पूर्वम्: ६।४।१७५
अनन्तरम्: ७।१।२
 
प्रथमावृत्तिः

सूत्रम्॥ युवोरनाकौ॥ ७।१।१

पदच्छेदः॥ युवोः ६।१ अनाकौ १।२ अङ्गस्य ?

समासः॥

युश्च वुश्च युवु, तस्य ॰ समाहारद्वन्द्वः।
अनश्च अकश्च अनाकौ, इतरेतरद्वन्द्वः।

अर्थः॥

अङ्गसम्बन्धेनोः यु वु इतेतयोः स्थाने यथासङ्ख्यं अन अक इत्येतौ आदेशौ भवतः।

उदाहरणम्॥

नन्दनः, रमणः, सायन्तनः, चिरन्तनः। अक - कारकः, हारकः, वासुदेवकः, अर्जुनकः॥
काशिका-वृत्तिः
युवोरनाकौ ७।१।१

यु वु इत्येतयोः उत्सृष्टविशेषणयोः अनुनासिकयणोः प्रत्यययोर् ग्रहणम्, तयोः स्थाने यथासङ्ख्यम् अन अक इत्येतावादेशौ भवतः। योः अनः, वोः अकः। नन्द्यादिभ्यो ल्युः नन्दनः। रमणः। सायमादिभ्यष्ट्युट्युलौ तुट् च सायनतनः। चिरन्तनः। ण्वुल्तृचौ कारकः। हारकः। वासुदेवार्जुनाभ्यां वुन् ४।३।९८ वूसुदेवकः। अर्जुनकः। अनुनासिकयणोः इति किम्? ऊर्णाया युस् ५।२।१२२ ऊर्णायुः। भुजिमृङ्भ्यां युक्त्युकौ भुज्युः, मृत्युः इति। एवम् आदीनां हि यणो ऽनुनासिकत्वं न प्रतिज्ञायते, प्रतिज्ञानुनासिक्याः पाणिनीयाः। इह युवोरिति निर्देशाद् द्वन्द्वैकवद्भावपक्षे अनित्यम् आगमशासनम् इति नुम् न क्रियते। नपुंसकलिङ्गता वा लिङ्गमशिष्यं लोकाश्रयत्वाल् लिङ्गस्य इति न भवति। इतरेतरपक्षे तु छान्दसत्वात् वर्णलोपो द्रष्टव्यः। युवोश्चेद् द्वित्वनिर्देशो द्वित्वे यण् तु प्रसज्यते। अथ चेदेकवद्भावः कथं पुंवद् भवेदयम्। द्वित्वे वैगमिको लोप एकत्वे नुमनित्यता। अशिष्यत्वाद् धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम्।
लघु-सिद्धान्त-कौमुदी
युवोरनाकौ ७८८, ७।१।१

