पूर्वम्: ७।१।१
अनन्तरम्: ७।१।३
 
प्रथमावृत्तिः

सूत्रम्॥ आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्॥ ७।१।२

पदच्छेदः॥ आयनेयीनीयियः १।३ फढखच्छघां ६।३ प्रत्ययादीनाम् ६।३ अङ्गस्य ?

समासः॥

आयन् च एय् च ईन् च ईय् च इय् च आयनेयीनीयियः, इतरेतरद्वन्द्वः।
फश्च ढश्च खश्च छश्च घ्ह च फढखछघ्हः तेषां ॰ इतरेतरद्वन्द्वः।
प्रत्ययस्य आदयः, प्रत्ययादयः, तेषाम् ॰ षष्ठीतत्पुरुषः।

अर्थः॥

प्रत्ययादीनां फ्, ढ्, ख्, छ्, घ्, इत्येतेषां स्थाने यथासङ्ख्यम् आयन्, एय्, ईन्, ईय्, इय् इत्येते आदेशाः भवन्ति। फादिवर्णेषु उच्चारणार्थः अकारः अन्त्यवर्जम्।

उदाहरणम्॥

फ इत्येतस्य आयन् आदेशः भवति। {नडादिभ्यः फक्} नाडायनः, चारायणः। ढस्य एय् आदेशः भवति। {स्त्रीभ्यो ढक्} - सौपर्णेयः, वैनतेयः। खस्य ईन् आदेशः भवति। {कुलात्खः} - आढ्यकुलीनः, श्रोत्रियकुलीनः। छस्य ईय् आदेशः भवति। {वृद्धाच्छः} - गार्गीयः, वात्सीयः। घ इत्येतस्य इय् आदेशः भवति। {क्षत्राद् घः} - क्षत्रियः।
काशिका-वृत्तिः
आयनेयीनीयियः फढखछघां प्रत्ययाऽदीनाम् ७।१।२

आयनेयीनीयियित्येते आदेशाः भवन्ति यथासङ्ख्यं फ ढ ख छ घ इत्येतेषा प्रत्ययादीनाम्। फ इत्येतस्य आयनादेशो भवति। नडाऽदिभ्यः फक् ४।१।९९ नाडायनः। चारायणः। ढस्य एयादेशो भवति। स्त्रीभ्यो ढक् ४।१।१३० सौपर्णेयः। वैनतेयः। खस्य ईनादेशो भवति कुलात् खः ४।१।१३९ आढ्यकुलीनः। श्रोत्रियकुलीनः। छस्य ईयादेशो भवति। वृद्धाच् छः ४।२।११३ गार्गीयः। वात्सीयः। घ इत्येतस्य इयादेशो भवति। क्षत्राद् धः ४।१।१३८ क्षत्रियः। प्रत्ययग्रहणं किम्? फक्कति। ढौकते। खनति। छिनत्ति। घूर्णते। आदिग्रहणम् किम्? ऊरुदघ्नम्। जानुदघ्नम्। एते आयन्नादयः प्रत्ययोपदेशकाल एव भवन्ति। कृतेष्वेतेषु प्रत्ययाद्युदात्तत्वं भवति, तथा च घच्छौ च ४।४।११६ इति घचश्चित्करनमर्थवद् भवति। शङ्खः, षण्ढः इत्येवम् आदीनां हि उणादयो बहुलम् इति बहुलवचनादादेशा न भवन्ति। ऋतेरीयङ् ३।१।२९ इति वावचनं ज्ञापकं धातुप्रत्ययानामादेशाभावस्य। एजेः खश् ३।२।२८, पदरुजविशस्पृशो घञ् ३।३।१६ इत्येवम् आदिषु तु इत्संज्ञया भवितव्यम्। तद्धितेषु हि खकारघकारयोरादेशवचनम् अवकाशवदिति इत्संज्ञां बाधितुं न उत्सहते। आयन्नीनोः नकारस्य इत्संज्ञायां प्राप्तायां प्रतिविधातव्यम्, नित्कार्यं हि सम्भवति।
लघु-सिद्धान्त-कौमुदी
आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् १०१६, ७।१।२

