पूर्वम्: ७।१।१७
अनन्तरम्: ७।१।१९
 
सूत्रम्
औङ आपः॥ ७।१।१८
काशिका-वृत्तिः
औङ आपः ७।१।१८

आबन्तादङ्गादुत्तरस्य औङः शी इत्ययम् आदेशो भवति। खट्वे तिष्ठतः। खट्वे पश्य। बहुराजे। करीषगन्ध्ये। ङकारः सामान्यग्रहणार्थः, औटो ऽपि ग्रहणं यथा स्यात्। औकारो ऽयं शीविधौ ङिद्गृहीतो ङिच्चास्माकं न अस्ति को ऽयं प्रकारः। सामान्यार्थस् तस्य च असञ्जने ऽस्मिन् ङित्कार्यं ते श्यां प्रसक्तम् स दोषः। ङित्त्वे विद्याद् वर्णनिर्देशमात्रं वर्णे यत् स्यात् तच् च विद्यात् तदादौ। वर्णश्चायम् तेन ङित्त्वे ऽप्यदोषो निर्देशो ऽयं पूर्वसूत्रेण वा स्यात्।
लघु-सिद्धान्त-कौमुदी
औङ आपः २१७, ७।१।१८

आबन्तादङ्गात्परस्ययौङः शी स्यात्। औङित्यौकारविभक्तेः संज्ञा। रमे। रमाः॥
न्यासः
औङ आपः। , ७।१।१८

