पूर्वम्: ७।१।७०
अनन्तरम्: ७।१।७२
 
सूत्रम्
युजेरसमासे॥ ७।१।७१
काशिका-वृत्तिः
युजेरसमासे ७।१।७१

युजेरसमासे सर्वनामस्थाने परतो नुमागमो भवति। युङ्, युञ्जौ, युञ्जः। असमासे इति किम्? अश्वयुक्, अश्वयुजौ, अश्वयुजः। युजेः इति इकारनिर्देशात् युज समाधौ इत्यस्य ग्रहणं न भवति। युजमापन्ना ऋषयः।
न्यासः
युजेरसमासे। , ७।१।७१

"युङ, युञ्जौ, युञ्जः" इति। पूर्ववत्? क्विन्नादि। "अ()आयुक्()" इति। अ()आं युनक्तीति "सत्सूद्विष" ३।२।६१ इत्यादिना क्विप्()। कथं युजेर्नुब्युच्यमाने समासेऽपि स्यात्()? तदन्तविधिना। कथमत्र तदन्तविधिः? एतेदेव ज्ञापकम्()--अस्तीह तदन्तविधिरिति। उक्तञ्च--"अङ्गाधिकारे तस्य तदुत्तरपदस्य" (पु।प।वृ।८५) इति वचनात्()। "युजेः" इत्यादि। इकारेण निर्देशो ह्रेवमर्थः क्रियते--यस्य युजेरिकारोऽनुबन्धस्तस्य ग्रहणं यथा स्यात्(), अन्यस्य मा भूदिति। तेन "युज समाधौ" (धा।पा।११७७) इत्यस्य ग्रहमं न भवति, न हि तस्येकारोऽनुबन्धोऽस्ति। "युजम्()" इति। सम्पदादित्वात्क्विप्()। "आपन्नाः" इति। प्राप्ता इत्यर्थः॥
न्यासः
तिङि चोदात्तवति। , ७।१।७१

