पूर्वम्: ७।१।३६
अनन्तरम्: ७।१।३८
 
सूत्रम्
समासेऽनञ्पूर्वे क्त्वो ल्यप्॥ ७।१।३७
काशिका-वृत्तिः
समासे ऽनञ्पूर्वे क्त्वो ल्यप् ७।१।३७

समासे ऽनञ्पूर्वे क्त्वा इत्येतस्य ल्यपित्ययम् आदेशो भवति। प्रकृत्य। प्रहृत्य। पार्श्वतःकृत्य। नानाकृत्य। द्विधाकृत्य। समासे इति किम्? कृत्वा। हृत्वा। अनञ्पूर्वे इति किम्? अकृत्वा। अहृत्वा। परमकृत्वा। उत्तमकृत्वा। अनञिति नञा अन्यदनञ् नञ्सदृशम् अव्ययं परिगृह्यते। तेन नञनव्ययं चनञ् न भवति। स्नात्वाकालकादिषु मयूरव्यंसकादिषु निपातनाल् ल्यबादेशो न भवति। अथवा समासे इति निर्धारणे सप्तमी। तेन क्त्वान्तः समास एव परिगृह्यते। स च येन विधिस् तदन्तस्य इत्यनेन तदन्तविधिना, न तु कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति। तथा च अनञ्पूर्वे इत्युच्यते। गतिकारकपूर्वस्येव तु ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव न अस्ति, नञ् न गतिर् न कारकम् इति। प्रधाय, प्रस्थाय इत्यादिषु हिप्रभृतीनन्तरङ्गनपि विधीन् बहिरङ्गो ल्यब् बाधते एव इति ज्ञापितम् एतत्।
लघु-सिद्धान्त-कौमुदी
समासेऽनञ्पूर्वे क्त्वो ल्यप् ८८७, ७।१।३७

अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात्। तुक्। प्रकृत्य। अनञ् किम्? अकृत्वा॥
न्यासः
समासेऽनञ्पूर्वे क्त्वो ल्युप्?। , ७।१।३७

