पूर्वम्: ७।१।२
अनन्तरम्: ७।१।४
 
प्रथमावृत्तिः

सूत्रम्॥ झोऽन्तः॥ ७।१।३

पदच्छेदः॥ झः ६।१ अन्तः १।१ प्रत्ययस्य ६।१ आदेः ६।१ अङ्गस्य ६।१ ६।४।१

अर्थः॥

प्रत्ययस्य आदेः अवयवस्य झस्य स्थाने अन्तः इति अयम् आदेशः भवति।

उदाहरणम्॥

कुर्वन्ति, सुन्वन्ति, चिन्वन्ति। पतिभिः सह शयान्तैः। जरन्तः, वेशन्तः।
काशिका-वृत्तिः
झो ऽन्तः ७।१।३

प्रत्ययग्रहणम् अनुवर्तते, आदिग्रहणं निवृत्तम्। प्रत्ययावयवस्य झस्य अन्त इत्ययम् आदेशो भवति। कुर्वन्ति। सुन्वन्ति। चिन्वन्ति। अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै। जृ̄विशिभ्यां झच् जरनतः। वेशन्तः। प्रत्ययस्य इत्येव, उज्झिता। उज्झितुम्। उज्झितब्यम्। अस्मिन्नप्यन्तादेशे कृते प्रत्ययाद्युदात्त्वं भवति। तथा च झचः चित्करणम् अर्थवच् भवति।
लघु-सिद्धान्त-कौमुदी
झोऽन्तः ३९१, ७।१।३

प्रत्ययावयवस्य झस्यान्तादेशः। अतो गुणे। भवन्ति। भवसि। भवथः। भवथ॥
न्यासः
झोऽन्तः। , ७।१।३

"प्रत्ययग्रहणमनुवत्र्तते" इति। अनन्तरसूत्रात्()। यद्येवम्(), एकयोगनिर्दिष्टत्वादादिग्रहणमप्यनुवत्र्तेत, ततश्च शयान्तै--इत्यत्र न स्यात्(), चकारस्यादित्वाभावात्()? इत्यत आह--"आदिग्रहणं निवृत्तम्()" इति। एवं मन्यते--स्वरितत्वप्रतिबद्धा हि शब्दानामनुवृत्तिः, तच्च स्वरितत्वं प्रतिज्ञाधर्मः--"प्रतिज्ञास्वरिताः पाणिनीयाः" इति--यत्रैव तैः स्वरितत्वं प्रतिज्ञायते तत्रैव भवति, नान्यत्रेति। तेनैकयोगनिर्द्दिष्टानामप्येकतरस्यानुवृत्तिर्न विरुध्यते। इह च प्रत्ययस्यैव स्वरितत्वं प्रतिज्ञायते, नादिग्रहणस्य। तेन सत्यप्येकयोगनिर्द्दिष्टत्वे प्रत्ययग्रहणमनुवत्र्तते। "आदिग्रहणं निवृत्तम्()" इति। "अन्त इत्ययमादेशो भवति" इति। अकारसहित एवादेशः करणीयः। अकारः--तकारेत्संज्ञा मा भूदित्येवमर्थः। स च जरन्तः, वेशन्त इत्यत्र। कुर्वन्तीत्यादौ "न विभक्तौ तुस्माः" १।३।४ इति प्रतिषेधादेवेत्संज्ञा न भवति। अथ तु "उणादयो बहुलम्()" ३।३।१ इति वचनाज्जरन्तः, वेशन्त इत्यादौ न भवति? तथा च सत्यकार उच्चारणार्थः। "न विभक्तौ तुस्माः" १।३।४ इत्यस्यानित्यत्वज्ञापकार्थं वाऽकारोच्चारणम्()। "तेन किमोऽत्()" ५।३।१२ इत्यादीनां तकारेत्संज्ञा भवति। "कुर्वन्ति" इति। "अत उत्सार्वधातुके" ६।४।११० इत्युत्त्वम्()। "शयान्तै" इति। शीङः "लिङर्थे लेट्()" ३।४।७, "लेटोऽडाटौ" ३।४।९४ इत्याट्(), टेरेत्त्वम्(), "एत ऐ" ३।४।९३ इत्यनुवत्र्तमाने "वैतोऽयन्त्र" ३।४।९६ इत्यैत्त्वम्()। "उज्झिता" इति। "उज्झ उत्सर्गे" (धा।पा।१३०४) तृच्()। "ऋदुशनस्()" ७।१।९४ इत्यादिनानङ्, "नोपधायाः" ६।४।७ "सर्वनामस्थाने च" ६।४।८ इति दीर्घः। "उज्झितुम्()" इति। तुमुन्()। "उज्झितव्यम्()" इति। तव्यः। "अस्मिन्नपि" इत्यादि। ननु चान्तरङ्गत्वात्? प्रत्ययाद्युदात्तत्वेन प्राग्भवितव्यम्(), पश्चादादेशेन? नैवम्(); अन्तादेशस्याप्यन्तरङ्गत्वात्()। अन्तरङ्गत्वं तु तस्यायन्नादिवद्वेदितव्यम्()। उभयोरन्तरङ्गत्वात्? पूर्वमन्तादेशः, पश्चात्? प्रत्ययाद्युदात्तत्वम्()। अत्रैव ज्ञापकमाह--"तथा च" इत्यादि। एतच्च ""घच्छौ च" ४।४।११६ इति घचश्चित्करणमनर्थवद्भवति"--इत्येतद्वाख्यानेन व्याख्यातमिति। प्रत्ययाद्युदात्तत्वात्? पूर्वमन्तादेशस्य भावे सति द्विषन्तीत्यत्र मध्योदात्तत्वम्(); अन्यथाऽन्तोदात्तता स्यात्()। सा चानिष्टेति पूर्वमन्तादेशः क्रियते॥
बाल-मनोरमा
झोऽन्तः १९, ७।१।३