"वृद्धिरेचि" ६।१।८५ इति वृद्धौ प्राप्तायामयमारम्()भः। "औङः" इति प्रथमाद्वितीयाद्विवचनयोः सामान्येन ग्रहणम्()। "आपः" इति टाड्डाप्चापाम्()। "खट्वे" इति। "अजाद्यतष्टाप्()" ४।१।४ तिष्ठतः, पश्येति यथाक्रममनुप्रयोगयोरुपन्यासः प्रथमान्ततां द्वितीयान्तताञ्च प्रतिपादयितुम्()च अन्यथा खट्वे इत्युभयत्र रूपस्य तुल्यत्वात्? प्रथमान्ततादौ विशेषे सन्देहः स्यात्()। "बहुराजे" इति। करीषस्येव गन्धोऽस्येति बहुव्रीहिः, "उपमानाच्च" ५।४।१३७ इतीच्()। करीषगन्धेरपत्यमित्यण्(), तस्य "अणिञोः" ४।१।७८ इत्यादिना ष्यङादेशः। "यङश्चाप्()" ४।१।७४ इति चाप्()। "औकारोऽयम्()" इत्यादि। शीविधौ=शीविधाने। औकारोऽयं स्थानी ङिद्गृहीतो ङकारानुवन्ध उपात्त इत्यर्थः। ङकार इद्यस्य स ङित्()। ङिच्चास्माकं वैयाकरणानां मतेन शास्त्र औकारो नास्ति। ततः कोऽयं प्रकारः, किंशब्द कुत्सायां वत्र्तते। कुत्सितोऽयं सूत्रप्रणयनप्रकार इत्यर्थः। कुत्सितत्वं त्वसत एवोपादनात्()। ङकारासञ्जनप्रयोजनप्रदर्शनद्वारेण कुत्सितत्वं सूत्रप्रणयनस्य निरकर्त्तुमाह--"सामान्यार्थः" इति। यदि ह्रौकारोऽनुबन्धरहितः स्थानित्वेनोपादीयेत, ततः "निरनुबन्धकग्रहणे न सानुबन्धकस्य" (व्या।प।५३) इति द्वितीयाद्विवचनं न गृह्रेत। अथ त्सय टकारोऽनुबन्ध उपादीयेत, एवमपि प्रथमाद्विवचनं न गृह्रेत। तस्मात्? सामान्येन द्वयोरपि ग्रहणं यथा स्यादित्येवमर्थं ङकार आसज्यते। ननु च द्वितीयाद्विवचने यष्टकारो नासौतस्यानुबन्धः, कस्य तर्हि? समुदायस्य। प्रत्याहरार्था हि येऽनुबन्धास्ते समुदायानुबन्धा एव विज्ञायन्ते, यथा--महिङो ङकारः, सुपश्च पकारः। तस्मान्निरनुबन्धकग्रहणे द्वयोरप्नुबन्धकत्वात्? सामान्येन ग्रहणं भविष्यति, तत्? कि ङकारेण? नैतदस्ति; समुदायानुबन्धकत्वेषऽवयवानुबन्धकत्वमपि ह्रेषां प्रतिज्ञायते। न हि समुदायानुबन्धकत्वे प्रत्ययानुबन्धकत्वं विरुध्यते। हत्संज्ञको ह्रनुबन्ध उच्यते, हलश्चान्त्यस्येत्संज्ञा निधीयते। औटश्च टकारो यथा समुदायं प्रतयन्तस्तथा प्रत्ययं प्रत्यपि। तस्मात्? तस्य "हलन्त्यम्()" १।३।३ इतीत्संज्ञायां विहितायां यथासौ समुदायं प्रत्यनुबन्धस्तथा प्रत्ययमपि। प्रयोजनाभावात्? प्रत्ययानुबन्धकत्वमनुपपन्नमिति चेत्()? न; इहास्ति प्रयोजनम्()--द्वितीयाद्विवचनस्य सानुबन्धकत्वं यथा स्यात्()। यदि तर्हि प्रत्ययानुबन्धस्तदा सत्यपि ङकारासञ्जने "तदनुबन्धकग्रहणे नातदनुबन्धकस्य" (व्या।प।५४) इति "एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य" (व्या।प।५२) इति च प्रथमाद्विवचनस्यैव ग्रहणं स्यात्(), तस्य हि ङकार एवैकोऽनुबन्धः; द्वितीयाद्विवचनसय तु स चान्योऽपि टकारः? नैष दोषः, ङकारोच्चारणसामथ्र्याद्()द्वितीयाद्विवचनमपि ग्रहीष्यते। अन्तरेणैव ङकारं प्रथमाद्विवचनस्यैव ग्रहणे सिद्धे ङकार उपदिश्यते सामान्यार्थः। यदि च सत्यपि ङकारे प्रथमाद्विवचनमेव गृह्रते ङकारोऽनर्थकः स्यात्()। कथं पुनरस्य ङ्कारस्येत्संज्ञा, यावतोपदेशे योऽन्त्यो हल्? तस्येत्संज्ञा विहिता, न चायमुपदेशेऽन्त्यः? भवतु वा तस्येत्संज्ञा, टकारस्य औटस्तर्हि न स्यात्(); कथं ह्रेकस्मिन्नुपदेशे द्वावन्त्यौ स्याताम्()? नैष दोषः, औङिति वचनात्()। द्वयोरप्यौकारयोरौङित्ययमादेशो विज्ञायते, तस्य चोपदेशोऽस्ति यथा "चक्षिङः ख्याञ्()" २।४।५४ इति ञकार उपदेशेऽन्त्य इति, यथा तस्येत्संज्ञा तथा ङकारस्यापि। टकारस्य तु पूर्वमेव क्रमेणेत्संज्ञा लोपश्च क्रियत इति नास्ति द#ओषः। यश्चासावादेश औकारः स एव शोभाषस्य स्थानित्वेननोपात्त इति वेदितव्यम्()। "तस्य च" इत्यादिना--ङकारासञ्जने यो दोषः प्राप्नोति तं दर्शयति। अनुबन्धभूतसय ङकारस्योपादानमासञ्जनम्()। ङिति यत्? कार्यं तत्? "ङित्कार्यम्()"--"सप्तमी" २।