पूर्वम्: ७।१।५३
अनन्तरम्: ७।१।५५
 
सूत्रम्
ह्रस्वनद्यापो नुट्॥ ७।१।५४
काशिका-वृत्तिः
ह्रस्वनद्यापो नुट् ७।१।५४

ह्रस्वान्तात् नद्यन्ताताबन्ताच् च उत्तरस्य आमः नुडागमो भवति। ह्रस्वान्तात् तावत् वृक्षाणाम्। प्लक्षाणाम्। अग्नीनाम्। वायूनाम्। कर्तृ̄णाम्। नद्यन्तात् कुमारीणाम्। किशोरीणाम्। गौरीणाम्। शार्ङ्गरवीणाम्। लक्ष्ंईणाम्। ब्रह्मबन्धूनाम्। वीरबन्धूनाम्। आबन्तात् खट्वानाम्। मालनाम्। बहुराजानाम्। कारीषगन्ध्यानाम्।
लघु-सिद्धान्त-कौमुदी
ह्रस्वनद्यापो नुट् १४८, ७।१।५४

ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥
न्यासः
ह्यस्वनद्यापो नुट्?। , ७।१।५४

"कुमारीणाम्()" इति। "वयसि प्रथमे" ४।१।२० इति ङीष्()। "गौरीणाम्()" इति। "षिद्गौरादिभ्यश्च" ४।१।४१ इति ङीष्()। "शाङ्र्गरवीणाम्()" इति। "शाङ्र्गरवाद्यञो ङीन्()" ४।१।७३ इति ङीन्()। "लक्ष्मीणाम्()" इति। "अवितृ()स्तृ()तन्त्रिभ्य ईः" (पं।उ। ३-१५८) इत्यनुवृत्तौ "लक्षेर्मुट्? च" (पं।उ।३।१६०) इतीर्मुट्? च। "ब्राहृबन्धूनम्()" इति। ब्राहृआ बन्धुरासामिति बहुव्रीहिः। "ऊङुतः ४।१।६६ इत्यूङ्()। "खट्वानाम्()" इति। "अजाद्यतष्टाप्()" ४।१।४। "बहुराजानाम्()" इति। "डाबुभाभ्यामन्यतरस्याम्()" ४।१।१३ इति डाप्()। "कारीषगन्ध्यानाम्()" इति। कारीषगन्धेरपत्यमित्यण। तस्य "अणिञोरनार्षयोः" ४।१।७८ इत्यादिना ष्यङादेशः, "यङ्श्चाप्()" ४।१।७४ इति चाप्()॥
बाल-मनोरमा
ह्यस्वनद्यापो नुट् २०६, ७।१।५४

तदाह--ह्यस्वान्तादित्यादिना "आम्" अत्र षष्ठीबहुवचनमेव, नतु "ङेरा"मित्यादिविहितमिति भाष्ये स्पष्टम्। नुटि टकार इत्। उकार उच्चारणार्थः। टित्त्वादाद्यवयवः।