"अनञ्पूर्वे" इति। न नञ्? अनञ्? अनञ्? पूर्वो यसय सोऽनञ्पूर्वः। "प्रकृत्य" इत्यादि। "समानकर्त्तुकयोः पूर्वकाले" ३।४।२१ क्त्वा, "कुगतिप्रादयः" २।२।१८ इति समासः, "ह्यस्वस्य पिति कृति तुक्()" ६।१।६९ इति तुक्()। "पार्(ातःकृत्य" इति। "स्वाङ्गे तस्प्रत्यये कृभ्वोः ३।४।६१ इति क्त्वा, "तृतीयाप्रभृतीन्यन्यतरस्याम्()" (२।२।२१० इति समासः। "नानाकृत्य" इति। "नाधार्थप्रत्यये च्व्यर्थे" ३।४।६२ इति क्त्वा, पूर्ववत्समासः। "कृत्वा, ह्मत्वा" इति। एतत् प्रत्युदाहरणम्()। अत्र कृत्वाशब्दोऽनञ्पूर्वोऽस्ति; किन्तु समासो न भवतीति ल्यबभावः। "परमकृत्वा, उत्तमकृत्वा" इति। "सन्प्रहत्()" २।१।६० इत्यादिना समासः। कथं पुनरनेन समासः? कथञ्चं न स्यात्()? सामानाधिकरण्याभावात्()? वात्र्तमेतत्(); कत्र्तरि क्त्वा विहितः, स एव च परमोत्तमशब्दाभ्यां विशिष्यते, तत्? कथं सामानाधिकरण्याभावः! अथ क्रियाविशेषणत्वं तयोराश्रित्य सामानाधिकरण्यभाव उच्यते, एवमपि "विशेषणं विशेष्येण बहुलम्()" २।१।५६ इत्यतो बहुलग्रहणानुवृत्तेरसामानाधिकरण्येऽपि समासो भवति। ननु चानञ्पूर्वावेतौ समासौ, तत्? कथमेतत्प्रत्युदाहरणमुपपद्यते? इत्याह--"अनञ्()" इत्यादि। अनञिति नायं प्रसज्येपरतिषेधः, किं तर्हि? पर्युदासः--नञोऽन्यदनञ्()। तत्र नञिवयुक्तन्यायेन (व्या।प।६५) नञो यदन्यन्नञ्सदृशमव्ययं तदनञिति परिगृह्रते। तेन कारणेन नञव्ययमनव्ययञ्च परमशब्दादिकमुभयमप्येतदनञ्? न भवति, न तत्राव्ययेन नञा सादृश्यमस्ति। अत्यन्ताभेदादनव्ययत्वाच्च यथाक्रमम्()। तस्माद्? यथा अकृत्वा, अहत्वेत्येतत्? प्रत्युदाहरणमुपपन्नरूपम्(), एवं परमकृत्वा, उत्तमकृत्वेयपि। यदि तर्हि अनञिति नञ्सदृशमध्ययं परिगृह्रते--स्नात्वाकालकः, पीत्वास्थिरक इत्यादावपि स्यात्(), अस्ति ह्रत्रापि नञ्सदृशमध्ययं पूर्वपदम्(); क्त्वाप्रत्ययस्याव्ययत्वादित्याह--"स्नात्वाकालकः" इत्यादि। मयूरव्यंसकादिषु समाससंज्ञार्थमेते समुदायाः पठ()न्ते, तस्मान्निपातनाल्ल्यबादेशो न भवति। "अथ वा" इत्यादि। "समासे" इत्यधिकरणसप्तम्यां सत्यां स्नात्वाकालकादिषु ल्यबादेशप्रसङ्गो भवतीति। तथा ह्रधिकरणसप्तम्यामयमर्थो भवति--समासेऽनञ्पूर्वे यः क्त्वा वत्र्तते तस्य ल्यब्भवति। एवञ्च सति देशविशेषपरिग्रहाभावाद्यथा समासस्यान्ते वत्र्तमानस्य क्त्वो ल्यब्भवति, तथा मध्येऽपि स्यात्()। तस्मान्न चेयमधिकरणसप्तमी, किं तर्हि? निर्घारणसप्तमी। त()स्मश्च पक्षे "समासे" इति जातावेकवचनम्(), यथा--"कारके" १।४।२३ इति। अथ वा "व्यत्ययो बहुलम्()" ३।१।८५ इति सुब्व्यत्ययेन बहुवचनस्य स्थान एकवचनं वेदितव्यम्()। "तेन" इत्यादि। यतो निर्धारण इयं सप्तमी, तेन क्त्वान्तः समास एव गृह्रते, न समासावयवः--स्नात्वेति। निर्घारणं हि समानजातीयस्यैव भवति, यथा--कृष्णा गवां सम्पन्नक्षीरतमेत्युक्ते गौरेव निर्धार्यमाणा प्रतीयते, तथाऽत्रापि "समासोऽनञ्पूर्वे" इत्युक्ते समासेष्वनञ्पूर्वेषु मद्ये यः क्त्वान्तः समासः स एव निर्धायमाणः प्रतीयते। तेन समासस्यैव क्त्वान्तस्य ग्रहणमिति तस्यैव ल्यबादेशेन भवितव्यम्(), न च स्नात्वाकालकादिषु क्त्वान्तः समासः। स्नात्वाकालकादयो यद्यपि समासाः, न तु क्त्वान्ता इति ल्यबादेशो न भवति। स च समासः "येन विधिसतदन्तस्य" १।१।७१ इति तदन्तविधिना क्त्वान्तो गृह्रते। कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणेन (व्या।प।१२६) वा प्रत्ययग्रहणपरिभाषया (भो।प।सू।७) तदन्तग्रहणं न शक्यते वक्तुम्()। न हि क्त्वाप्रत्ययः समासादुत्पद्यते। तत्र यदि कृद्ग्रहणपरिभाषया (व्या।प।