पूर्वम्: ७।१।६९
अनन्तरम्: ७।१।७१
 
सूत्रम्
उगिदचां सर्वनामस्थानेऽधातोः॥ ७।१।७०
काशिका-वृत्तिः
उगिदचां सर्वनामस्थाने ऽधातोः ७।१।७०

उगितामङ्गानां धातुवर्जितानाम् अञ्चतेश्च सर्वनामस्थाने परतो नुमागमो भवति। भवतु भवान्, भवन्तौ, भवन्तः। ईयसुन् श्रेयान्, श्रेयांसौ, श्रेयांसः। शतृ पचन्, पचन्तौ, पचन्तः। अञ्चतेः प्राङ्, प्राञ्चौ, प्राञ्चः। उगिदचाम् इति किम्? दृषद्, दृषदौ, दृषदः। सर्वनामस्थाने इति किम्? भवतः पश्य। श्रेयसः पश्य। अञ्चतिग्रहणं नियमार्थम्, अञ्चतेरेव धातोरन्यस्य मा भूत्। उखास्रत्। पर्णध्वत्। अधातोः इति किम्? अधातुभूतपूर्वस्य यथा स्यात्। गोमन्तम् इच्छति गोमत्यति, गोमत्यतेरप्रत्ययः गोमान्। अत्र हि धातुत्वादञ्चतिग्रहणान् न स्यात्।
लघु-सिद्धान्त-कौमुदी
उगिदचां सर्वनामस्थानेऽधातोः २९१, ७।१।७०

अधातोरुगितो नलोपिनोऽञ्चतेश्च नुम् स्यात्सर्वनामस्थाने परे। मघवान्। मघवन्तौ। मघवन्तः। हे मघवन्। मघवद्भ्याम्। तृत्वाभावे मघवा। सुटि राजवत्॥
न्यासः
उगिदचां सर्वनामस्थानेऽघातोः। , ७।१।७०

उगिति प्रत्याहारग्रहणम्()--उक्? इद्? येषां तान्युगिन्ति, अङ्गविशेषणञ्चैतत्(), अत आह--"उगितामङ्गानाम्()" इति। अजिति प्रत्याहारस्य ग्रहणमेवेदं वा स्यात्(), अञ्चतेर्वा लुप्तनकारस्य? तत्र यदि प्रत्याहारग्रहणं स्यात्(), "नपुंसकस्य झलचः" ७।१।७२ इत्यत्र सूत्रे पुनरज्ग्रहणं न कुर्यात्(), तद्धि प्रत्याहाग्रहणम्(), नाञ्चेः; झला साहचर्यात्()। तस्मादञ्चतेरिदं ग्रहणमित्यालोच्याह--"अञ्चतेश्च" इत्यादि। "भवान्()" इति। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। "श्रेयान्()" इति। प्रशस्यशब्दात्? "द्विवचनविभज्योपपदे तरबीयसुनौ" ५।३।५७ इतीयसुन्(), "प्रशस्यस्य श्रः" ५।३।६० इति श्रादेशः, "प्रकृत्यैकाच्()" ६।४।१६३ इति प्रकृतिवद्भावाट्टिलोपाभावः, "आद्गुणः" ६।१।८४, "सान्तमहतः संयोगस्य" ६।४।१० इति दीर्घः। ननु चात्र नाङ्गमुगित्(), किं तर्हि? प्रत्ययः? नैतदस्ति; अङ्गमप्युगिदेव। कथम्()? अवयवावयवेनापि समुदायस्य सम्बन्धो भवत्येव, यथा--देवैदत्तस्याङ्गुलिरित्यत्र देवदत्तस्यावयवस्य हस्तस्य योऽवयवोऽङ्गुलिस्तेन देवदत्तस्य सम्बन्धः। तस्मादिहापि प्रत्ययस्यावयवो य उक्? इत्संज्ञकस्तेनाङ्गस्यापि सम्बन्धोऽस्त्येवेत्यङ्गमप्युगिदेव। "प्राङ्()" इति। प्राञ्चतति ऋत्विगादिसूत्रण ३।२।५९ क्विन्(), नुम्हल्ङ्यादि६।१।६६ संयोगान्तलोपौ ८।२।२३, "क्विन्प्रत्ययस्य कुः" ८।२।