प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः। गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥
न्यासः
आयन्नेयीनीयियः [॒आयनेयीनीयियः॑--इति काशिका पाठः] फढरवच्छघां प्रत्ययादीनाम्?। , ७।१।२

फादयोऽपीह शास्त्रे लाघवार्थमुपदिष्टाः, ततस्तेषामायन्नादय आदेश विधीयन्ते। तेन च विधीयमानाः फकारादेर्हल्मात्रस्य भवन्तीति वेदितव्यम्()। कुत एतत्()? अन्ते घामित्यनच्कनिर्द्देशात्(); इतरथा हि घानामित्येवं ब्राऊयात्()। अन्यत्र त्वागन्तुकोऽकार उच्चारणार्थ एव। अत एव प्रत्ययादौ वत्र्तमानस्य फादेव्र्यञ्जनमात्रस्य स्थानित्वेनोपादानान्निरनुबन्धकपरिभाषात्र (व्या।प।५३) नोपतिष्ठते; सर्वत्र हि फादयो निरनुबन्धकाः। यत्र चोभयं सम्भवति तत्रैवास्या उपस्थानम्(), "नाडायनः" इति। "नडादिभ्यः फक्()" ४।१।९९ अपत्यार्थे फक्प्रत्ययः। उत्तरेष्वप्युदाहरणेष्वीयादेशोदाहरणादन्यत्रापत्यार्थे वेदितव्यः। "सौपर्येणः, वैनतेयः" इति। सुपर्णाविनताभ्यां ढक्()। "आठ()कुलीनः" इति। "अपूर्वपदादन्यतरस्यां यङ्ढकञौ" (४।१।१४०) इत्यत्रापूर्वपदादिति वचनात्? "कुलात्खः" ४।१।१३९ इत्यनेन सपूर्वपदादपि खो भवति। "गार्गीयः, वात्सीयः" इति। गाम्र्यवात्स्यशब्दाभ्यां यञन्ताभ्यां "तस्येदम्()" इत्यर्थविवक्षायां छः, "यस्येति च" ६।४।१४८ इत्यकारालोपः, "आपत्यस्य च तद्धितेऽनाति" ६।४।१५१ इति यकारलाह्_> "फक्कति, ढौकते" इति। "फक्क नीचैर्गतौ" (धा।पा।११६), "ढोकृ गतौ" (धा।पा।९८), "खनु अवदारणे" (धा।पा।८७८), "छिदिर्? द्वैधीकरणे" (धा।पा।१४४०), "घूण घूर्ण भ्रमणे"["घुण"--धा।पा।] (धा।पा।४३७,४३८)-इत्येतेषां रूपाणि। ढौकतिधूर्णत्योरनुदात्तेत्त्वादात्मनेपदम्()। "ऊरुदध्नम्(), जानुदध्नम्()" इति। ऊरू प्रमाणमस्य "प्रमाणे द्वयसच्()" ५।२।३७ इत्यादिना दध्नच्()। इहैत आयन्नादयोऽह्गाधिकारे विधीयमानाः प्रकृतिप्रत्ययावपेक्ष्य भवतीति बहिरङ्गाः, प्रत्ययाद्युदात्तत्वं तु प्रकृत्यनपेक्षत्वात्? प्रत्ययमात्रमाश्रित्य भवतीत्यन्तरङ्गम्(); ततो बहिरङ्गा यावदायन्नादयो न भवन्ति तावदेव प्रत्ययाद्युदात्तत्वेन भवितव्यम्(), तस्मिन्? कृते सत्यादेशा भवन्तो यत्र स्वरार्थोऽनुबन्धो न विधीयते "शिलाया ढः" ५।३।१०२, "वृद्धाच्छः" ४।२।११३ इत्यादौ तत्रानियतस्वराः प्राप्नुदन्तीत्यस्य चोद्यस्य निरासायाह--"इहैत आयन्नादयः" इत्यादि। अयमभिप्रायः-आयन्नादयोऽप्यन्तरङ्गा एव। यदि हि "अङ्गस्य" (६।१।४) इत्यत्राभिसम्बध्यते तदा स्यात्? तेषां प्रकृतिप्रत्ययापेक्षया बहिरङ्गत्वम्()। न चात्र तदभिसम्बध्यते; प्रयोजना भावात्()। तथा हि--अङ्गस्य निमित्तं ये प्रत्ययास्तदादीनां फादीनामायन्नादयो यथा स्युः, अन्येषां मा भूवन्नित्येतत्? प्रयोजनम्()। एतच्च विनाप्यङ्गाधिकारं सामथ्र्यादेव लभ्यते। न हि फादीनां मद्ये सोऽस्ति प्रत्ययो योऽङ्गस्य निमित्त न भवति। तस्मात्? प्रयोजनाभावादङ्गस्येत्येतन्नाभिसम्बध्यते। तेन स्थानिमात्रमेवादेशा अपेक्षन्ते, न प्रकृतिमिति तेऽप्यन्तरङ्गा एव। ततश्च परत्वात्? प्रत्ययोपदेशकाले तैरेव तावद्भवितव्यम्(), ततश्च प्रत्ययाद्युदात्तत्वेनेति प्रत्ययोपदेशकाल एवायन्नदयो भवन्तीति तेषु कृतेषु प्रत्ययाद्युदात्तत्वं भवतीति। अत्र ज्ञापकमप्याह--"तथा च" इत्यादि। एवञ्चेत्यर्थः। घचश्चित्कारणस्यैतत्? प्रयोजनम्()--"चितः" ६।१।१५७ इत्यन्तोदात्तत्वं यथा स्यात्()। यदि च प्रत्ययोपदेशावस्थायामेवायन्नादयो भवन्ति, एवं सति घचश्चित्करणमर्थवद्भवति; नान्यथा। अन्यथा हि यद्युपदेशादस्थाया उत्तरकालमेते स्युस्ततो यत्रैवासति चित्करण उदात्तत्वं भवति, धकाराकारे सत्यपि चित्करणे तत्रैव तेन भवितव्यमिति चित्करणमनर्थकं स्यात्()। तस्माच्चित्करणादवसीयते--प्रत्ययोपदेशकाल एवैत आयन्नाद्यादेशास्तावद्भवन्ति, पश्चात्? प्रत्ययाद्युदात्तत्वमिति भावः। ननु च व्यञ्जनस्यैते विधीयन्ते, तच्च व्यञ्जनमस्वरम्(), एवाञ्चावश्यं येन केनचित्? स्वरेण भवितव्यम्(), उदात्तादिगुणरहितस्याचोऽसम्भवात्()। तत्र स्थानिनः स्वराभावादान्तरतम्यं नास्तीति स्थानेन्तरतमपरिभाषया १।