पूर्वम्: ७।१।९
अनन्तरम्: ७।१।११
 
सूत्रम्
बहुलं छन्दसि॥ ७।१।१०
काशिका-वृत्तिः
बहुलं छन्दसि ७।१।१०

छन्दसि विषये बहुलमैसादेशो भवति। अतः इत्युक्तम्, अनतो ऽपि भवति नद्यैः इति। अतो न भवति , देवेभिः सर्वेभिः प्रोक्तम् इति।
न्यासः
बहुलं छन्दसि। , ७।१।१०

बहुलग्रहणं विस्पष्टार्थम्()। शक्यते हि मण्डूकप्लुतिन्यायेन बहुलग्रहणमनुवत्र्तयितुम्()॥