तत्त्व-बोधिनी
ह्यस्वनद्यापो नुट् १७३, ७।१।५४

ह्यस्वनद्यापो। "अङ्गस्ये"त्यनुवर्तते। तच्च पञ्चन्यन्तेन सामानाधिकरण्यादङ्गादिति विपरिणमय्य ह्यस्वादिभिर्विशेष्यते, विशेषणेन तदन्तविधिरित्याशयेनाह-ह्यस्वान्तादिति। एतेन "ह्यस्वनद्यापः-" इति पञ्चमी न तु षष्ठीति स्फोरितम्। ज्ञापकं त्वत्र "नामी"ति। नहि प्रकृत्यागमत्वे अङ्गसंज्ञानिमित्तं नाम् सम्भवति। एवं चानया पञ्चम्याऽनन्यार्थया "तस्मादित्युत्तरस्ये"ति परिभाषोपस्थित्या "आमि सर्वनाम्नः सुट्" इत्यतोऽनुवृत्तमामीति सप्तम्यन्तं "डः सि धु"डित्यत्रेव षष्ठ()आ विपरिणम्यते, "अमी"ति सप्तम्याः "त्रेस्त्रयः" इत्यत्र चरितार्थत्वादित्यभिप्रेत्याह-आमो नुडागमः स्यादिति। अत्र नव्याः-"नुट्" इति योगं विभज्य "अङ्गात्परस्यामो नुट्" इत्युत्सर्गविधि कृत्वा "नद्यापः" इत्यंशेन "दीर्घात्परस्यामो नुट् चेद्भवति तर्हि नद्याप एव" इति नियमविधिं व्याख्याय ह्यस्वग्रहणं प्रत्याख्येयम्। न चैवं "लिहां" "दुहा"मित्यादावतिप्रसङ्गैति वाच्यम्। "हलन्ताच्चेद्भवति तर्हि षट्चतुभ्र्य एवे"ति नियमाभ्युपगमात्। "ध्वस्वनडुहां" "कतिपयचतुरां" "यजिक्रुञ्चा" "झलाम्" इत्यादिनिर्देशाच्च। तस्माद्ध्रस्वग्रहणप्रत्याख्याने न कोऽपि द#ओष इत्याहुः। अत्र वदन्ति--"नु"डिति पृथग्योगे कृते सति ङेरामि कृते परमप्याटं बाधित्वाऽन्तरङ्गत्वादामो नुट् स्यात्। तथा च-"परत्वादाटा नुड्बाध्यते"-इति वक्ष्यमाणग्रन्थेन, "आटि कृते सकृद्गतिन्यायान्नुड् ने"ति भाष्यग्रन्थेन च विरोधः स्यात्। यद्यपि "नियमसूत्राणां विधिमुखेन प्रवृत्ति"रिति पक्षे ङेरामि कृते तस्य "नद्यापः" इत्यनेनैव नुडागमे प्रसज्यमाने "आण्नद्याः" इत्यनेन स बाध्यत इति "परत्वादाटा नुड् बाध्यत" इत्यादिग्रन्थः सङ्गच्छते, तथापि "नियमसूत्राणां निषेधमुखेन प्रवृत्ति"रिति पक्षे परमपि आटं बाधित्वा अन्तरङ्गत्वान्नुट् स्यादेव। किंच "नद्यापः" इत्यत्र "नद्यापः परस्यामो नुडेव स्यान्नान्यत्" इत्यर्थः स्यात्। तथा च गौर्यां रमायां सर्वासां सर्वस्यामिति न सिध्येत्। सुडामस्य पुंसि, आट्-याट्-स्याडागमानां तु ङिदन्तरे चरितार्थत्वात्। अपि च गौर्यामित्यादौ ङेरामि कृते नुटं बाधित्वा प्राप्तमाटं बाधितुं नदीग्रहणम्। एवं रमायां सर्वासां सर्वस्यामित्यादौ प्राप्तं याटं सुटं स्याटं च बाधितुमाब्ग्रहणमिति "नद्यापः" एतद्विध्यर्थमेव स्यान्न नियमार्थम्। ततश्च वि()आपां वातप्रम्यामित्यादौ नुड् दुर्वार एव। "नद्यां मतुप्" "भाषायां सदवसश्रुवः" "सर्वसां प्रायदर्शनम्" "तदस्यां प्रहरणम्" इत्यादिनिर्देशाञ्शरणीकृत्य विध्यर्थत्वापादनस्य, नुडेवेति प्रागुक्तनियमस्य [च] निवारणे तु प्रतिपत्तिगौरवम्। अपि च-"आकारान्तादीकारान्तादूकारान्ताच्चेद्भवति तर्हि नद्याप एव" इति नियमस्यापि संभवाद्वि()आपां वातप्रम्यां खलप्वामित्यादौ नुडागमाऽभावेऽपि गवामित्यादौ नुट् स्यात्। न च छन्दसि "गोः पादान्ते" इत्यारम्भाल्लोके गोशह्दात्परस्यामो नुड् न भवेदिति वाच्यम्, "पादान्ते गोशब्दात्परस्यामो नुट् चेच्छन्दस्येवे"ति नियमेन लोके पादान्ते "गोना"मिति प्रयोगस्याभावेऽप्यपादान्ते तस्याऽनिवर्त्त्यत्वापत्तेः। रायां ग्लावां नावामित्यादौ दुर्निवारत्वाच्च। यदि तु "दीर्घात्परस्य आमो नुट्चे"दित्यादिनियमे "गोः पादान्ते" इति सूत्रं विध्यर्थं भवेत्। "आकारान्तादिभ्यः परस्यामो नुट् चे"दित्यादिनियमे तु नियमार्थं स्यात्। तत्र विधिनियमयोर्विधिरेव ज्यायानिति न्यायाननुसन्धानेन "दीर्घान्तात्परस्यामो नुट् चे"दित्यादिनियम एव स्वीक्रियत इत्युच्यते तदापि पुनः प्रतिपत्तिगौरवमस्त्येव "दीर्घान्तात्परस्यामो नुट् चे"दित्यादिनियम एव स्वीक्रियत इत्युच्यते तदापि पुनः प्रतिपत्तिगौरवमस्त्येव, तस्माद्ध्रस्वग्रहणप्रत्याख्यानस्यातिक्लेशसाध्यत्वाद्यथाश्रुतमेव रमणीयमिति।