१।४९ अनुपस्थाने सत्यनियतस्वरैरेभिर्भवितव्यम्(), ततश्च यदि चित्त्वं न स्यात्(), पश्चाद्विधीयमानानामेषां यदाद्युदात्तस्वरो भवति तदा स एव स्वरः प्रसज्येत; सतिशिष्टत्वात्()। तस्मात्? तमपि सतिशिष्टस्वरं बाधित्वाऽन्तोदात्तत्वं यथा स्यादित्येवमर्थं घचश्चित्करणम्()। ततः कुतो ज्ञापकत्वमेतच्चिन्त्यम्()। अथ "शमेः खः" (प्।उ।१।१०४) शङ्खः, "षणो ढः" (पं।उ।४।१०४) षण्ढः--इत्येवमादीनां कस्मादादेशा न भवन्ति? इत्याह--"शङ्खः, षण्ढः" इत्यादि। "लशक्वतद्धिते" १।३।८, "चूटू" १।३।७ इतीत्संज्ञापि बहुलवचनादेव न भवतीति वेदितव्यम्()। "ऋतेरीयङ" इत्यादि। यदयं "ऋतेरीयङ" ३।१।२९ इतीयङं शास्ति तज्ज्ञापयति--धातुप्रत्ययानामायन्नादयो न सन्तीति। यदि हि स्युः, "ऋतेश्छङ" इति। ब्राऊयात्()। ननु सिद्धे विधिरारभ्यमाणो ज्ञापकाय भवतीति? न च च्छङा सिध्यतीति, छङि हि सति वलादिलक्षण इट्? प्रसज्येत, ततश्चानादित्वादादेशो न स्यात्()? नैतदस्ति; यस्मादन्तरङ्गत्वादादेशेनैव भवितव्यम्()। अन्तरङ्गत्वन्तु तस्योपदेशावस्थायामेव विधीयमानत्वात्()। आदेशे च कृते वलादित्वाभावादिट्प्रसङ्गो नास्ति। तदेतदीयङ्वचनं ज्ञपकमेव। "एजेः खश्()" इत्यादि। तु शब्दः शङ्खः, षण्ढ इत्येदमादिभ्यो विशेषप्रदर्शनार्थः। यत्रेत्संज्ञा नास्ति--शङ्खादौ, तत्रादेशप्रसङ्गे सति तन्निरासार्थं बहुलवचनमिति, "ऋतेरीयङ्()" ३।१।२९ इति वावचनमुपन्यस्तम्()। "एजेः खश्()" ३।२।२८ इत्येवमादौ तु "लशक्वतद्धिते" १।३।८ इतीत्संज्ञया भवितव्यमित्यादेशप्रसङ्गो नास्त्येव। ततो न तत्र तदभावार्थं बहुलवचनम्(), "ऋतेरीयङ" इति वावचनमुपन्यसनीयमिति भावः। आदिशब्देन "प्रियवसे वदः खच्()" ३।२।३८, "पुंसि संज्ञायां घः प्रायेण" ३।३।११८ इत्येवमादीनां ग्रहणम्()। स्यादेतत्()--अनवकाशं खकारघकारयोरादेशवचनम्(), अतस्तेन बाध्यमानेत्संज्ञा कथमत्र स्यात्()? इत्याह--"तद्धिते" इत्यादि। "खित्यनव्ययस्य" ६।३।६५ इति ह्यस्वविधानम्(), "चजोः कु घिण्ण्यतोः" ७।३।५२ इति कुत्वविधानं ज्ञापकम्()--न ह्रादेशविधानेनेत्संज्ञायां बाधितायां तदुपपद्यते; खितो घितश्चात्यन्तासम्भवात्()। "आयन्नीनोर्नकारस्य" इत्यादि। आयन्नीनोर्नकारोऽन्ते वत्र्तत इति तस्य "हलन्त्यम्()" १।३।३ इतीत्संज्ञा प्राप्नोति, तस्याञ्च स्त्यां "तस्य लोपः" १।३।९ इति कृते नाडायनः, आढ()कुलीन इत्यादि न सिध्यति। तस्मादायरुआईनोर्नकारस्येत्संज्ञायां प्राप्तायां तत्प्रतिविधानं कत्र्तव्यम्()। स्यादेतत्()। प्रयोजनाभावादेवेत्संज्ञा न भविष्यति? इत्यत आह--"नित्कार्थं हि" इत्यादि। तत्पुनः "ञ्नित्यादिर्नित्यम्()" ६।१।१९१ इत्याद्युदात्तत्वम्()। प्रतविधानं पुनरत्र "प्राचामवृद्धात्? फिन्? बहुलम्()" ४।१।१६० इत्यत्र फिनो नकारानुबन्धकरणम्()। तस्यांतत्? प्रयोजनम्()--नित्त्वादाद्युदात्तत्वं यथा स्यात्()। तत्र यद्यायन्नीनोर्नकारस्येत्संज्ञा स्यात्(), नित्त्वे सत्याद्युदात्तत्वस्य सिद्धत्वात्? फिनो नित्करणमनवर्थकं स्यात्()। ननु "फेश्छ च" ४।१।१४९ इत्यततर सामान्यग्रहणार्थं स्यात्(), तस्मिन्नसति निरनु बन्धकपरिभाषयास्यैव ग्रहणं स्यात्(), न फिञः? नैतदस्ति; तत्र हि "वृद्धाट्ठक्? सौवीरेषु बहुलम्()" ४।१।१४८ इति बहुलग्रहणानुवृत्तेः फिञ एव ग्रहणमिष्यते, न फिनः। तदेतत्? फिनो नित्करणमित्संज्ञाभावस्य ज्ञापकमेव। योगपक्षं चेदं ज्ञापकम्()--अनेन योगेन विहितस्यादेशस्य यो नकारस्तस्मेत्संज्ञा न भवतीति। तेनेनोऽपि नकारस्येत्संज्ञाऽभावो न भवति सिद्धः॥
बाल-मनोरमा
आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ४६८, ७।१।२