६२ इति कुत्वम्()--नकारस्य ङकारः। "प्राञ्चौ, प्राञ्चः" इति। चुत्वम्()--नकारस्य ञकारः। अथाञ्चतिग्रहणं किमर्थम्(), यावतोगित्त्वादेव तस्य नुम्? सिद्धः? इत्यत आह--"अञ्चतिग्रहणम्()" इत्यादि। उखारुआत्(), पर्णध्वत्()" इति। "रुआऊन्सु ध्वन्सु "अधः पतने" (धा।पा।७५४,७५५), ["अवरुआंसने"--धा।पा।] उखायां रुआंसते, पर्णानि ध्वंसते। "क्विप्च" ३।२।७६ इति क्विप्(), नलोपः, "वसुरुआंसुध्वंस्वनडुहां दः" ८।२।७२ इति सकारस्य दकारः, तस्य "वाऽवसाने" ८।४।५५ चत्र्वम्()--तकारः। "अधातोरिति किम्()" इति। अञ्चतिग्रहणादेव नियमार्थाद्धातेर्न भवतीत्यभिप्रायः। अधातोरिति नायं प्रसज्यप्रतिषेधः, किं तर्हि? पर्युदास इति मन्यमान आह--"अधातुभूतपूर्वस्यापि यथा स्यात्()" इति। पूर्वपक्षवादिनाऽधातोरिति प्रसज्यप्रतषेधोऽयमिति मन्यमानेन चोदितम्()। सिद्धान्तवादिना पर्युदासेन परिह्मतम्()। "गोमत्यति" इति। गोमच्छब्दात् "सुप आत्मनः क्यच्()ट ३।१।८। "गोमत्यतेरप्रत्ययः" इति। अश्रावी प्रत्ययोऽप्रत्ययः, स पुनः क्विप्(), "अतो लोपः" ६।४।४८ इति दीर्घः--गोमान्()। कस्मात्? पुनरसत्यधातुग्रहणेऽत्र न सिध्यतीत्यत आह--"अत्र हि" इत्यादि। असत्यधातुग्रहणेऽञ्चतिग्रहणान्नियमाद्यथोखरुआदित्यादौ न भवति, तथात्रापि न स्यात्()। भवति ह्रयमपि धातुः--सतद्यपि धातुत्वे क्विबन्तत्वे "क्विबन्ता धातुत्वं न जहति" (व्य।प।१३२) इति कृत्वा। तस्मादधातुग्रहणं क्रियते--योऽप्यवस्थान्तरेऽधातुरासीत्? तस्य गरहणं यथा स्यात्()। अथ गोमानिति कथमत्र दीर्घत्वम्()? कथं च न स्यात्()? अधातोरिति प्रतिषेधः, नात्वन्तस्य। अत्र ह्रधातोरिति किम्()? पिण्डं प्रसत इति पिण्डग्रः, चर्म वस्त इति चर्मवः--इत्यसन्तस्यैव प्रत्युदाहरणमुपनयस्तम्(), नात्वन्तस्य। अथ वा--चकारन्तत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन क्वचिद्धातोरयीति भविष्यति॥
बाल-मनोरमा
उगिदचां सर्वनामस्थानेऽधातोः , ७।१।७०

उगिदचाम्। "अधातो"रितिच्छेदः। उक् इत् येषां ते उगितः। "अच्" इति च लुप्तनकारस्य "अञ्चु गतिपूजनयोः" इति धातोग्र्रहणम्। अधातोरित्युगिद्विशेषणम्। न त्वञ्चतेः, असंभवात्। "इदितो नुम् धातो"रित्यतो नुमित्यनुवर्तते। तदाह--अधातोरुगित इत्यादिना। नुमि मकार इत्। उकार उच्चारणार्थः। मित्त्वादन्त्यादचः परः। अजिति अच्प्रत्याहारो न गृह्रते, व्याख्यानात्, "नपुंसकस्य झलचः" इत्यज्ग्रहणाच्च। अन्यथा "उगिदचा"मित्येव सिद्धे तद्वैयथ्र्यात्। वृद्धिर्गुण इत्यादिनिर्देशाच्च। अधातोरित्येतत्तु अग्रे गोमच्छब्दनिरूपणावसरे मूल एव व्याख्यास्यते। तत्प्रयोजनं च तत्रैव वक्ष्यते। उपधादीर्घ इति। मघवन् त् स् इति स्थिते हल्ङ्यादिना सुलोपे