पूर्वम्: ७।१।६६
अनन्तरम्: ७।१।६८
 
सूत्रम्
उपसर्गात् खल्घञोः॥ ७।१।६७
काशिका-वृत्तिः
उपसर्गात् खल्घञोः ७।१।६७

उपसर्गादुत्तरस्य लभेः खल्घञोः परतः नुमागमो भवति। ईषत्प्रलम्भः। सुप्रलम्भः। दुष्प्रलम्भः। घञि प्रलम्भः। विप्रलम्भः। सिद्धे सत्यारम्भो नियमार्थः, उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, न अन्यत्र। ईषल्लभः। लाभो वर्तते।
न्यासः
उपसर्गात्खल्घञोः। , ७।१।६७

"ईषत्प्रलम्भः" इति "ईषद्()दुःसुषु" ३।३।१२६ इत्यादिना खल्()। "दुष्प्रलम्भः" इति। "इदुदुपधस्य" ८।३।४१ इत्यादिना षत्वम्()। "विप्रलम्भः" इति। भावे घञ्()। ननु च "लभेश्च" (७।१।६४) इत्यनेन नुम्? सिद्धः, तत्किमर्थोऽयमारम्भः? इत्याह--"सिद्धे" इत्यादि। "अन्यत्र न भवति" इति तद्व्यवच्छेद्यम्()। "उपसर्गात्? खल्घञोरेव" इत्येष तु विपरीतनियमोऽत्र न सम्भावनियः; "गृधिवञ्च्योः प्रलम्भने" १।३।६९ इति निर्देशात्()॥