पूर्वम्: ६।४।९७
अनन्तरम्: ६।४।९९
 
सूत्रम्
गमहनजनखनघसां लोपः क्ङित्यनङि॥ ६।४।९८
काशिका-वृत्तिः
गमहनजनखनघसां लोपः क्ङित्यनङि ६।४।९८

गम हन जन खा घस इत्येतेषाम् अङ्गानाम् उपधाया लोपो भवत्यजादौ प्रत्यये क्ङिति अनङि परतः। जग्मतुः। जग्मुः। जघ्नतुः। जघ्नुः। जज्ञे, जज्ञाते, जज्ञिरे। चख्नतुः। चख्नुः। जक्षतुः। जक्षुः। अक्षन् पितरो ऽमोमदन्त पितरः। क्ङिति इति किम्? गमनम्। हननम्। अनङि इति किम्? अगमत्। अघसत्। अचि इत्येव, गम्यते। हन्यते।
लघु-सिद्धान्त-कौमुदी
गमहनजनखनघसां लोपः क्ङित्यनङि ५०७, ६।४।९८

एषामुपधाया लोपोऽजादौ क्ङिति न त्वङि। जग्मतुः। जग्मुः। जगमिथ, जगन्थ। जग्मथुः। जग्म। जगाम, जगम। जग्मिव। जग्मिम। गन्ता॥
न्यासः
गमहनजनखनघसां लोपः क्ङित्यनङि। , ६।४।९८

"अनङि" इति अजादावयं प्रतिषेधः, तेन तत्तुल्येऽजादावेव प्रत्यये कार्यं विज्ञायते, इत्याह--"अजादौ प्रत्यये" इति। "जध्नतुः, जध्नुः" इति। "अभ्यासाच्च" ७।३।५५ इति कुत्वम्। "जज्ञतुः, जज्ञुः" इति। "जन जनने" (धा।पा।११०५), परस्मैपदी जौहोत्यादिकः, "स्तोः श्चुना श्चः" ८।४।३९ इति श्चुत्वम्()। "जज्ञे" इति। "जनि प्रादुर्भावे" (धा।पा।११४९) आत्मनेपदी दिवादिः, "लिटस्तझयोरेशिरेच्()" ३।४।८१ इत्येश्()। "जक्षतुः" इति। अदेः "लिट()न्यतरस्याम्()" २।४।४० इति घस्लादेशः, "खरि च" ८।४।५४ इति घकारस्य ककारः, "शासिवसिधसीनाञ्च" ८।३।६० इति षत्वम्()। अथ वा--"घरलृ अदने" (धा।पा।७१५) इत्यस्यैतद्रूपम्()। "अक्षन्()" इति। लुङ्(), "लुङ्सनोर्घस्लृ" २।४।३७ इति घस्लादेशः, "मन्त्रे घसह्वर" २।४।८० इत्यादिना लेर्लुक्(), झेरन्तादेशः, संयोगान्तलोपः। शेषं पूर्ववत्()। "अधसत्(), अगमत्()" इति। पुषादिसूत्रेण ३।१।५५ अङ॥
बाल-मनोरमा
गमहनजनखनघसां लोपः क्ङित्यनङि २००, ६।४।९८

गमहन। उपधाया इति। "ऊदुपधायाः" इत्यतस्तदनुवृत्तेरिति भावः। अजादाविति। "अचि श्नुधात्वि"त्यतोऽनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणतया तदादिविधिलाभ त भावः। क्ङितीत्युक्तेश्चखानेत्यत्र नोपधालोपः। अनङीति किम्?। अगमत्। चख्ने चख्नाते इत्यादि। व्यय। अयं वित्तत्यागेऽपि, अर्थनिर्देशस्योपलक्षणत्वात्। अव्ययीदिति। "ह्म्यन्ते"ति न वृद्धिः। चष भक्षण इति। चचाष चेषतुः। छष हिंसायामिति। वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपो न। तदाह--चच्छषतुरिति। गुहू। उदुपधोऽयम्। ऊदित्।

तत्त्व-बोधिनी
गमहनजनखनघसां लोपः क्ङित्यनङि १७३, ६।४।९८

गमहन "अचि श्नुधातुभ्रुवा"मित्यतोऽचीत्यनुवर्तते। "ऊदुपधाया गोहः" इत्यत उपधाग्रहणं च। तदाह-- एषामुपधाया इत्यादि। जग्मतुः। जग्मुः। जघ्नतुः। जग्घुः। जज्ञे। जज्ञाते। जक्षतुः। जक्षुः। अनङीति अनङीति किम्?। अगमत्। चीवृ। चीवरं-- वरुआं। "चीवरपीवरमीवरे"त्युणादिषु निपातितऽयम्। व्यय गतौ। वित्तत्यागे तु नित्यमात्मनेपदीगत इति मनोरमा। न कुत्रापि गत इति चिन्त्यैव सा। अव्ययीदिति। यान्तत्वान्न वृद्धिः। स्पश बाधनस्पर्शनयोः। "णिश्री"ति च्लेश्चङि--अपस्पशत्। -- "अत्स्मृद्दृत्वरप्रथे"त्यादिना अभ्यासस्याऽत्वं सन्वदित्त्वापवादः। पस्पशा। यङन्तादचि "यङोऽचि च" इति लुक्। "अजाद्यतः" इति टाप्। "दीर्घोऽकितः" इत्यभ्यासस्य दीर्घस्तु न भवति, संज्ञापूर्वकविधेरनित्यत्वादित्याहुः। "जपजभदहदशभञ्जपसां चे"त्यत्र पसेति सौत्रो धातुः। पसतीत्यादि। यङ्लुकोस्तु "जपजभे"त्यनेनैवाभ्यासस्य नुक्। यङि-- पंपस्यते।लुकि --पंपसीति। पंपसिति कण्ड्वादिः। पंपस्यति।