पूर्वम्: ६।४।९१
अनन्तरम्: ६।४।९३
 
सूत्रम्
मितां ह्रस्वः॥ ६।४।९२
काशिका-वृत्तिः
मितां ह्रस्वः ६।४।९२

मितो धातवः घटादयो मितः इत्येवम् आदयो ये प्रतिपादिताः, तेषाम् उपधाया ह्रस्वो भवति णौ परतः। घटयति। व्यथयति। जनयति। रजयति। शमयति। ज्ञपयति। केचिदत्र वा इत्यनुवर्तयन्ति। सा च व्यवस्थितविभाषा। तेन उत्क्रामयति, सङ्क्रामयति इत्येवम् आदि सिद्धं भवति।
लघु-सिद्धान्त-कौमुदी
मितां ह्रस्वः ७०७, ६।४।९२

घटादीनां ज्ञपादीनां चोपधाया ह्रस्वः स्याण्णौ। घटयति॥ ज्ञप ज्ञाने ज्ञापने च॥ ज्ञपयति। अजिज्ञपत्॥
लघु-सिद्धान्त-कौमुदी
इति ण्यन्तप्रक्रिया ७०७, ६।४।९२

लघु-सिद्धान्त-कौमुदी
अथ सन्नन्तप्रक्रिया ७०७, ६।४।९२

न्यासः
मितां ह्वस्वः। , ६।४।९२

"एवमादिना" इति। आदिशब्देन "जनीजृ()ष्कनसुरञ्जोऽमन्ताश्च" (धा।पा।८१७) इत्येवमादिग्रहणम्()। "घटयति" व्यथयति" जनयति" इति। "घट चेष्टायाम्()" (धा।पा।७६३) "व्यथ भयचलनयोः (धा।पा।७६४) "जनौ प्रादुर्भावे" (धा।पा।११४९)। ननु च जनेः "जनिवध्योश्च" ७।३।३५ इति वृद्धिः प्रतिषिध्यते, तदयुक्तमिदमुदाहरणम्(), मित्सज्ञाप्यापार्थिका? नैतदस्ति; चिण्कृतोर्हि स वृद्धिप्रतिषेधः, तत्र हि "आतो युक्? चिण्कृतोः" ७।३।३३ #इत्यनुवत्र्तते। "रजयित" इति। "रञ्जेर्णौ मृगरमण उपसंख्यानम्()" (वा।७७८)। इत्यनुनासिकलोपे कृते "अत उपधायाः" ७।२।११६ इति वृद्धिः। तस्यानेन ह्यस्वः। "शमयति" इति। शमेरमन्तत्वान्मित्त्वम्()। अस्यापि "नोदात्तोपदेश" ७।३।३४ इत्यादिना वृद्धिप्रतिषेधश्चिण्कृतोरेव। "ज्ञापयति" इति। "ज्ञा अवबोधने" (धा।पा।१५०७) इत्यस्य क्र्यादिपरिपठितस्य "मारणतोषणनिशामनेषु (धा।पा।८११) ज्ञा, मिच्च" इति मित्संज्ञा, "अर्तिह्यी" ७।३।३६ इत्यादिना पुकि कृते ह्यस्वः। "केचिदत्र" इत्यादि। "क्रमु पादविक्षेपे" (धा।पा।४३७)इत्यस्यामन्तत्वान्मित्संज्ञा, तस्य च ह्यस्वत्वे संक्रामयति, उत्क्रामयतीति न सिद्ध्येत्()। तस्मादेतत्सिद्धये "वा चित्तविरागे" ६।४।९१ इत्यतो वाग्रहणमनुवर्तयन्()ति। त()स्मश्चानुवत्र्तमाने सर्वत्र विकल्पः प्रसज्येतेत्यतिप्रसङ्गपरिहारार्थं "सा च व्यवस्थितविभाषा" इति। व्याचक्षते। अथ "मितामत्()" इत्येवं कस्मान्नोक्तम्(), लघु ह्रेवं सूत्रं भवति? अशक्यमेवं वक्तुम्(), "वेष्ट वेष्टने" (धा।पा।२५५) इति घटादौ पठ()ते, तत्रैवमुच्यमाने तस्याप्कारः प्रसज्येत्(), "ह्यस्वः" इत्युच्यमाने "एच इग्? ह्यस्वादेशे" १।१।४७ इतीकारः सिद्धो भवति॥
बाल-मनोरमा
मितां ह्यस्वः ३९५, ६।४।९२