यु वु एतयोरनाकौ स्तः। कारकः। कर्ता॥
न्यासः
युवोरनाकौ। , ७।१।१

शास्त्रस्य लाघवार्थमिह, युवू प्रत्ययावुपदिष्टौ, तयोः स्थानेऽनाकावादेशौ विधीयते। यदि हि यत्र यत्र युवोरुपदेशस्तत्र तत्रानाकावादेशो विधियेयाताम्(), तदा शास्त्रस्य गौरवं स्यात्(); तयोः प्रभूतवर्णसमुदायात्मकत्वात्()। इह युवोरनुनासिकयणोः प्रत्यययोरिदं ग्रहणम्(), न च तथाविधावननुबन्धकौ युवू शास्त्रे सम्भवतः; तत्र सामथ्र्याद्विशेषकराननुबन्धानुत्सृज्य सामान्येन तयोग्र्रहणं विज्ञायते? इत्याह---"युवु--इत्येतयोरुत्सृष्टविशेषणयोः" इति। इदं ग्रहणमिति वक्ष्यमाणेन सम्बन्धः। विशेषणं यद्योयोगं लकारादि, तदुत्सृष्टं परित्यक्तं ययोस्तौ यथोक्तौ। एतेन "युवो" इति ल्युडादीनां सामान्येन निर्देश इति दर्शयति। यद्यत्र युवोरित्याविशेषेण ग्रहणं स्यात्? तदा "यु मिश्रणे" (धा।पा।१०३३) ["यु मिश्रणेऽमिश्रणें च"--धा।पा।] युतः, युतवान्(), युत्वा; "दिषु क्रीडादौ (धा।पा।११०७) द्यूतः, धूतवान्(), धूत्वा; "ऊर्णाया युस्()" ५।२।१२२ ऊर्णायुरित्येवमादावप्यनाकौ स्याताम्(), अतोऽस्यातिप्रसङ्गनिरासायाह--"अनुनासिकयणोः" इति। अनुनासिको यण्ययोरिति बहुव्रीहिः। सन्ति हि यणः सानुनासिकाः निरनुनासकाश्च, तत्र हि ययोरनुनासिको यण्? तयोरिदं ग्रहणम्()। अनुनासिकयणौ च यौ युवू तौ प्रत्ययावेव, नाप्रत्ययाविति दर्शयितुमाह--"प्रत्यययोः" इति। अन्ये ,त्वप्रत्ययनिवृत्त्यर्थं प्रत्यययोरित्युक्तमिति वर्णयन्ति, तदयुक्तम्(); अनुनासिकयणोरित्यनेनैवाप्रत्ययनिवृत्तेः सिद्धत्वात्()। तन ह्रप्रत्ययावनुनासिकयणौ युवू शास्त्रे स्तः। तस्मादनुनासिकयणौ यो यूवू तौ प्रत्ययावेव, नाप्रत्ययाविति सम्भवप्रदर्शनार्थं प्रत्यययोरित्युक्तमिति विज्ञायते। अनुनासिकयणोश्च प्रत्ययोग्र्रहणे सत्यङ्गस्येति सम्बन्धलक्षणेयं षष्ठी वित्रेया। ङ्गसम्बन्धिनोर्युवोरिति सम्बन्धः। स पुनर्निमित्तिनिमित्तभावलक्षणः। प्रत्ययनिमित्तो ह्रङ्गस्यात्मलाभ इत्यङ्गं निमित्ति, प्रत्ययो निमित्तम्()। "योरनो वोरकः" इति। अनेन यथाक्रमं स्थान्यादेशसम्बन्धमाचष्टे"। "नन्द्यादिभ्यो ल्युः" इति। "नन्दिग्रहि" ३।१।१३४ इत्यादिना। "नन्दनः, रमणः" इति। "टु नदि समुद्धौ" (धा।पा।६७), "रमु "क्रीडायाम्()" (धा।पा।८५३)। हेतुमति णिच्(), तदन्ताल्लयुः। "सायन्तनः" इति। सायमादिभ्यष्ट()उट()लादिति। "सायञ्चिरम्()" ४।३।२३ इत्यादिना। जातादौ शैषिकेऽर्थे तद्धितः। "वासुदेवकः, अर्जुनकः" इति। वसुदेवस्यापत्यं वासुदेवः, वासुदेवो भक्तिरसयेत#इ "वसुदेवार्जुनाभ्यां वुन्()" ४।३।९८ इति वुन्()--वासुदेवकः, अर्जुनकः। ऊर्णा अस्य सन्तीत्यूर्णायुः, तत्रानुनासिकयणत्वाभावान्न भवति। किं पुनः कारणमेवमादीनीं यणोऽनुनासिकत्वं नास्ति? इत्याह--"एवमादीनाम्()" इत्यादि। "प्रतिज्ञानुनासिक्याः पाणिनीयाः" इति। यत्र तैरनुनासिकत्वं प्रतज्ञायते तत्रैव भवति, नान्यत्र। न च युस्प्रभृतीनां तैस्तत्? प्रतिज्ञायते, लक्ष्यानुरोधात्()। तेन तेषां यणोऽनुनासिकत्वं न भवति। आदिशब्देन "अहं शुभमोर्युस्()" ५।