पूर्वम्: ७।१।२७
अनन्तरम्: ७।१।२९
 
सूत्रम्
ङे प्रथमयोरम्॥ ७।१।२८
काशिका-वृत्तिः
ङे प्रथमयोरम् ७।१।२८

ङे इत्यविभक्तिको निर्देशः। ङे इत्येतस्य प्रथमयोश्च विभक्त्योः प्रथाद्वितीययोः युष्मदस्मद्भ्याम् उत्तरयोः अम् इत्ययम् आदेशो भवति। तुभ्यं दीयते। मह्यं दियते। प्रथमयोः त्वम्। अहम्। युवाम्। आवाम्। यूयम्। वयम्। त्वाम्। माम्। युवाम्। आवाम्।
लघु-सिद्धान्त-कौमुदी
ङेप्रथमयोरम् ३१३, ७।१।२८

युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः॥
न्यासः
ङे प्रथमयोरम्?। , ७।१।२८

"ङे इत्यविभक्तिकोऽयं निर्देशः" (इति)। "सुपां सुलुक्()" ७।१।३९ इति षष्ठ()आ लुप्तत्वात्()। प्रथमयोरिति षष्ठीद्विवचनान्तम्()--प्रथमा च प्रथमा च ते प्रथमे, तयोः प्रथमयोः। षष्ठीनिर्देशस्योभयत्र तुल्यत्वात्? प्रथमयोः प्रत्यययोः स्वौकारयोग्र्रहणमिति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्तुमाह--"विभक्त्योः" इति। एतदेव स्पष्टीकर्तुमाह--"प्रथमाद्वितीययोः" इति। कथं पुनर्द्वितीया प्रथमाशब्देनोच्यते? उपदेशे प्रथमासामीप्यात्()। भवति हि सामीप्यात्? ताच्छब्द्यम्(), यथा--गङ्गायां घोष इति। अथ विभक्त्योरिदं ग्रहणं न प्रत्ययोः--इति कुतोऽयं निश्चयः? लिङ्गात्()। तत्पुनर्लिङ्गं "द्वितायायाञ्च" ७।२।८७ इत्यत्त्वविधानम्()। तद्ध्यादेशार्थमुच्यते; अनादेशे हि "युष्मदस्मदोरनादेशे" नान्यथा। ननु च "योऽचि" (७।२।८९) इति यत्वबाधनार्थम्? "द्वितीयायाञ्च" (७।२।८७) इत्याद्वचनं स्यात्()? नैतदस्ति; तदर्थे द्विवचने यकारमेव विशेषणं विदध्यात्()--"योऽच्यद्वितीयायाम्()" इति, "योऽच्यनचि" इति वा द्रूयात। अतो द्वितीयायामात्त्वविधानं ज्ञापकमेवैतद्विभक्तिग्रहणस्य। "तभ्यम्(), मह्रम्()" इति। मपर्यन्तयोर्युष्मदस्मदोस्तभ्यमह्रावादेशौ। "शेषे लोपः" ७।२।९०, "अमि पूर्वः" ६।१।१०३। "त्वम्(), अहम्()" इति। "त्वाहौ सौ" ७।२।९४। "युवाम्(), आवाम्? इति। "युववौ द्विवचने" ७।२।९२ इति युवावौ, "प्रथायश्च" ७।२।८८ इत्यादिनाऽत्त्वम्()। "यूयम्, वयम्()" इति। "यूयवयौ जसि" ७।२।९३। "त्वाम्(), माम्()" इति। त्वमावेकवचने" ७।२।९७, "द्वितीयायाञ्च" ७।२।८७ इत्यात्त्वम्()। अथ किमर्थममादेश उच्यते, न मकार एवोच्यते? स चैकाल्त्वादादेर्भविष्यति, तत्र परस्य संयोगान्तलोपेन सिद्धम्(), "शेषे लोपः" (७।२।९०) इति टिलोपान्न सिध्यतीति चेत्()? नैष दोषः; सेषे लोपो यद्यपि टिलोपः स्यात्(), तथापि "त्वाहौ सौ" (७।२।९४) इत्येवमादीनामकारान्तत्वात्? सिद्ध्यत्येव; ते चावश्यकमकारान्ता विधेयाः, अन्तोदात्तत्वं यथा स्यात्()। न च मकारादेशे "सुचि च" ७।३।१०२ इति दीर्घत्वं प्राप्नोति; "अङ्गवृत्ते पुनरङ्गवृत्ताविधिर्निष्ठितस्य" (व्या।प।३८) इति वचनात्()। एवं तर्हि वैचित्र्यार्थममादेशविधानम्()। अथ वा--मकार एवादेशः, अकारस्तूच्चारणार्थः; न ह्रन्यथास्मिन्निर्देश आदावन्ते वाऽकारमकृत्वा मकार उचचारयितुं शक्यते। "ङेत्सुटोः" इति। वक्तव्ये "ङे प्रथमयोः" इति वचनं वैचित्र्यार्थम्()
बाल-मनोरमा
ङे प्रथमयोरम् , ७।१।२८

अथ युष्मदस्मच्छब्दयो प्रक्रियां दर्शयति--ङे प्रथमयोरम्। "युष्मदस्मद्भ्यां ङसोऽश्" इत्यतो "युष्मदस्मद्भ्या"मित्यनुवर्तते। परशब्दोऽध्याहर्तव्यः। "ङे" इति लुप्तषष्ठीकं पृथक्पदम्। प्रथमयो"रिति प्रतमाद्वितीयाविभक्त्योर्लाक्षणिकमिति भाष्यं। तदाह युष्मदस्मद्भ्यामित्यादिना। सोरमादेशे कृते "न विभक्तौ" इति मस्य नेत्त्वम्। युष्मद् अम्, अस्मद् अम् इति स्थितम्। अधिकृत्येति। "कार्याणि वक्ष्यन्ते" इति शेषः।

तत्त्व-बोधिनी
ङे प्रथमयोरम् ३४२, ७।१।२८

ङे प्रथमयोरम्। "युष्मदस्मभ्द्यां ङसोऽ"सित्यतो "युष्मदस्मभ्द्या"मित्यनुवर्तते। "ङे"इति पृथक्पदं लुप्तषष्ठीकम्। "प्रथमयो"रिति द्विवचनबलेन प्रतमाशब्दः प्रथमाद्वितीयभयार्थके इत्याशयेन व्याचष्टे---युष्मदस्मद्भ्यां परस्य ङे इत्येतस्येत्यादिना। "ङेसुटो"रिति सुवचम्।