पूर्वम्: ७।१।२१
अनन्तरम्: ७।१।२३
 
सूत्रम्
षड्भ्यो लुक्॥ ७।१।२२
काशिका-वृत्तिः
षड्भ्यो लुक् ७।१।२२

षट्संज्ञकेभ्य उत्तरयोः जश्शसोर् लुक् भवति। षट् तिष्ठन्ति। षट् पश्य। पञ्च। सप्त। नव। दश। षट्प्रधानात् तदन्तादपि भवति। उत्तमषत्। यत्र तु उपसर्जनं षट् ततो न भवति, प्रियषषः, प्रियपञ्चानः इति।
लघु-सिद्धान्त-कौमुदी
षड्भ्यो लुक् १८८, ७।१।२२

जश्शसोः॥
न्यासः
षङ्भ्यो लुक्?। , ७।१।२२

"पञ्च, सप्त" इति। "नलोपः प्रातिपदिकान्तस्य" ८।२।७ इति नलोपः। "षट्परधानात्? तदन्तादपि भवति" इति। अत्र पूर्वको हेतुर्वकतव्यः। "यत्र तु" इत्यादि। अर्थस्येदं ग्रहणं बहुलवचनादवसितम्()। स चार्थो द्विविधः--प्रधानोऽप्रधानश्च। तत्र "प्रदाने कार्यसम्प्रत्ययः" (व्या।प।१२०) इति यत्रार्थस्य प्राधान्यं तत्रैव भवति, न तु यत्रार्थस्याप्राधान्यं तत्र। एष च हेतुः प्रियाष्टान इत्यत्रौश्त्वाभावेऽपि वेदितव्यः। "प्रियषषः" इति। प्रियाषडेषामिति बहुव्रीहिः। अत्रान्यपदार्थस्य प्राधान्यम्(), षडर्थस्तु तत्र गुणभावादप्रधानः॥
बाल-मनोरमा
षड्भ्यो लुक् २५९, ७।१।२२

षड्भ्यो लुक्। जस्शसोरित्यनुवर्तते। तदाह--षड्भ्यः परयोरित्यादिना।

तत्त्व-बोधिनी
पङ्भ्यो लुक् २२०, ७।१।२२

पङ्भ्यो लुक्। "सर्वनाम्नः स्मै" इतिवत् "षषोलु"गिति वक्तव्ये बहुवचननिर्दिशोऽत्रार्थप्राधान्यसूचनार्थः, कृत्रिमाकृत्रिमन्यायेन स्वरूपनिराससिद्धेः। तेन "षडर्थगतसङ्ख्याभिधायिनोरेव जश्शसोर्लु"गित्यर्थपर्यवसानात्प्रियपञ्चन इत्यादौ नातिप्रसङ्गः। "जश्शसोः शि "रित्यातोऽनुवर्तनादाह-जश्शसोर्लुक्स्यादिति।