पूर्वम्: ७।१।९९
अनन्तरम्: ७।१।१०१
 
सूत्रम्
ॠत इद्धातोः॥ ७।१।१००
काशिका-वृत्तिः
ऋ̄त इद्धतोः ७।१।१००

ऋ̄कारान्तस्य धातोः अङ्गस्य इकारादेशो भवति। किरति। गिरति। आस्तीर्णम्। विशीर्णम्। धातोः इति किम्? पितृ̄णाम्। मातृ̄णाम्। लाक्षणिकस्य अप्यत्र ग्रहणम् इष्यते। चिकीर्षति इत्यत्र अपि यथा स्यातिति धातुग्रहणं क्रियते।
लघु-सिद्धान्त-कौमुदी
ॠत इद्धातोः ६६३, ७।१।१००

ॠदन्तस्य धातोरङ्गस्य इत्स्यात्। किरति। चकार। चकरतुः। चकरुः। करीता, करिता। कीर्यात्॥
न्यासः
ऋत इद्धातोः। , ७।१।१००

"किरिति, गिरति" इति। "कृ? विक्षेपे" (धा।पा।१४०९), "गु निगरणे" (धा।पा।१४१०)। "तुदादिभ्यः शः" ३।१।७७। "आस्तीर्णम्()" इति। "स्तृ? आच्छादने" (धा।पा।१४८४),[स्तृ()ञ्()--धा।पा।] "रदाभ्याम्()" ८।२।४२ इति नत्वम्(), "रषाभ्याम्()" ८।४।१ इति णत्वम्(), "हलि च" ८।२।७७ इति दीर्घः। "विशीर्णम्()" इति। "शृ? हिंसायाम्()" (धा।पा।१४८८)। "मातृ()णाम्(), पितृ()णाम्()" इति। "नामि" ६।४।३ इति दीर्घः। सत्यपि ऋकारान्तत्वेऽधातुत्वादिह न भवति। ननु च लक्षणप्रतिपदोक्तपरिभाषयै (व्या।प।३) वत्र न भविष्यति, तत्किमेतन्निवृत्त्यर्थेन धातुग्रहणेन? इत्याह--"लाक्षणिकस्यापि" इत्यादि। किमर्थं पनर्लाक्षणिकस्य ग्रहणम्()? इत्याह--"चिक्रीर्वति" इत्यादि। कथं पुनरिष्यमाणमपि लाक्षणिकस्यात्र ग्रहणं लभ्यते? अत एव धातुग्रहणाज्ज्ञापकात्()। तस्य ह्रेतत्? प्रयोजनम्()--मातृ()णाम्(), पितृणामित्यत्र मा भूदिति। यदीह लाक्षणिकस्य ग्रहणं न स्यात्? तदा मातृ()णाम्(), पितृ()णामित्यादौ लाक्षणिकत्वादेव न भविष्यतीति धातुग्रहणमनर्थकम्()। तस्माल्लाक्षिकस्याप्यत्र ग्रहणम्()। तेन चिकीर्षतीत्येव मादिषु "अज्झनगमां सनि" ६।४।१६ इति दीर्घत्वे सत्यपि भवत्येव। तपरकरणमसन्देहार्थम्()। "र" इत्युच्यमाने सन्देहः स्यात्()--किमयं रेफस्य निर्देशः? उत्त यणादेश ॠकारस्येति?
बाल-मनोरमा
ऋत इद्धातोः २२७, ७।१।१००

ऋत इद्धातोः। "ॠत" इतिधातोर्विशेषणम्। तदन्तविधिः। अङ्गस्येत्यधिकृतम्। तदाह--ॠदन्तस्येति। धातोः किम्?। मातृ()णाम्। तथा च तरति, पिपर्ति, ततार पपारेत्यादौ ॠकारस्य शपि तिपि णलि च परे गुणवृद्धी बाधित्वा अन्तरङ्गत्वादित्त्वमुत्त्वं च स्यादिति शङ्का प्राप्ता। तां परिहर्तुमाह--- इत्त्वोत्त्वाभ्यामिति। ल्यब्लोपे पञ्चमीद्विवचनम्। "ॠत इद्धातो"रिति इत्त्वम्, "उदोष्ठ()पूर्वस्य" इति उत्त्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात्स्यातामिति भावः। तरतीति। णलि ततार। अतुसादौ ददवादिगुणाना"मिति निषेधमाशङ्क्याह-- तृ()फलेति। तेरतुः तेरुरिति। तेरिथ तेरथुः तेर। ततार--ततर तेरिव तेरिम।

तत्त्व-बोधिनी
ऋत इद्धातोः १९९, ७।१।१००

ऋत इद्धातोः। किरति। गिरति। कीर्णः। गीर्णः। स्तीर्णः। धातोः किम्?। मातृ()णाम्।

इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन। इत्त्वोत्त्वाभ्यामिति। "परत्वाद्गुणवृद्धी भवत" इति वक्तव्ये। किमिदं वार्तिकमिति चेत्। अत्राहुः--- परादप्यन्तरङ्गं प्रबलमितीत्त्वे प्राप्ते वार्तिकमिदमारब्धमिति।