२।१३९ इत्येवमादयो गृह्रन्ते। ननु च "अहंशुभमोर्युस्()" "कंशंभ्यां वभयुस्तितुतयसः" ५।२।१३७ इत्यतर, सित्करणादेव न भविष्यति, सित्करणं हि पदसंज्ञार्यम्(), पदसंज्ञा चानुस्वारार्था--तस्यां सत्यां "मोऽनुस्वारः" ८।३।२३ इत्यनुस्वारो यथा स्यात्()। यदि चात्रानादेशः स्यात्? तदा सित्करणमनर्थकं स्यात्(), न ह्रनादेशे कृतेऽनुस्वारो भवति, तद्विधौ "हलि सर्वेषाम्()" ८।३।२२ इत्यतो हलीत्यनुवृत्तेः। आदेशे कृते न भवति; हलादित्वाभावात्()? नैतदस्ति; वचनसामथ्र्यादजादावप्यनुस्वारः स्यात्()। सित्करणस्यान्यदपि प्रयोजनम्()--पदसंज्ञा। तत्प्रजनम्()--भसंज्ञाबाधः। भसंज्ञायामध्ययानां भमात्रे टिलोपः स्यात्()। अवग्रहार्थे वा सित्करणं स्यात्(), कुतस्यानर्थक्यम्()! इह युवोरिति निर्देशे समाहारे वा द्वन्द्व आश्रीयते, इतरेतरयोगे वा; तत्र पूर्वस्मिन्? पक्षे षष्ठ()एकवचने कृते "स नपुंसकम्()" (२।४।१७) इति नपुंसकत्वात्? "इकोऽचि विभक्तौ" ७।१।७३ इति नुमा भवितव्यम्(), ततश्च "युवुनः" इति निर्द्देशः स्यात्()। इतर()स्मस्तु पक्ष ओसि परतो यणादेशे कृते युष्वोरिति द्वितीयवकारश्रवणमापद्येत? इत्येतच्चोद्यनिरासायाह--"इह युवोरिति निर्देशः" इत्यादि। "अनित्यमागमशासनम्()" इति। आगमानां शासनम्()=विधानम्(), तदनित्यमिति; क्वचित्? तदभावात्()। अथ वा--आगमाः शिष्यन्ते विधीयन्ते येन शास्त्रेण तदागमशासनं शास्त्रम्(), तदनित्यम्(), अविद्यमानं नित्यं कार्यमस्येति कृत्वा। अनित्यता पुनरागमशासनस्य "घोर्लोपो लेटि वा" ७।३।७० इत्यत्र वाग्रहणाल्लिङ्गाद्विज्ञायते। तद्धि ददद्(), ददादित्यत्र नित्यं घोर्लोपो मा भूदित्येवमर्थं क्रियते। यदि च नित्यमागमशासनं स्याद्वाग्रहणमनर्थकं स्यात्()। भवतु नित्यो लोपः, सत्यपि तस्मिन्? "लेटोऽडाटौ" (३।४।९४) इत्यटि कृते ददद्? ददादिति सिद्ध्यत्येव। अनित्यत्वे त्वागमशासनस्याडागमाभावान्न सिध्यति। ततो वावचनमर्थवद्भवति। "नपुंसकलिङ्गता वा" इत्यादि। अथ वा नपुंसकलिङ्गतैवात्र नास्ति। किं कारणम्(ित्याह--"लिङ्गमशिष्यम्()" इत्यादि। लिङ्गस्य हि लोकधर्मत्वाल्लोक एवाश्रयः। तस्माल्लोकत एव सिद्धत्वात्? तदश्रिष्यं न विधातव्यम्()। लिङ्गशास्त्रमेवात्र तादथ्र्याल्लिङ्गशब्देनोच्यते। लिङ्गार्थ शास्त्रमशिष्यं न कत्र्तव्यम्(), तत्साध्यस्य लिङ्गस्य लोकाश्रयत्वात्()। तदनेन "स नपुंसकम्()" २।४।१७ इत्यादेः प्रत्याख्यानं दर्शयति। त()स्मश्च प्रत्याख्याते सति तद्द्वारेण तस्य नपुंसकत्वं न भवतीति कुतो नुम्प्रसङ्गः! "इतरेतरपक्षे तु च्छान्दसत्वाद्वर्णलोपः" इति। "छन्दोवत्? सूत्राणि भवन्ति" इति। छान्दसत्वम्()। तेन यथेष्कत्र्तारमध्वर इत्यत्र निसो नकारलोपः तथेहापि वकारस्यापि लोपो द्रष्टव्यः॥
बाल-मनोरमा
युवोरनाकौ १२२९, ७।१।१

