पूर्वम्: ६।४।८९
अनन्तरम्: ६।४।९१
 
सूत्रम्
दोषो णौ॥ ६।४।९०
काशिका-वृत्तिः
दोषो णौ ६।४।९०

दोषः उपधाया ऊकारः आदेशो भवति णौ परतः। दूषयति, दुषयतः, दूषयन्ति। विकृतग्रहणम् प्रक्रमाभेदार्थम्। पूर्वत्र हि गोहः इत्युक्तम्। णौ इति किम्? दोषो वर्तते।
न्यासः
दोषो णौ। , ६।४।९०

"दीषयति" इति। "दुष वैकृत्ये" (धा।पा।११८५)। अथ किमर्थम्? "दोषः" इति विकृतस्य ग्रहणम्(), न "दुषः" इत्येवोच्येत, विषयावधारणार्थमिति चेत्()? न; णाविति साक्षाद्विषयस्य निर्देशादित्यत आह--"विकृतग्रहणम्" इत्यादि पूर्वसूत्रे हि "गोङः" इत्युक्तम्(), अत्र यदि "दूषः" इत्येवोच्येत, प्रक्रमस्यारम्भस्य भेदः स्यात्(), अभेदश्चेष्यते। अतदस्तदर्थं विकृतस्य ग्रहणम्()। किमर्थं पुनः प्रक्रमस्याभेद इत्यते? अत्यल्पमिदं पृच्छ्यते, वैचित्त्र्यस्यापि नाम प्रयोजनं प्रष्टव्यम्()। वैचित्त्र्यस्य ह्रयं प्रकारः--प्रक्रमाभेद इति, किं तदर्थेन प्रश्नपरिश्रमेण!॥
बाल-मनोरमा
दोषो णौ ४३१, ६।४।९०

दोषो णौ। "ऊदुपधाया" इत्यनुवर्तते। "दुष वैकृत्ये" इति श्यन्विकरणः। तस्य कृतलघूपधगुणस्य निर्देशः। ततश्च गुणविषयकमेवेदम्। दुष्यतेरुपधाया ऊत्स्यादिति। "णा"विति शेषः। दूषयतीति। लघूपधगुणापवाद ऊत्। "दुषो णा"वित्येव सुवचम्।

तत्त्व-बोधिनी
दोषो णौ ३७५, ६।४।९०

दोषो णौ। दुष वैकृत्ये। दिवादिः। णौ किम्?। दोषः।