पूर्वम्: ७।१।४९
अनन्तरम्: ७।१।५१
 
सूत्रम्
आज्जसेरसुक्॥ ७।१।५०
काशिका-वृत्तिः
आज् जसेरसुक् ७।१।५०

अवर्णान्तातङ्गादुत्तरस्य जसेः असुकागमो भवति छन्दसि विषये। ब्राह्मणासः पितरः सोम्यासः। ब्राह्मणाः सोम्याः इति प्राप्ते। ये पूर्वासो य उपरासः इत्यत्र परत्वादसुकि पुनः प्रसङ्गविज्ञानात् शिभावः प्राप्तः, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति न भवति।
न्यासः
आजजसेरसुक्?। , ७।१।५०

जसेरिति पूर्वाचार्यनिर्द्देशः। पूर्वाचार्या हि जसिरित्येवं विहतवन्तः। "ये पूर्वासो ये परास इत्यत्र" इत्यादि चोद्यम्()। एतच्च जातौ पदार्थे। तत्रान्यत्र चरितार्थत्वाच्छास्त्रयोस्तुल्यबलयोर्विरोधे सति परस्पर प्रतिबन्धादप्रवृत्तौ प्राप्तायां "विप्रतिषेधे परं कार्यम्()" १।४।२ इति क्रियते--विप्रतिषेधे परं भवति, तत्र कृते यदि पूर्वमपि प्राप्नोति तदपि भवतीति जातिपदार्थः पुन प्रसङ्गविज्ञानस्य विषयः। "सकृत्()" इत्यादिना परीहारः। एव च ष्यक्तो पदार्थेऽन्यत्राकृतार्थत्वाद्द्वयोरपि शास्त्रयोरीदृशे विषये पर्यायेण प्रवृत्तौ प्राप्तायामयं नियम आरभ्यते--विप्रतिषेधे परमेव भवति, न पूर्वमिति। तेन पुनः प्रसङ्गविज्ञानाभावाद्बाधितः शोभावो न भवति। न ह्रसति पुनःप्रसङ्गे यद्वाधितं तदुत्सहते पुनर्भवितुम्()॥