मितां ह्यस्वः। "ऊदुपधाया गोहः" इत्यत उपधाया इति, "दोषो णौ" इत्यतो णाविति चानुवर्तते। तदाह -- मितामुपधाया इत्यादिना। ज्ञपयतीति। णिचि उपधावृद्धौ ह्यस्व इति भावः। यम च परिवेषणे। चान्मिदिति। "इति अनुकृष्यते" इति शेषः। यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक्चेत्यर्थः। मित्संज्ञक इति वा। परिवेषणामिह वेष्टनमिति। "पिरवेषस्तु परिधि"रिति कोशादिति भावः। न तु भोजनमिति। भुजेर्हेतुमण्ण्यन्तात्स्त्रियामित्यधिकारे "ण्यासश्रन्थो युच्"। क्लीबत्वं लोकात्। "भोजने"त्येव क्वचित्पाठः। भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः। भोजनायां यमेर्हुतमण्ण्यन्तस्य अमन्तत्वादेव मित्त्वसिद्धेरिति भावः। परिवेष्टत इत्यर्थ इति। अनेन इह परिविषेरण्यन्ताल्ल्युटि परिवेषणशब्द इति सूचितम्। नच वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्धे मित्त्विधिव्र्यर्थ इति वाच्यं, "न कम्यमिचमा"मिति मित्()तवप्रतिषेधप्रकरणस्थे "यमोऽपरिवेषणे" इति घटाद्यन्तर्गणसूत्रेऽपरिवेषणे इति पर्युदासेन भोजनेतोऽन्यत्र वेष्टनेऽर्थे मित्तवनिषेधस्य प्राप्तौ मित्त्वप्रापणार्थत्वात्। "यमोऽपरिवेषणे" इत्यत्र परिवेषण शब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेर्मित्त्वनिषेधस्य प्रसङ्गात्। अत एव "यमिर्भोजनातोऽन्यत्र न मि"दिति व्याख्यातं मूलकृता। भोजनायां तु "यमोऽपरिवेषणे" इति मित्त्वनिषेधविधौ भोजनायाः पर्युदासादेव तत्र मित्त्वनिषेधाऽभावादम्नतत्वादेव मित्त्वप्राप्तेरिह चुरादौ पिरवेषणशब्देन वेष्टनमेव विवक्षितं नतु भोजनेत्यास्तां तावत्। चह परिकल्पने इति। इत आरभ्य "चिञ् चयने" इत्येतत्पर्यन्तं चेत्यनुवर्तते। अतस्तेषां मित्त्वण्णिचि ह्यस्वः। तदाह - चहयतीति। नन्वनेनैव सिद्धे अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह-- कथादाविति। "कथादयोऽदन्ता"इति वक्ष्यते। तस्माण्णिचि अल्लोपे चहयतीत्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यबावे मित्त्वाद्ध्रस्वे च न विशेषः। तथापि अदन्ताच्चङि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावे "अचचह"दिति रूपमस्ति फलमित्यर्थः। चप इत्येके इति। "चह परिकल्पने" इत्यस्य स्थाने "चपे"त्येके पठन्तीत्यर्थः। "रह त्यागे इत्येके" इत्यपि तथैव व्याख्येयम्। एवं च ज्ञपादिषु पञ्चसु चहधातुश्चपधातुः रहधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चम इति कृत्वा ज्ञपादिपञ्चानां मतत्रयेऽपि पञ्चत्वाज्ज्ञपादिपञ्चकत्वस्य न विरोधः। "रह त्यागे"इत्यस्यापि कथादिपाठफलमाह-- कथादेस्तु अररहदिति। अदन्तत्वेन अग्लोपित्वान्न दीर्घसन्वत्त्वे इति भावः। बल प्राणने। "चे"त्यनुवृत्त्या मित्त्वस्यानुकर्षणाद्ध्रस्वं मत्वाह --बलयतीति।

तत्त्व-बोधिनी
मितां ह्यस्वः ३४५, ६।४।९२

वेष्टनमिति। "परिवेषस्तु परिधि"रित्यमरः। न त्वित्यादि। अयं भावः-- घटादौ "यमोऽपरिवेषणे" इति पठितं, तत्र हि परिवेषणमिति हेतुमण्ण्यन्तस्य रूपम्। हेतुमण्ण्यन्तस्य हि भोजना वेष्टना चाऽर्थः। तथा च अपरिवेषण इत्यनेन भोजनातो वेष्टनातश्चान्यत्र मित्त्वनिषेधेऽपि तयोरर्थयोस्त्वमन्तत्वादेव मित्त्वसिद्धेरिति। यद्यपि घटादौ "यच्छतिर्भोजनातोऽन्यत्र मिन्ने"ति व्याख्यातं तथाप्यत्रत्यग्रन्थानुगुण्येनोपपलक्षणतया तद्व्याख्येयमित्याहुः। अत्रेदं बोध्यं-- घटादौ "यमोऽपरिवेषणे" इत्यत्र परिपूर्वकस्य विषेर्णिजन्तस्य ल्युटि रूपम्, "यम च परिवेषणे" इत्यत्र तु केवलस्यैव ल्युटि रूपं न तु णिजन्तस्य। तथा च भोजनावद्वेष्टनाया अपि परिवेषणशब्दार्थत्वादुभयत्राप्यमन्तत्वेनैव मित्त्वं सिध्यति। वेष्टने तु अपरिवेषण इत्यनेन अमन्तत्वप्रयुक्तमित्त्वस्य निषेधेऽपि "यम च परिवेषणे" इत्यनेन मित्त्वं सिध्यतीति दिक्।