आयनेयीनीयियः। आयन्, एय्, ईन्, ईय्, एषां द्वन्द्वात्प्रथमाबहुवचनम्। फ, ढ, ख, छ, घ्-एषां द्वन्द्वात्षष्ठीबहुवचनम्। फादिष्वकार उच्चारणार्थः। यथासङ्ख्यपरिभाषया क्रमेणान्वयः। तदाह--प्रत्ययादिभूतानामित्यादिना। आयनो नस्य इत्त्वेनित्वस्वरोपयोगेऽपि नेत्त्वं, फिनो नित्करणाज्ज्ञापकात्। तत्साहचर्यादीनोऽपि नस्य नेत्त्वम्। एयादिषु च यस्य नेत्त्वं, ङीषः प्राप्त्यभावात्कौरव्यशब्दाट्टाप्, माण्डूबात्तु ङीषिति भावः। यद्यपीह "टाम्ङीपो"रिति पाठः प्रायेण दृश्यते प्रयोजनाऽभावात्। ननु ष्फस्य तद्धितसंज्ञा किमर्थेत्यत आह--तद्धितान्तत्वादिति। ष्फान्तस्य प्रातिपदिकत्वे प्रयोजनमाह--वक्ष्यमाणो ङीषिति। "षिद्गौरादिभ्यश्चे"त्यत्र प्रातिपदिकादित्यनुवृत्तं, ततश्च ष्फान्तस्य प्रातिपदिकत्वाऽभावे ङीष् न स्यादिति भावः। ननु ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वादुक्तार्थानामप्रयोग इति न्यायादत्र कथं ङीषित्यत आह--षित्त्वसामथ्र्यादिति। ष्फेण द्योतितेऽपि स्त्रीत्वे षित्करणसामथ्र्यान्ङीषित्यर्थः। गाग्र्यायणीति। गर्गस्यापत्यं स्त्रीति विग्रहः। गर्गादियञन्ताद्गाग्र्यशब्दात्ष्फः, षकार इत्, फकारस्य आयन्नादेशः, "यस्येति चे"ति यकारादकारस्य लोपः, "हलस्तद्धितस्ये"ति तु न भवति, ईतीत्यनुवृत्तेः। "आपत्यस्य चे"त्यपि न, अनातीति निषेधात्। षित्त्वान्ङीष्। णत्वमिति भावः।

