पूर्वम्: ६।४।९५
अनन्तरम्: ६।४।९७
 
सूत्रम्
छादेर्घेऽद्व्युपसर्गस्य॥ ६।४।९६
काशिका-वृत्तिः
छादेर् घे ऽद्व्युपसर्गस्य ६।४।९६

छादेरङ्गस्य अद्व्युपसर्गस्य घप्रत्यये परतः उपधायाः ह्रस्वो भवति। उरश्छदः प्रच्छदः। दन्तच्छदः। णिलोपस्य असिद्धत्वं स्थानिवद्भावो वावचनसामर्थ्यादत्र न भवति इति ह्रस्वभाविनी उपधा भवति। अद्व्युपसर्गस्य इति किम्? समुपच्छादः। अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम्। समुपातिच्छादः। उत्तरा हि सङ्ख्या पूर्वसङ्ख्याकृतं व्यपदेशम् निवर्तयति, नहि त्रिपुत्रो द्विपुत्रः इति व्यपदिश्यते।
लघु-सिद्धान्त-कौमुदी
छादेर्घेऽद्व्युपसर्गस्य ८७६, ६।४।९६

द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे। दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छदः। आकुर्वन्त्यस्मिन्नित्याकरः॥
न्यासः
छादेर्घेऽद्व्युपसर्गस्य। , ६।४।९६

"उरश्छदः" इति। "छद अपवारणे" (धा।पा।१९३५), चुरादिणिच्(), "पुंसि संज्ञायां घः प्रायेण" ३।३।११८ इति घः। "उरसश्छदः" इति विगृह्र "कृद्योगा च षष्ठी समस्यते" (वा।८६) इति समासः। ननु च णिलोपस्य "असिद्धवदत्रा भात्()" (६।४।२२) इत्यसिद्धत्वात्? "अचः परस्मिन्पूर्वविधौ" १।२।५७ इति स्थानिवद्भावाद्वा ह्यस्वभाविन्यज्लक्षणोपधा न सम्भवति, तत्? कथं ह्यस्वत्त्वं प्रवत्र्तते? इत्याह--"णिलोपस्य" इत्यादि। यद्यत्र णिलोपस्यासिद्धत्वं स्थानिवद्भावो वा स्यात्(), तदा वचनमनर्थकं स्यात्()। तस्माद्वचनसमथ्र्यादुभयमपि न भवति, तेन ह्यस्वभाविन्युपधा भवति। "अद्विप्रभृत्युपसर्गस्येति वक्तव्यम्()" इति। ननु च त्रिप्रभृतयो यत्र सन्ति तत्र द्वावपि स्तः, ततश्चाद्व्युपसर्गस्येत्येवं सिद्धम्()? इत्यत आह--"उत्तरा हि" इत्यादि। यद्यपि त्रिप्रभृतिषु द्वावपि स्तः, तथापि न ताविह द्विशब्देनोपात्तौ; यत उत्तरा हि संख्या पूर्वसंख्याया यः कृतो व्यपदेशस्तदभिधानं निवत्र्तयति। कथं ज्ञायते? इत्याह--"न हि" इत्यादि। यद्युत्तरा संख्या पूर्वसंख्याकृतव्यपदेशं न निवत्र्तयेत्(), तदा त्रिपुत्रोऽपि लोके द्विपुत्र इत्यभिधीयेत, न चाभिधीयते। तथा हि "द्विपुत्रः आनीयताम्()" इत्युक्ते नैव त्रिपुत्र आनीयते, अपि तु यस्यं द्वादेव पुत्रौ स एव। अद्विप्रभृतीत्यादेश्च वाक्यस्यायमर्थः--अद्धिप्रभृत्युपसर्गस्य छादेह्र्यस्वत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--द्विशब्दोऽत्रानेकोपलक्षणार्थम्(), द्व्युपसर्गस्यानेकोपसर्गस्येति यावत्()। अद्व्युपसर्गस्येते च प्रसज्यप्रतिषेधोऽयम्()। तेनायमर्यो भवति--छादेरङ्गस्यानेकोपसर्गस्य घप्रत्यये परत उपधाह्यस्वो न भवतीति। केन पुनः प्राप्तस्य ह्यस्वस्यानेन प्रतिषेधः क्रियते? एतस्मादेव प्रतिषेधाद्विधायकं वाक्यमनुमीयते। योगविभागाद्व#आ--"छादेर्घे" इति। यदि च द्विशब्दोऽत्रानेकोपलक्षणार्थः, योगविभागश्चाभ्युपेयेतैवं तदा पर्युदासेऽप्यदोषः। कथम्()? द्व्युपसर्गादनेकोपसर्गादन्योऽद्व्युपसर्गः=एकोपसर्गः, तस्य ह्यस्वत्त्वं भवति। किमर्थमिदम्(), न "छादेर्घे" इत्यनेनैव सिद्धम्()? सिद्धे सत्यारम्भो नियमार्थः--एकोपसर्गस्यैव भवति, नान्यस्येति। यद्येदम्? "उरश्छदः" इत्यत्र न प्राप्नोति? नैष दोषः, एवं हि योगविभागोऽनर्थकः स्यात्()। तुल्यजातीयापेक्षत्वान्नियमस्य, सोपसर्गस्य नियमः क्रियमामः सोपसर्गस्येव ह्यस्वत्वं निवत्र्तयति, नानुपसर्गस्य। तेन "उत्तरश्छदः" इत्यत्र प्रवर्तत एव॥
तत्त्व-बोधिनी
छादेर्घेऽद्व्युपसर्गस्य १५७३, ६।४।९६

आकुर्वन्तीति। एत्य कुर्वन्त्यस्मिन्व्यवहारमित्याकर उत्पत्तिस्थानम्।