१२६) तदन्तो गृह्रते, नानाकृत्येत्यत्र न स्यात्(); न ह्रयं गतिकारकपूर्वः। इहैव तु स्यात्()--प्रकृत्य, पार्(ातःकृत्येति। असिति ह्रत्रापि गतिः कारकश्च पूर्वोऽवयवः, "येन विधिस्तदन्तस्य" १।१।७१ इत्यनेन तदन्तविधौ गम्यमाने सर्वत्र भवतीति मन्यमान आह--"स च" इत्यादि। अत्रैवोपपत्तिमाह--"तथा च" इत्यादि। यस्मात्? "येन विधिस्तदन्तस्य" १।१।७१ इत्यनेन क्त्वान्तः समासो गृह्रते, एवञ्च कृत्वा "अनञ्पूर्वे" इत्युच्यते। "येन विधिस्तदन्तस्य" १।१।७१ इत्यनेन क्त्वान्तः समासो गृह्रते, एवञ्च कृत्वा "अनञ्पूर्वे, इत्युच्यते। "येन विधिस्तदन्तस्य" १।१।७१ इत्यनेन हि सामान्येन तदन्तविधौ सति नञ्पूर्वस्यापि प्रसज्येत। तस्मात्? तन्निवृत्त्यर्थम्? "अनञ्पूर्वे" इति युक्तमुक्तम्()। यदि कृद्ग्रहणपरिभा,या (व्या।प।१२६) क्त्वान्तः समासो गृह्रते, तदा गतिकारकपूर्वस्यैव ग्रहणं स्यात्()। एवञ्च गतिकारकपूर्वस्य ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव नास्ति। "नञ्? न गतिर्न च कारकम्()" इति। अतो हेतोर्यथैव परमकृत्वेत्यत्र प्रसङ्गो नास्ति, परमशब्दस्यागतित्वादकारकत्वाच्च्; तथाऽकृत्वेत्यत्रापि, नञोऽगतित्वादकारकत्वाच्च। ततश्च प्रसङ्गाभावात्? "अनञ्पूर्वे" इति न वक्तव्यं स्यात्(), उक्तञ्च तदेतस्मादनञ्पूर्व इति वचनात्? "येन विधिस्तदन्तस्य १।१।७१ इत्यनेन क्त्वान्तः समासो गृह्रते, न तु कृद्गहणपरिभाषयेति स्थितमेतत्()। "प्रधाय" इति। अत्रान्तरङ्गत्वात्? "दघातेर्हिः" ७।४।४२ इति हिः प्राप्नोति। "प्रस्थाय" इति--अत्रापि "द्यतिस्यतिमास्थामित्ति किति" ७।४।४० इतीत्त्वम्()। "प्रखन्य" इति। "जनसनखनाम्()" ६।४।४२ इत्यात्त्वम्()। "प्रणभ्य" इति। "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इति दीर्घः। "आपृच्छ्य" इति "च्छ्वोः शूडनुनासिके च" ६।४।१९ इति शत्वम्()। "प्रतिदीव्य" इति। तेनैवोट्()। "प्रपठ()" इति। "आर्थधातुकस्येङ् वलादेः" ७।२।३५ इतीट्()। अन्तरङ्गत्वं पनरेषामेकपदाश्रयत्वात्()। ल्यबादेशस्य तु बहिरह्गत्वम्(), समर्थानेकपदाश्रयसमासापेक्षत्वात्()। हिप्रभृतिषु कृतेषु प्रधायेत्यादीनि रूपाणि न सिध्यन्ति? इति यश्चोदयेत्(), तं प्रत्याह--"प्रधाय" इत्यादि। "ज्ञापितमेतत्()" इति। "अदो जग्घिर्ल्यप्ति किति" २।४।३६ इत्यत्र। अथ पूर्वग्रहणं किमर्थम्()। नानञोत्येवमुच्येत? नैवं शक्यम्(); अनञोत्युच्यमाने बहुव्रीहिरयं स्यात्()--अविद्यमानो नञ्? यत्रासावनञिति। ततश्चेहापि न स्यात्()--स्त्रैणीकृत्येति। स्त्रिया इदं स्त्रैणम्(), "स्त्रीपुंसाभ्यां,नञ्स्नञौ भवनात्()" ४।१।८७ इति नञ्()। तदन्तात्? "अभूततद्भावे" ५।४।५० इत्यादिना च्विः, "अस्य च्वौ" ७।४।३२ इतीत्त्वम्()। "कुगतिप्रादयः" २।२।१८ इति समासः। पूर्वग्रहणे तु सति पूर्वशब्द आदिभूतावयवमाचष्टे। तेन यत्र समासादिभूतो नञ्? तत्र न ल्यपा भवितव्यम्(), तत्र स्त्रैणीकृत्येत्यत्र भवत्येव। न ह्रत्र समासादिभूतो नञवयवः, किं त्रिह? मध्यभूतः। लित्करणम्()--प्रतिकीष्र्येत्यत्र लित्प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्()। प्रकृत्येत्येवमादावृदात्तार्थं लित्करणं नोपपद्यते, धातुस्वरेणैव पूर्वस्योदात्तत्वं सिध्यति। तस्मादनेकाझवयव एव धार्लित्त्वं प्रयोजयति॥
तत्त्व-बोधिनी
समासेऽनञ्पूर्वे क्त्वो ल्यप् १६००, ७।१।३७

समासेऽनञ्। नञ्()भिन्नं नञ्सदृशम्। अव्ययमिति यावत्। तत्पूर्वं पूर्वपदं यस्य समासस्येति व्याचष्टे-- अव्ययेति। प्रकृत्येति। प्रशब्दः क्त्वाप्रत्ययार्थगतप्रकर्षस्य द्योकः, स तु "कुगतिप्रादयः" इति क्त्वान्तेन नित्यं समस्यते। पर्युदासेति।प्रसज्यप्रतिषेधाश्रयणे तु स्यादेवात्र ल्यबिति भावः।