"यत्प्रपचति यत्प्रकरोति" [यत्? करोति--मुद्रितकाशिकापाठः] इति। "यद्()वृत्तान्नित्यम्()" (८।१।६६) इति निघातप्रतिषेधे कृते उभयमप्येतत्? तिङन्तमुदात्तवद्भवति--एकं धातुस्वरेण, अपरं प्रत्ययस्वरेण। इहेदं तिङग्रहणमेवमर्थं क्रियते--तिङ्युदात्तवति यथा स्यात्(), "आमन्द्रैरिन्द्र हरिभिर्याहि" इत्यत्र मन्द्रशब्दे मा भूदित्येवमर्थम्(); एतच्चाप्रयोजनम्(), यदि स तत्र स्यात्? पूर्वसूत्रे गतावित्येतदपार्थकं स्यात्()। अस्य हि तत्र मन्द्रशब्दे मा भूदित्येवमर्थम्(); एतच्चाप्रयोजनम्(), यदि स ततर स्यात्? पूर्वसूत्रे गतावित्येतदपार्थकं स्यात्()। अस्य हि तत्र मन्द्रशब्दे परतो मा भूदित्येतदेव अयोजनं व्यवस्थितम्()। न चान्यत्? तिङ्ग्रहणस्येह व्यवच्छेद्यमस्ति। तस्माद्व्यवच्छेद्याभावान्न कत्र्तव्यमेव तिङ्ग्रहणम्()? इत्येतच्चोद्यमपाकर्त्तुमाह--"तिङ्ग्रहणम्()" इत्यादि। परिमाणम्()=परिच्छेदः। तदुदात्तवतो यथा स्यादित्येवमर्थं तिङ्ग्रहणम्()। किं पनः स्यात्(), यदि परिमाणार्थं तिङ्ग्रहणं न क्रियेत? इत्यत आह--"अन्यथा हि" इत्यादि। यदि हि तिङीति नोप्येत तदोदात्तवतीत्येतावत्युच्यमाने यद्युदात्तवतीति सामान्येनोच्येत, तथापि प्रत्यासत्तेर्यं प्रति गतिस्तस्यव निघातो विज्ञायेत। ततश्च धातावेवोदात्तवति स्यात्()--यत्? प्रवचतीत्यादौ, प्रत्यये तु यत्? प्रकरोतीत्यत्र न स्यात्()। विकरणो ह्रत्रोदात्तवान्? न धातुः। ननु चोदात्तोऽत्र प्रत्यय#ः, नोदात्तवान्(), न हि प्रत्ययादन्यः स उदात्तोऽस्ति येन प्रत्यय उदात्तवान्? स्यात्()? नैतत्? सारम्(); यथा स्यात्? ["नास्ति--कांउ।पुस्तके] यत्राद्युदात्तत्वमस्य व्यपदेशिवद्भावेन भवति तथोदात्तत्वमपि स्यादेव। स्यादेतत्()। प्रत्ययमपि प्रति प्रादेर्गतिसंज्ञा, ततो नायं दोषः? इत्यत आह--"यत्क्रियायुक्ताः" इत्यादि। इतिकरणो हेतौ। यस्मात्? यत्क्रियायुक्ताः प्रादयस्तं प्रति तेषां गत्युपसर्गसंज्ञा, तस्माद्धातुमेव प्रति गतिसंज्ञा, न प्रत्ययम्()। यदि हि प्रत्ययोऽपि धातुवत्? क्रियावचन स्यात्(), तमपि प्रति प्रादयो गतिसंज्ञां प्रपद्येरन्()। न चासौ क्रियावचनः, तस्मान्न प्रत्ययं प्रति प्रादीनां गतिसंज्ञाः। "आमन्ते तर्हि" इत्यादि। प्रपचतितरामिति "तिङश्च" ५।३।५६ इति तरप्(), तदन्तात्? "किमेत्तिङ्()" ५।४।११ इत्यादिनामि कृते सत्यामन्तमेतद्भवति। न तिङन्तम्()। ततो यदि तिङि चेति तिङग्रहणं न क्रियेत, तस्मिन्नामन्ते परतो गतिनिघातो न प्राप्नोति। अत्र" इत्यादि उत्तरम्()। अत्र केचित्? "कुगतिप्रादयः" २।२।१८ इत्यामन्तेन गतेः समासं कुर्वन्ति, केचिन्न कुर्वन्त्येवेति। तत्र त्रयः पक्षाः। तत्र य आमन्तेन समासं कुर्वन्ति, तेषां "तत्पुरुष तुल्यार्थतूतीया" ६।२।२ इत्यादिना पूर्वपदस्याव्ययस्य प्रकृतिस्वरे सति शेषस्य "अनुदात्तं पदमेकवर्जम्()" ६।१।१५२ इत्यनुदात्तत्वेन भवितव्यम्()। अतोऽक्रियमाणेऽपि तिङ्ग्रहणे परमामन्तमुदात्तं न भवतीति गतिनिघातो नैव सिध्यति। ततो नायं दोषस्तिङ्ग्रहणे सत्येव, किं तर्हि? असत्यपि। तेन तिङ्ग्रहणे क्रियमाण एव चोदयितुं युक्तमित्यभिप्रायः। "अथ" इत्यादि। अथ तरबन्तेन गतिसमासः क्रियते? एवमप्युक्तमेव चोद्यम्()। तथा हि--"तरबन्तस्य गतिसमासः" इत्यस्मिन्? पक्षे प्राग्गतिसमासे कृते पूर्वपदस्य च प्रकृतिस्वरत्वे पश्चादामा भवितव्यम्(), तथा च सतिशिष्टत्वादाम एवोदात्तत्वे सति गतेः "अनुदात्तं पदेमेकवर्जम्()" ६।१।१५२ इत्यनेनैवानुदात्तत्वं सिद्धम्(), अतो नार्थं एतत्सूत्रविहितेन गतिनिघातेनेति। वाभावे वाह चोदकः--"येषां तु" इत्यादि। "गतिकारकीपपदानां कृद्भिः सह समासवचनं प्राक्? सुबुत्पत्तेः" (व्या।प।१३८) इत्यत्र दर्शनद्वयम्()--"गत्यादयोऽविशेषेण समस्यन्ते कृद्भिः सह सह प्राक्सुबुत्पत्तेः" इत्येकं दर्शनम्(); "गत्यादयः कृद्भिरेव समस्यन्ते, नान्यप्रत्ययान्तैः, तैश्च प्राक्सुबुत्पत्तेः" इति द्वितीयम्()। तत्र येषां पूर्वं दर्शनं तान्प्रत्यामन्ते तर्हि न प्राप्नोतीति सत्यमयुक्तमेतच्चोद्यम्()। येषां तु द्वितीयं दर्शनं तान्? प्रत्युरक्तमेव। तथा हि--तेषामेवंविधविषये प्रपचतितरामित्येवंप्रकारे यत्र कृत्प्रयोगो नास्ति तत्र समासेन नैव भवितव्यम्()। अथ पृथक्स्वरः प्राप्नोति--प्रशब्दस्य "उपसर्गाश्चाभिवर्जम्()" (फि।सू।४।८१) इत्याद्युदात्तत्वं प्राप्नोति, पचतितरामित्यत्रापि प्रत्ययस्वरेणाम उदात्तत्वम्()? तत्र पृथक्स्वरप्राप्तौ सत्यामनेन निघातेन प्रयोजनम्()। एष च गतिनिघातस्तिङग्रहणे क्रियमाणे सत्यामन्तेन प्राप्नोतीति भावः। इतर आह--"तदर्थ यत्नः कत्र्तव्यः" इति। स पुनरत्र व्याख्यानविशेषः। इह चकारः क्रियते, स चानुक्तसमुच्चयार्थः, तेनामन्तेऽपि निघातो भविष्यतीति। "प्रपचति, प्रकरोति" इति। "तिङङतिङ" ८।१।२८ इति निघातादुभयमप्येतदुदात्तवन्न भवति॥
बाल-मनोरमा
युजेरसमासे , ७।१।७१

