पूर्वम्: ६।४।९८
अनन्तरम्: ६।४।१००
 
सूत्रम्
तनिपत्योश्छन्दसि॥ ६।४।९९
काशिका-वृत्तिः
तनिपत्योश् छन्दसि ६।४।९९

तनि पति इत्येतयोः छन्दसि विषये उपधाया लोपो भवति अजादौ क्ङिति प्रत्यये परतः। वितत्निरे कवयः। शकुना इव पप्तिम। छन्दसि इति किम्? वितेनिरे। पेतिम।
न्यासः
तनिपत्योश्चन्दसि। , ६।४।९९

"वितत्निरे" इति। अत्र यद्युपधालोपस्यासिद्धत्वम्? तथापि लोपविधानसामथ्र्यात्? "अत एकहल्मध्ये" ६।४।१२० इत्यादिनैत्वाभ्यासलोपौ न भवतः। "पप्तिमा" इति। लिट्? क्रादिनियमादिट्()॥