संयोगान्तलोपे च सति "सर्वनामस्थाने चे"ति दीर्घ इत्यर्थः। नन्विह दीर्घे कर्तव्ये संयोगान्तलोपपस्याऽसिद्धत्वान्नान्तत्वाऽभावात् पचन्नित्यादाविव दीर्घो न संभवतीत्यत आह-दीर्घे कर्तव्य इति। बहुलग्रहणादिति। "क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव। शिष्टप्रयोगाननुसृत्यलोके विज्ञेयमेतद्बहुलग्रहेतु॥" इति स्थितिः। अत्र दीर्घे कर्तव्ये संयोगान्तलोपस्य न#आसिद्धत्वम्। पचन्नित्यादौ त्वसिद्धत्वमेवेति बहुलग्रहणाल्लभ्यत इत्यर्थः। ननु त्रादेशपक्षे मघवन्नित्येवास्तु, बहुलग्रहणाल्लभ्यत इत्यर्थः। ननु त्रादेशपक्षे मघवन्नित्येवास्तु, बहुलग्रहणेन संयोगान्तलोपस्यासिद्धत्वाऽभावकल्पनायां प्रमाणाऽभावात्। वेदे तु यज्ञेन मघवानित्यादौ दीर्घश्छान्दसो भविष्यतीत्यत आह-तथा चेति। त्रादेशपक्षे संयोगान्तलोपस्याऽसिद्धत्वाभावमब्युपगम्यैवेत्यर्थः। निपातनादिति। कनि प्रत्ययस्य,अवुगागमस्य, घत्वस्य इति त्रयाणां निपातनादित्यर्थः। तथा च नान्तो मघवन्शब्दः सिध्यतीति भावः। मघशब्दादिति। धनपर्यायादित्यर्थः। मघो धनमस्यास्तीत्यर्थे मतुपि"मादुपधायाश्चे"ति वत्वे तान्तो मघवच्छब्दः सिद्ध इति भावः। भाषायामपीति। लोके छन्दसि च इत्यर्थः। शब्दद्वयेति। मघवन्शब्दो मघवच्छब्दश्चेति शब्दद्वयं "मघवा बहुल"मित्यस्य फलम्। तस्य सिद्धिमाश्रित्येत्यर्थः। आकर इति। "केशाद्वः" इति सूत्रे कैयटग्रन्थ इत्यर्थः। तत्र ह्रेवमुक्तं"-"मघवा बहुल"मित्येतन्न कर्तव्यम्। "()आन्नुक्ष"न्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वस्य सिद्धत्वा"दिति। त्रादेशपक्षे संयोगान्तलोपस्याऽसिद्धत्वाद्दीर्घाऽभावाश्रयणे मघवन्निति रूपम्। मतुपि तु "अत्वसन्तस्ये"ति दीर्घे मघवानिति रूपमिति रूपभेदापत्त्या तदसङ्गतिः स्पष्टैवेति भावः। वस्तुतस्तु कन्यन्तस्य प्रत्ययस्वरेणान्तोदात्तत्वम्, मतुपि तु "ह्यस्वनुड्भ्यां मतु"विति मतुबुदात्तत्वस्य " न गो()आ"न्निति प्रतिषेधे सति पित्त्वादनुदात्तत्वे घकारादकारस्य फिट्स्वरेण उदात्तत्वमिति फलभेदात् कैयटग्रन्थश्चिन्त्य एव। मघवानिति दीर्घः शिष्टसंमतश्चेत्याह--हविरिति। मखेषु यज्ञेषु निश्शङ्कः असौ मघवान् हविर्जक्षिति=भक्षयतीत्यर्थः। मघवन्तावित्यादि। सुटि त्रादेशो नुम्चेति भावः। शसादौ त्रादेशो, नतु नुम्, अरुआवनामस्थानत्वादित्यभिप्रेत्याह--मघवत इति। मघवद्भ्यामित्यादि। त्रादेशे "स्वादिषु" इति पदत्वाज्जश्त्वम्। सुपि त्रादेशे जश्त्वे चर्त्वे मघवत्सु। तृत्वाऽभावे मघवेति। नान्तात्सौ राजवद्रूपमिति भावः। ननु "मघवा बहुल"मिति सूत्रे "अर्वणस्तृ मघोनश्च न शिष्यं छान्दसं हि तत्" इति वार्तिकभाष्यकैयटेषु मघवन्शब्दस्य छन्दोमात्र विषयत्वावगमात्कथं तस्य लोके प्रयोग इत्यत आह--छन्दसीवनिपावित्यादि। "तदस्यास्त्यस्मिन्निति मतु वित्यधिकारे "केशाद्वोऽन्यतरस्या"मिति सूत्रे"छन्दसीवनिपौ चे"ति वार्तिकम्। छन्दसि ईवनिपौ च वक्तव्यौ, वश्च मतुप्च। "रथीरभून्मुद्घलानी गविष्टौ, सुमङ्गलीरियं वधूः, ऋतवानं मघवानमीमहे" इति तत्र भाष्यम्। तत्र वनिप्प्रत्ययान्ते मघवन्शब्दे प्रत्ययस्वरेण वकारादकार उदात्तः। मघशब्दः फिट्स्वरेणान्तोदात्तः। "अनुदात्तं पदमेकवर्ज"मिति शिष्टस्वरेण मकारादकारो, वकारादकारश्चानुदात्तः। "उदात्तादनुदात्तस्य स्वरितः" इति वकारादकारः स्वरितः। तथाच मघवन्निति रूपं मध्योक्षतं संपद्यते। एतादृशमघवन्शब्दविषयकं छान्दसत्वाभिधानम्। कन्यन्ते तु मघवन्शब्दे वकारादकारः प्रत्ययस्वरेणोदात्तः। शिष्टस्वरेण मकारादकारो घकारादकारश्चाऽनुदात्तौ। तथा च मघवन्निति रूपमन्तोदात्तमिति स्थितिः। एतादृशमघवन्शब्दस्तु लोकवेदसाधारणः, तस्य छन्दोमात्रविषयत्वे प्रमाणाऽभावात्। किं च "वनो र चे"ति सूत्रे भाष्यं-"मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिक"मिति। अयमपि मघवन्शब्दः फिट्स्वरेणान्तोदात्तो लोकवेदसाधारण एव, छन्दोमात्रविषयत्वे प्रमाणाऽभावादिति भावः। शब्दरत्ने तु "न शिष्टं छान्दसं हि तत्" इत्युदाह्मतभाष्यवार्तिकयोः सामान्यप्रवृत्तयोर्मध्योदात्तमात्रविषयसङ्कोचे प्रमाण#ं न किञ्चिदस्ति। कविप्रयोगाणां तु "त तस्थिवांसंनगरोपकण्ठे" इत्यादिविषये बहुशः प्रमाददर्शनात्तेषामपि नार्षवचनसङ्कोचकता। अतो मघवन्शब्दस्य सर्वस्यापि लोकेऽसाधुत्वमेवेति प्रपञ्चितम्। सुटि राजवदिति। तृत्वाऽभावपक्षे नान्तत्वाद्दीर्घ इति भावः।

तत्त्व-बोधिनी
उगिदचां सर्वनामस्थानेऽधातोः ३२२, ७।१।७०

मघववन्शब्दस्येति। अधातोरिति। अधातुभूतपूर्वस्यापूत्यर्थः। अञ्चतिग्रहणं हि नियमार्थम्,--"उगितो धातोश्चेद्भवति तह्र्रञ्चतेरेवे"तचि। एवञ्च गोमानिवाचरति"गोमा"नित्यदौ संप्रति धातुत्वेऽपि विध्यर्थमधातुग्रहम्। एतच्च मूल एव स्फूटूभविष्यति। नन्वञ्चतिग्रहणमौपदेशिकधातोश्चेदुगित्कार्यं तह्र्रञ्चतेरेवेति व्याख्याय अधातुग्रहणं त्यज्यतामिति चेत्। अत्र नव्याः--नुन्मात्रविषयको नायं नियमो,----"धातोस्चेदुगित्कार्यं तह्र्रञ्चतेरेवेति नियम्यत। तेनेह न,---उखारुआत्"--इति उगितश्चे ति सूत्रे वक्ष्यमाणत्वात्। ततश्च यद्यौपदेशिकधातोश्चेदुगित्कार्यमिति व्याख्यायेत तर्हि पूर्वोक्ते"गोमा"नित्यादौ स्त्रियम् "उगिश्चे"ति