पूर्वम्: ७।१।१३
अनन्तरम्: ७।१।१५
 
सूत्रम्
सर्वनाम्नः स्मै॥ ७।१।१४
काशिका-वृत्तिः
सर्वनाम्नः स्मै ७।१।१४

अकारान्तात् सर्वनाम्नः उत्तरस्य ङेः स्मै इत्ययम् आदेशो भवति। सर्वस्मै। विश्वस्मै। यस्मै। तस्मै। कस्मै। अतः इत्येव, भवते। अथो ऽत्र अस्मै इत्यन्वादेशे ऽशादेशे एकादेशः प्राप्नोति? तत्र अन्तरङ्गत्वादेकादेशात् पूर्वं स्मैभावः क्रियते पश्चादेकादेशः इति।
लघु-सिद्धान्त-कौमुदी
सर्वनाम्नः स्मै १५३, ७।१।१४

अतः सर्वनाम्नो डेः स्मै। सर्वस्मै॥
न्यासः
सर्वनाम्नः स्मै। , ७।१।१४

"भवते" इति। त्यदाद्यत्वं न भवति। "द्विपर्यन्तास्त्यदादयः" (वा।७।२।१०२) इति भवच्छब्दस्य त्यदादित्वाभावादकारान्तता न भवति। "अथो अत्र" इत्यादि चोद्यम्()। अत्र इदम्? ए इति स्थिते "इदमोऽन्वादेशे" २।४।३२ इत्यशादेशे कृते परमपि स्मैभावं बाधित्वा नित्यत्वादेकादेशोऽकः सवर्णे दीर्घत्वं ६।१।९७ प्राप्नोति। नित्यत्वं पुनरस्य कृताकृतप्रसङ्गित्वात्()। एकादेशे च कृतेऽनकारान्तत्वात्? स्मैबावो न प्राप्नोति। "तत्र" इत्यादि परीहारः। तत्रैकादेशे प्राप्तेऽन्तरङ्गत्वात्? पूर्वं स्मैभावो विधीयते, पश्चादेकादेशः। अन्तरङ्गत्वं तु स्मैभावस्यैकपदाश्रयत्वात्()। एकादेशस्य द्विपदाश्रयत्वात्? बहिरङ्गत्वम्()॥
बाल-मनोरमा
सर्वनाम्नः स्मै २१३, ७।१।१४

सर्वशब्दाच्चतुर्थ्येकवचने "ङेर्यः" इति प्राप्ते--सर्वनाम्नः स्मै। "अतो भिस" इत्यस्मादत इत्यनुवरत्ते। "ङेर्य" इत्यतो "ङे"रिति च। तदाह--अतः सर्वेत्यादिना।