युवोरनाकौ। युश्च वुश्च युवुः। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। तदाह--यु वु एतयोरिति। "अनुनासिकयोरिष्यते" इति वार्तिकलब्धमेतत्। अनुनासिकयोः किम्?। ऊर्णायुः। ग्लुचुकायनीनामिति। "प्राचामवृद्धा"दिति ग्लुचुकशब्दादपत्ये फिन्, "इतो मनुष्यजातेः" इति ङीष्, समूहे वुञ्। अकादेशः। आदिवृद्धिः। "यस्येति चे"तीकारलोपः। औक्षकमिति। उक्ष्णां समूह इति विग्रहः। वुञ्। अकादेशः। टिलोपः। आदिवृद्धिः। उष्ट्राणां समूह इति विग्रहः। औष्ट्रकम्। उरभ्राः-मेषाः, तेषां समूहः, ओरभ्रकम्। राजकम्-राजन्यकम्। वात्सकम्। मानुष्यकम्। आजकम्। यलोपे प्राप्ते इति। राजन्यशब्दाद्वुञि अकादेशे "आपत्यस्य च" इति यकारस्य लोपे प्राप्ते सतीत्यर्थः।

प्रकृत्याऽके इति। अके परे राजन्य, मनुष्य, युवन्-#एते प्रकृत्या स्युरिति वक्तव्यमित्यर्थः। यूनो भावो यौवनकम्। मनोज्ञादित्वाद्वुञ्। प्रकृतिभावान्न टिलोपः।

वृद्धाच्चेति। वृद्धशब्दस्वरूपमेव गृह्रते, नतु "वृद्धिर्यस्याचामादि"रिति वृद्धसंज्ञकम्, भाष्ये वृद्धशब्दस्यैवोदाहरणात्। तदाह--वाद्र्धकमिति। वृद्धानां समूह इति विग्रहः।

तत्त्व-बोधिनी
युवोरनाकौ १००४, ७।१।१

युवोः। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। उकारस्तूच्चारणार्थो नेत्संज्ञकः। तेन नन्दनः, कारकः , नन्दना, कारिकेत्यत्रोगिल्लक्षणौ नुम्()ङीपौ न स्तः। अनुनासिकयोरिति किम्()। ऊर्णायुः।

प्रकृत्याऽके राजन्यमनुष्ययुवानः। प्रकृत्याऽकेइति। इह राजन्यमनुष्यग्रहणं व्यर्थं, रूढिशब्दत्वेन "अपत्यस्य चे"ति यलोपस्य प्राप्त्यभावात्। अतएव "गोत्रोक्षोष्ट्र"इत्यत्र तयोग्र्रहणं सार्थकम्। अन्यथा गोत्रग्रहणेनैव सिद्धे तयोग्र्रहणं न कुर्यादित्याहुः। यूनो भावो योवनिका। मनोज्ञादित्वाठ्ठञ्।

वृद्धाच्चेति वक्तव्यम्। वार्धकमिति। यदि वृद्धत्वेऽपि वार्धकमिति प्रयोगोऽस्ति, तर्हि मनोज्ञादित्वं यौवनिका। मनोज्ञादित्वाठ्ठञ्।