ङीप्प्रसज्येत। आचारक्विबन्तस्यौपदेशिकधातुत्वाऽभावात्। न चेष्टापत्तिः,--अधातोग्र्रहणादेव सूत्रकृता तत्र ङीब्नेष्यत इत्यनुमानादिति दिक्। ननु नलोपिनोऽञ्चतेरेव नुमागमः स्यान्न तु पूजार्थस्य नकारवतोऽञ्चेतेरित्येवमर्थम् "अचा"मिति ग्रहणस्य सार्थकत्वात्कथमेतस्य सामान्यनियमार्थतेति चेदुच्यते--"अचा"मित्यत्र नलोपोऽविवक्षितः। तथाच पूर्वोक्तनियमार्थता भाष्यकैयटटाद्युक्ता सङ्गच्छत एव। पूजार्थस्याऽञ्चेतेर्नुम#इ सत्यपि "नश्चापदान्तस्ये"ति सूत्रे जातिपक्षमाश्रित्य नत्वजातेरनुस्वारविधानेन समीहितरूपसिद्धेः। व्यक्तिपक्षे त्वनुस्वारस्य शर्षु पठितत्वादनुस्वारे परे नुमोऽनुस्वारे सति अनुस्वारद्वयवद्रूपमिष्यते। "अनचि चे"ति द्वित्बेन तद्रूपस्य तवापि मते दुर्वारत्वात्। न च भवन्मते द्वित्वेनाऽनुस्वारत्रयं स्यादिति शङ्क्यम्, "झरो झरी"ति लोपेन निवारयितुं शक्यत्वात्।लोपऽभावापक्षे त्रयाणां श्रवणं स्यादिति चेद्भष्यकैयटाद्युक्तनियमानुरोधेन तत्स्वीकारे बाधकाभावात्। इष्टानुरोधेन जातिपक्ष एवात्राश्रयणीयः। नुमागमः स्यादिति। "इदितो नुम् धातो"रित्यतो नुमनुवर्तत इति भावः। ननु "कुर्व"न्नित्यादाविव संयोगान्तलोपस्याऽसिद्धत्वेन नान्तत्वाऽभावाद्दीर्घत्वं न स्यादित्याशङ्क्याह--इह दीर्घे कर्तव्य इति। बहुलग्रहणादिति। क्वचिदन्यदेवेत्यर्थकादित्यर्थः। बहूनार्थान् लातीति बहुलम्। "आतोऽनुपसर्गे"इति कर्मण्युपपदे कः। ()आन्नुक्षन्निति। "()आन्नुक्षन्पषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमान्वि()आप्सन्परिज्मन्मातरि()आन्मघव"न्नित्युणादिसूत्रेणेत्यर्थः। निपातनादिति। महेर्हकारस्य घकारोऽवुगागमः कनिप्रत्ययश्चेत्यस्य त्रितयस्य निपातनादित्यर्थः। प्रत्याख्यातमाकर इति। एवं च फलभेदे त्रादेशस्य प्रत्यख्यानाष()संभवादादेशपक्षेऽपि दीर्घो भाष्यादिसंमत एवेति बहुलग्रहणात्संयोगान्तलोपस्य नाऽसिद्धत्वमित्युक्तम्। यत्त्वाहुः--मतुप्पक्षेऽपि छान्दसत्वान्न दीर्घ इत्येव भाष्याशय इति, तन्न,मतुबन्तस्य छान्दसत्वे मानाऽभावादुदाह्मतभट्टिप्रयोगविरोधाच्चेति दिक्। छन्दसीवनिपाविति। "मन्वर्थे ईवनिपौ स्तः छन्दसी"ति वार्तिकार्थः। "सुमङ्गलीरियं वधूः""मघवानमीमहे"इत्युदाहरिष्यति वैदिकप्रक्रियायाम्। अन्तोदात्तंत्विति। यद्यपि "श्रन्नुक्ष"न्नित्यत्र कनिन्नन्ता एते" इत्युज्ज्वलदत्तादिग्रन्थपर्यालोचनयाऽ‌ऽद्युदात्तत्वं लभ्यते, तथापि "उक्षा समुद्रो अरुणः सुपर्णः""पूषा त्वेतो नयतु,""अग्निर्मूर्धादिवः"इत्यादौ तत्सूत्रोपात्तानामुक्षादीनामन्तोदात्तत्वस्यनिर्विवादतया कनिप्रत्यय एवोचित इति भावः।