पूर्वम्: ६।४।९३
अनन्तरम्: ६।४।९५
 
सूत्रम्
खचि ह्रस्वः॥ ६।४।९४
काशिका-वृत्तिः
खचि ह्रस्वः ६।४।९४

खच्परे णौ परतो ह्रस्वो भवति अङ्गस्य उपधायाः। द्विषन्तपः। परन्तपः। पुरंदरः।
न्यासः
खचि ह्वस्वः। , ६।४।९४

"द्विषन्तपः, परन्तपः" इति। "द्विषत्परयोस्तापे" ३।२।३९ इति खच्(), "अरुर्द्विषदजन्तस्य" ६।३।६६ इति मुम्()। "पुरन्दरः" इति। "पूःसर्वयोर्दारिसहोः" ३।२।४१ इति खच्(), "वाचंमपुरन्दरौ च" ६।३।६८ इति निपातनान्मुमागमः। ह्यस्वग्रहणं विस्पष्टार्थम्(), शक्यते "मितां ह्यस्वः" ६।४।९२ इत्यतो मण्डूकप्लुतिन्यायेन ह्यस्वग्रहणमनुवत्र्तयितुम्()॥
बाल-मनोरमा
खचि ह्यस्वः ७६७, ६।४।९४

खचि ह्यस्वः। "दोषो णौ" इत्यतो णाविति, "उदुपधायाः" इत्यत "उपधाया" इति चानुवर्तते। तदाह-- खच्परे णाविति। खशि प्रकृते खचो विधिरिह ह्यस्वार्थोऽणिलोपार्थश्च। खशि तु तदुभयं न स्यात्, खशः शित्त्वेन सार्वधातुकतया णिलोपाऽसंभवात्। न च इहैव सूत्रे खज्विधीयतां, पूर्वसूत्रे खशेवाऽनुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात्। एवं च "गमेः सुपी"ति वार्तिकमेतल्ल्ब्धार्थकथनपरमेवेत्याहुः।