युजेरसमासे। "उगिदचा"मित्यतः सर्वनामस्थान इत्यनुवर्तते। "इदितो नुम् धातोः" इत्यतो नुमिति च। तदाह--नुम्स्यादित्यादिना। युन् ज् इति स्थिते प्रक्रियां दर्शयति--सुलोप इति। परत्वात्पूर्वं नुमि ततो हल्ङ्यादिलोप इति भावः। संयोगान्तलोप इति। "जकारस्ये"ति शेषः।

बाल-मनोरमा
शप्श्योनोर्नित्यम् १११, ७।१।७१

औङः श्याम् "आच्छीनद्योः" इति विकल्पे प्राप्त--शप्श्यनोर्नित्यम्। "आच्छीनद्योर्नुम्" इत्यनुवर्तते। "नाभ्यस्ताच्छतुः" इत्यतः शतुरित्यनुवर्तते। अवयव इति चाध्याह्यियते। तदाह--शप्श्यनोरादित्यादिना। पचन्ती इति। औङः श्यां नुमि रूपम्। पचन्तीति। जश्शसोः शौ सर्वनामस्थानत्वान्नुमि रूपम्। दीव्यदिति। दिवुधातोर्लटः शतरि श्यन्। "हलि चे"ति दीर्घः दीव्यच्छब्दात्स्वमोर्लुगिति भावः। दीव्यन्ती इति। औङः श्यां नुमि रूपम्। "शप्श्यनोः" इति नित्यं नुमिति भावः। दीव्यन्तीति। जश्शसोः शौ सर्वनामस्थानत्वान्नुमिति भावः। इति तान्ताः। अथ पान्ताः। स्वबिति। सु=शोभनाः आपो यस्मिन् सरसीति बहुव्रीहिः। "ऋक्पूरब्धूः" इति समासान्तस्तु न भवति, " न पूजनात्" इति निषेधात्। "द्व्यन्तरुपसर्गेभ्योऽप ई"दिति न भवति, तत्र "अप" इति कृतसमासान्तग्रहणात्। स्वप्शब्दात्स्वमोर्लुगिति भावः। स्वपी इति। औङः श्यां रूपम्। असर्वनामस्थानत्वान्न नुमिति भावः। दीव्यन्तीति। जश्शसोः शौ सर्वनामस्थानत्वान्नुमिति भावः। इति तान्ताः। अथ पान्ताः। स्वबिति। सु=शोभनाः आपो यस्मिन् सरसीति बहुव्रीहिः। "ऋक्पूरब्धूः" इति समासान्तस्त#उ न भवति, "न पूजनात्" इति निषेधात्। "द्व्यन्तरूपसर्गेभ्योऽप ई"दिति न भवति, तत्र "अप" इति कृतसमासान्तग्रहणात्। स्वप्शब्दात्स्वमोर्लुगिति भावः। स्वपी इति। औङः श्यां रूपम्। असर्वनामस्थानत्वान्न नुमिति भावः। दीव्यन्तीति। जश्शसोः शौ स्वप् इ इति स्थिते, अप्तृन्" इति दीर्घे, झलन्तलक्षङणनुमि, अनुस्वारे, परसवर्णे, स्वाम्पीति वक्ष्यते। तत्र "अप्तृन्" इति दीर्घं बाधित्वा परत्वान्नित्यत्वाच्च नुमि कृते।ञकारस्य उपधात्वाऽभावात्कथं दीर्घ इत्यत आह--नित्यादित्यादि। प्रतिपदोक्तत्वादिति। "अपतृन्" इति दीर्घस्य अप्शब्दमुच्चार्य विहितत्वादित्यर्थः। ननु निरवकाशत्वं प्रतिपदोक्तत्वमिति "छदिरुपधिबलेर्ढ"ञिति सूत्रे "शेषाद्विभाषे"ति सूत्रे च भाष्ये स्थितम्। "अप्तृन्" इति दीर्घस्तु न निरवकाशः, "आप" इत्यत्र सावकाशत्वात्। अतोऽत्र नित्यत्वात्परत्वाच्चा पूर्वं नुमागमे कथं दीर्घ इत्याशङ्क्य इष्टापत्त्या परिहरति--निरवकाशत्वमित्यादि। स्वम्पीति। दीर्घं बाधित्वा नुमि अनुस्वारपरसवर्णाविति भावः। "केचित्तु "अपतृन्" इति दीर्घस्य निरवकाशत्वरूपप्रतिपदोक्तत्वाऽभावेऽपि प्रतिपदविधित्वेन शीघ्रोपस्थितिकतया प्रथमं प्रवृत्तौ "स्वाम्पो"त्येव युक्तमित्याहुः। इति पान्ताः। अथ षान्ताः। धनुश्शब्दं व्युत्पादयति--धनेरिति। "जनेरुसिः" इत्यत उसिरित्यनुवर्तमाने "अर्तिपृ()वपियजितनिधनितपिभ्यो नित्" इत्यौणादिकसूत्रेण "धन धान्ये" इत्यस्माद्धातोरुस्प्रत्यय इत्यर्थः। प्रत्ययावयत्वात्सस्य षत्वे धनुष्शब्दः। तस्मात्स्वमोर्लुक्। तत्र षकारस्य कथं रुत्वमित्यत आह-षत्वस्येति। धनुरिति। "र्वोरुपधायाः" इति दीर्घस्तु न, रेफान्तस्याधातुत्वात्। धनूंषीति। "नस्चे"त्यनुस्वारः। एवं चक्षुर्हविरादय इति। "चक्षेश्शिच्च" इत्युसिः। शित्त्वेन सार्वधातुकत्वात् ख्शाञादेशो न "अर्चिशुचिहुसृपि" इत्यादिना हुधातोरिस्, "सार्वधातुकार्धधातुकयोः" इति गुणः, अवादेशः। आदिना सर्पिरादयो ग्राह्राः। पिपठिषतेः क्विबिति। "पठ व्यक्तायां वाचि" सन्, इट् द्वित्वं, हलादि शेषः , अभ्यासाऽकारस्य इत्त्वं, प्रत्ययावयवत्वात् षत्वं, "सनाद्यन्ताः" इति धातुत्वम्। पिपठिष इत्यस्मात् क्विप् अतो लोपः, पिपठिष् इत्यस्मात् स्वमोर्लुक्, षत्वस्याऽसिद्धत्वाद्रुत्वम्। एतावत्सिद्धवत्कृत्य आह--र्वोरिति दीर्घे इति। पिपठिषी इति। औङः श्यां रूपम्। सौ विशेषमाह-अल्ल#ओपस्येति। बेभिच्छब्दनिरूपणे व्याख्यातमेतदनुपदमेव प्राक्। इति षान्तां। अथ सान्ताः। पय इति। "पयः क्षीरं पयोऽम्बु चे"त्यमरः। पयांसीति। शौ नुम्। "सान्ते"ति दीर्घः, अनुस्वार इति भावः। पयोभ्यामिति। रुत्वे, "हशि चे"त्युत्त्वे, गुण इति भावः।