झः अन्त इति च्छेदः। "झ" इति षष्ठ()न्तम्। आदेशे तकारादकार उच्चारणार्थः। "आयनेयी"ति सूत्रात्प्रत्ययग्रहणमनुवर्तते, न त्वादिग्रहणमपि, अस्वरितत्वात्। अनुवृत्तं च प्रत्ययग्रहणमवयवषष्ठ()न्तमाश्रीयते। तदाह -- प्रत्ययावयवस्येति। झस्य। झकारस्येत्यर्थः। अन्तादेशः स्यादिति। "अन्त्" इत्ययमादेशः स्यादित्यर्थः। प्रत्ययावयवस्येति किम्?। उज्झिता। अत्र धात्ववयवस्य झकारस्य न भवति। आदिग्रहणानुवृत्तौ तु "शयान्तै" इति न सिध्यति। अन्तादेशात्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटि कृते झकारस्य प्रत्ययादित्वाऽभावादिति भाष्ये स्पष्टम्। एवं च "भव-झी" त्यत्र झकारस्य अन्त् इत्यादेशे, भव-अन्ति इति स्थिते, "अतो गुण" इति द्वयोरकारयोः सवर्णदीर्गापवादे पररूपे कृते, भवन्तीति रूपमित्यर्थः। अन्तादेशे प्रथमाऽकारोच्चारणं तु लुगविकरणे द्विषन्तीत्यादौ अकारश्रवणार्थम्। भवसीति। मध्यमपुरुषैकवचने सिपि शपि गुणेऽवादेशे रूपम्। भवथ इति। मध्यमपुरुषद्विवचने थसि शपि गुणेऽवादेशे रुत्वविसर्गयोश्च रूपम्। "न विभक्तौ तुस्मा" इति सस्य नेत्त्वम्। भवथेति। मध्यमपुरुषबहुवचने थादेशे शपि गुणे अवादेशे रूपम्।

तत्त्व-बोधिनी
झोऽन्तः १५, ७।१।३

तकारादकार उच्चारणार्थः। "आयनेयीनी"ति सूत्रात्प्रत्ययग्रहणमनुवर्तते न त्वादिग्रहम्, एकदेशे स्वरितत्वप्रतिज्ञानात्। तस्याप्यनुवृत्तौ तु "शयान्तै" इति न सिध्येत्। शीङो "लेटोऽरडाटौ" इत्यन्तरङ्गत्वादन्तादेशात्प्रागाटि कृते झस्यादित्वाऽभावात्। तदेतदाह-- प्रत्ययावयवस्येति। प्राचा तु प्रत्ययादेर्झस्येत्युक्तं, तदनेन प्रत्युक्तम्। इह मनोरमायामादिग्रहणं निवृत्तमित्युक्तं, तदापाततः, अन्यत्राऽप्रवृत्तस्यादिग्रहणस्य निवृत्तत्वाऽयोगात्। "निवृत्त"मित्यस्याननुवृत्तमित्यर्थ इति वा कथंचिद्व्याख्येयम्। यत्तु प्रत्ययादेरिति ग्रन्थसमर्थनाय व्याचक्षते-- आडागमे कृते तत्सहितोऽपि प्रत्ययोऽस्तु नाम, न तु तत्सहित एव प्रत्यय इति नियमोऽस्तीति। तन्न। अवयवविनिर्मुकत्स्यावयवित्वाऽयोगात्। अन्यथा भूयास्तामित्यादौ तामादीनामिडागमापत्तेः। नन्वह्गात्परस्य प्रत्ययस्येट्, यासुडन्तं तु नाङ्गमिति चेत्। "आगमविनिर्मुक्तस्यापि प्रत्ययत्व"मिति वदतां मते भवामि भविष्यामीत्यादौ विकरणान्तस्येव तदादिग्रहणबलेन यासुडन्तस्याप्यङ्गताया दुर्वारत्वात्। किं च लविषीयेत्यत्र विशेषविहितत्वात्सीयुटि कृते लिङः स्थाने इट्, तस्यागमेनाऽ‌ऽदित्वविघातात्प्रत्ययाद्युदात्तत्वं न प्राप्वोतीत्याशङ्क्य प्रत्ययस्वरे कर्तव्ये आगमा अविद्यमानवदित्यतिदेशः "#आद्युदात्तश्चे"ति सूत्रे भाष्यादौ स्वीकृतः। न चैतत्कैवलस्यापि प्रत्ययत्वे युज्यते। न च तन्मते आगमसहितस्यापि प्रत्ययत्वादिकारस्याप्युदात्तः स्यात्,तद्वारणाय "प्रत्ययस्वरे कर्तव्ये" इत्यादिग्रन्थः स्वीकर्तव्य एवेति नास्त्येवाऽ‌ऽकरग्रन्थविरोध इति वाच्यम्, "आगमा अनुदात्ताः" इति विशेषवचनेनागमस्याप्यनुदात्तत्वे कृते आद्युदात्तत्वस्य तत्राऽप्रवृत्तेरिति दिक्। झस्येति। झकारादकार उच्चारणार्थः। अतो गुणे इति। "अतो दीर्घो यञी"ति तु न प्रवत्र्तते, स्थान्यलादेशविधौ स्थानिवत्त्वनिषेधादिति भावः।