१।३९ इति योगविभागात्समासः। तत्पनः कार्यं "याडापः" ७।३।११३ इति आट्()। यदि सामान्यार्थोऽयं ङकार आसज्यते, एवं सति ङकारस्यासञ्जने ङिति यत्कार्यं तत्? ते=तव सूत्रकारस्य मतेन "श्यां प्रसक्तं" प्राप्तम्(), "स दोषः"। "याडापः" ७।३।११३ इति याडागमे सति खट्वे--इति रूपं न सिध्येत्()। अत श्यामिति कथमामाटौ स्याताम्()? कथञ्च न स्याताम्()? अनदीत्वात्(); अनदीत्वं च तस्यास्त्र्याख्यत्वात्()? नैतदस्ति; यथैव हि खट्वादयः स्त्रियां वत्र्तन्ते तथा शीशब्दोऽपि। तथा चाह लिङ्गकारिकाकारः--"ईदूदन्तं यच्चैकाच्? शरद्दरद्दृषत्प्रावृषश्च" इति। तस्मात्? स्त्र्याख्यत्यादयमपि नदीसंज्ञक एव; श्रुतितामानाधिकरण्यात्()। श्रुतौ वत्र्तमानः शीशब्दो नदोसंज्ञां प्रतिपद्यते। श्रुतिः स्वरूपमेव। "ङित्त्वे" इत्यादि। "याडापः" ७।३।११३ इत्यत्र "धेर्ङिति" ७।३।१११ इत्यतो ङिद्ग्रहणमनुवत्र्तते। तत्र ङिदिति नायं बहुव्रीहिः--ङकार इद्? यस्य स ङिदिति, किं तर्हि? तत्पुरुषः--ङकार एव इद्? ङित्()। तस्मादौकारो यो ङित्? तस्मिन्नभ्युपेते सति ङितीत्यस्मिन्निर्देशे ङकारस्येत्संज्ञकस्य वर्णमात्रसक्य निर्देशं विद्यादवगच्छेत्? प्राज्ञः। मात्रशब्दस्ततोऽन्यव्यवच्छेदाय। यदि ङितीत्यत्र ङकारस्य वर्णमात्रस्य निर्द्देशो न ङकारानुबन्धस्य प्रत्ययस्य तत्? किमिति श्यां ङित्कार्यं न भवति? इत्याह--"वर्णे" इत्यादि। वर्णे परभूते यत्? कार्यं विधीयते तत्? "यस्मिन्? विधिस्तदादावल्ग्रहणे" (व्या।प।१२७) इति परिभाषया तदादौ वर्णादौ विद्यात्()। ततश्च यत्र ङकार आदावित्संज्ञकस्तत्रैव भवितव्यं याटा, न श्याम्()। न ह्रत्रादौ ङकारः, क्व तर्हि? अन्ते। एवमयं ङित्त्वमभ्युपेत्य परीहार उक्तः। इदानीं ङित्त्वमनभ्युपेत्य परोहारान्तरमाह--"वर्णश्चायम्()" इत्यादि। वार्थे चशब्दः। वर्णो वायमिति यावत्()। औङित्यौवर्णौऽयमुपत्तः प्रत्यविशेषणार्थः, न तु प्रत्ययः। अह्गाधिकारादादन्तात्? परो यः सामथ्र्यप्राप्तः प्रतययः स औकारेण विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीति। तेनायमर्थो जायते--औकारान्तेऽस्य प्रत्ययस्येति। औकारान्तत्वं व्यपदेशिवद्भावात्()। ङकारश्चायं नानुबन्धः, मुखसुखार्थस्त्वयम्(), यथा--"ऋदोरप्()" ३।३।५७ इत्यत्र दकारः। वर्णरूपतया च तथौकारस्य ग्रहणे सति द्वयोरप्यौकारयोः शीभावः सिद्धौ भवति। प्रत्ययग्रहणे हि निरनुबन्धक (व्या।प।५३) परिभाषोपतिष्ठते, न चेह प्रत्ययग्रहणम्()। किं तर्हि? वर्णमात्रस्य। ननु च द्वावप्येतौ प्रत्ययौ, तत्किमिति नोपतिष्टते? सत्यम्(); यद्यपि तौ प्रत्यौ, तथधापि नात्र शास्त्रे प्रत्यरूपेणौकार उपात्तः? किं तर्हि? वर्णरूपेणेति, अतस्तस्या नेहोपस्थानम्()। ङित्त्वमनभ्युपेत्य परीहारान्तरमाह--"निर्द्देशोऽयम्()" इत्यादि। नेह व्याकरण औकारसय ङकारोऽनुवग्ध उपादीयते। पूर्वाचार्याणां तु सूत्रे द्वे अप्येते द्विवचने ङिती पठ()एते। तथा हि "आबौटावौङ्()" इति तत्र सूत्रपाठः। अतस्तत्सत्रानुरोधेनायं निर्द्देशः, तस्येह ग्रहणं यथा स्यात्()। तस्मान्ङित्त्वाभावान्नास्ति ङित्कार्यस्य प्रसङ्गः। न हि पूर्वाचार्यसूत्रानुरोधेनेहानुबन्धकार्याणि क्रियन्ते। "तेन ङित्त्वेऽप्यदोषः" इति। किं पुनर्यत्र नास्त्येव ङित्त्वमित्यपि शब्दस्यार्थः। तदेतदुक्तं भवति--ङित्त्वेऽब्युपेते सति ङित्त्वे विद्याद्वर्णनिर्देशमात्रम्()। "वर्णे यत्स्यात्? तच्च विद्यात्तदादौ" इत्येवं ङित्कारयप्रसङ्गनिरासाय यस्मातद्? परीहार उक्तः। यस्माद्वर्णश्चायमित्यनेन, "निर्देशोऽयं पूर्वसूत्रेण वा स्यात्()" इत्यनेन चौकारयोङित्त्वभावः प्रतिपादितः। तेन हेतुना सत्यपि ङित्त्वेऽप्यदोषः। किं पुनर्नास्त्येव यत्र ङित्त्वमिति॥
बाल-मनोरमा
औङ आपः २८५, ७।१।१८

