत्()" (६।१।
१३१) इति तपकरमेन--"भाव्यमानोऽप्युकारः सवर्णान्? गृह्णति" (चान्द्र।प।४४) इति।
यदन्यत्? प्राप्नोति तन्निवृत्त्यर्थं दीर्घोच्चारणमिति चेत्()? स्यादेतत्()--"अजुगूहत्()" इत्यत्र "णौ चङ्यपधायाः"
७।४।१ इति ह्यस्वो मा भूदित्येवमर्थं दीर्घोच्चारणमिति।
कुतः पुनरेष नियमोऽत्र ह्यस्वत्वेन न भवितव्यमिति? न हीह कात्यायनस्य भाव्यकारस्य वा वचनमस्ति, नापि शिष्टप्रयोगः, यत एष निश्चयः स्यात्()। "यथालक्षणमप्रयुक्तेषु" इति चोच्यत।
तस्मात्? "अजूगुहत्()" इत्येवं भवितव्यम्()। यदि गुणे कृतेऽयमादेशः क्रियेत,
ततः किमनिष्टं स्यात्()? दीर्घोच्चारणमनर्थकं स्यात्()।
अत्रापि दीर्घोच्चारणं वैचित्त्र्यार्थं प्रकल्प्येत? एवमपि प्रक्रियागौरवं स्यात्()। तस्माद्दीर्घोच्चारणसामथ्र्यादकृत एव गुण ऊत्त्वेन भवितव्यम्()। "निगूह्र गतः" इति।
ण्यन्तात्? कत्वा, प्रादिसमासः। "समासोऽनञ्पूर्व"
७।१।३७ इत्यादिना क्त्वो ल्यप्()। "तत्र व्याश्रयत्वात्()" इत्यादि। एतेनायादेशप्रतिषेधार्थतां विकृतिनिर्देशस्य प्रत्याचष्टे।
कथं पुनव्र्याश्रयत्वम्()? इत्याह--"णावूत्त्वम्()" इत्यादि।
"निगोढा" इति। तृच्()। "हो ढः"
८।२।३१, "झषस्तथोर्धोऽधः"
८।२।४० इति धत्वम्(), "ष्टुना ष्टुः"
८।४।४० इति ष्टुत्त्वम्(), "ढो ढे लोपः"
८।३।१३॥