सुपुमिति। सु=शोभनः पुमान् यस्य गृहस्येति बहुव्रीहौ, सुपुंस्()शब्दात्स्वमोर्लुक्, संयोगान्तलोपः। संपुंसी इति। औङः श्यां रूपम्। सुपुमांसीति। शेःसर्वनामस्थानत्वात् "पुसोऽसुङ्" इत्यसुङ्। सुपुम्()स् इ इति स्थिते, झलन्तलक्षणनुमि, "सान्तमहतः" इति दीर्घः , "नश्चे"त्यनुस्वारश्चेति भावः। अद इति। अदस्()शब्दात् स्वमोर्लुक्, रुत्वविसर्गौ, सान्तत्वान्न मुत्वम्, लुका लुप्तत्वात्त्यदाद्यत्वं नेति भावः। औङादावाह--विभक्तिकार्यमिति। त्यदाद्यत्वादिकमित्यर्थः। उत्वमत्वे इति। "पूर्वत्रासिद्धिमि"ति विभक्तिकार्योत्तरमुत्वमत्वे इत्यर्थः। अमू इति। औङः शी, त्यदाद्यत्वं, पररूपं, गुणः, ऊत्वमत्वे इति भावः। अमूनीति। ञ्जश्शसोश्शिः, त्यदाद्यत्वं, पररूपम्। अजन्तत्वात् नुम्, उपधादीर्घः, ऊत्वमत्वे इति भावः। इति सान्ताः।

इति बालमनोरमायां हलन्ता नपुंसकलिङ्गाः।

-------------------------------

अथ हल्सन्धिप्रकरणम्।

तत्त्व-बोधिनी
युजेरसमासे ३३६, ७।१।७१

युजेरसमासे। "उगिदचा"मित्यतः "सर्वनामस्थाने"इत्यनुवर्तते। "इदितो नुम् धातो"रित्यतो "नुम्"चेत्याशयेनाह--सर्वमास्थाने नुम्स्यादिति।