अथ रमा औ इति स्थिते--ओङ आपः। "आप इति पञ्चमी। प्रत्ययग्रहणपरिभाषया आबन्तं विवक्षितम्। "अङ्गस्ये"त्यदिकृतं पञ्चम्या विपरिणम्यते। "औङः" इति षष्ठी। "जसः शी"त्यतः "शीत्यनुवर्तते। तदाह--आबन्तादिति। औङ्शब्दस्याऽप्रसिद्धार्थत्वादाह--औङितीति। संज्ञेति। "प्राचां शास्त्रे स्थिते"ति शेषः। रमे इति। "रमा औ" इति स्थिते शीभावे तस्य स्थानिवत्त्वेन प्रत्ययत्वा"ल्लशक्वतद्धिते" इति शस्येत्संज्ञायां लोपे "आद्गुणः" इति एकारः। "यस्येति चे"ति लोपस्तु न, अभत्वात्। जसि (अकः सवर्णे) इति सवर्णदीर्घं मत्वाह--रमा इति। पूर्वसवर्णदीर्घस्तु न, न भवति, "दीर्घाज्जसि चे"ति निषेधात्। हे रमा स् इति स्थिते।

तत्त्व-बोधिनी
औङ् आपः २४७, ७।१।१८

अथाऽडजन्ताःस स्त्रीलिङ्गाः। रमेति। रमते इति रमा। "रमु क्रीदायाम्ित्यस्मात्पचाद्यति टाप्। लिङ्गविशिष्टपरभाषया सावदयः। हल्ङ्()यादिलोपःष न चात्राबन्तत्वादेव स्वाद्युत्पत्तिरेस्तु, प्रत्ययान्तस्याऽप्रातिपदिकत्वेऽपि ङ्योपोः पृथग्ग्रहणादिति वाच्यं, ङ्याब्ग्रहणस्यान्यार्थतायाः प्रागेवोक्तत्वात्प्रत्याख्यातत्वाच्च तद्भहणस्यष शी स्यादिति। "जसः शी"त्यतः "शी"त्यनुवर्तत इति भावः।