तत्त्व-बोधिनी
आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ४२२, ७।१।२

आयने। आयनीनोर्नकारस्य नेत्त्वम्, फिनो नित्करणसामथ्र्यात्। फकारदिष्बकार उच्चारणार्थः। तेन ढ्रक्फिञादीनामादेशः सिध्यति। आदिग्रहणं किम्()। ऊरुदन्घं मित्यादौ मा भूत्। प्रत्ययेति किम्()। धीतोरादीनां मा भूत्। फक्कति। ढौकते। छादयति। घूर्णते। घञादिषु तु "चजोः कुघिण्ण्यतो"रित्यादिनिदेर्शेनेत्संज्ञया भाव्यमित्यादेशाभावः। "शमेर्ढः--शण्ढ"इत्येवमादिनामेते आदेशा न भवन्ति, "उणादयो बहुल"मिति बहुलवचनादिति दिक्। क्रमादिति। फ[स्य]--आयन्। ढ[स्य]--एय्। ख[स्य]--ईन्। छ[स्य]--ईय्। घ[स्य]--इय्--इत्यर्थः। स्त्रियामेव ष्फप्रत्ययविधानादत्र ङीष्न स्यादित्याशङ्क्याह--षित्त्वसामथ्र्यादितिष। एकमेव स्त्रीत्वमुभाभ्यामुच्यत इति भावः। सर्वत्रग्रहणमुत्तरसूत्रादिहापकृष्यते बाधकबाधनार्थम्। तेन "आवट()आच्चे"ति वक्ष्यमाणं परमपि चापं बाधित्वा प्राचां मते आवट()शब्दादपि ष्फ एव भवति। चाब्विधेस्तूदीचां मते सावकाशत्वात्। आवट()आयनी। एवं षाद्यञश्चाब्विषयेऽपि प्राचां ष्फ एव, शार्कराक्ष्यायणीति यथा।