पूर्वम्: ७।१।७२
अनन्तरम्: ७।१।७४
 
सूत्रम्
इकोऽचि विभक्तौ॥ ७।१।७३
काशिका-वृत्तिः
इको ऽचि विभक्तौ ७।१।७३

इगन्तस्य नपुंसकस्य अङ्गस्य अजादौ विभक्तौ नुमागमो भवति। त्रपुणी। जतुनी। तुम्बुरुणी। त्रपुणे। जतुने। तुम्बुरुणे। इकः इति किम्? कुण्डे। पीठे। अचि इति किम्? उत्तरार्थम्। यद्येवम्, तत्र एव कर्तव्यम्? इह तु करणस्य एतत् प्रयोजनम्, हे त्रपो इत्यत्र नुम् मा भूत्, इति, न ङिसम्बुद्ध्योः ८।२।८ इति नलोपप्रतिषेधः स्यात्। ननु च न लुमताङ्गस्य १।१।६२ इति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिरेव न अस्ति? एतदेव अज्ग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधो ऽत्र न भवति इति। तथा च सम्बुद्धिगुणः क्रियते। विभक्तौ इति किं? तौम्बुरवं चूर्णम्। इको ऽचि व्यञ्जने मा भूदस्तु लोपः स्वरः कथम्। स्वरो वै श्रूयमाणे ऽपि लुप्ते किं न भविष्यति। रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि। नुड् वाच्य उत्तरार्थं तु इह किञ्चित् त्रपो इति।
लघु-सिद्धान्त-कौमुदी
इकोऽचि विभक्तौ २४६, ७।१।७३

इगन्तस्य क्लीबस्य नुमचि विभक्तौ। वारिणी। वारीणि। न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः। हे वारे, हे वारि। घेर्ङितीति गुणे प्राप्ते (वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन)। वारिणे। वारिणः। वारिणोः। नुमचिरेति नुट्। वारीणाम्। वारिणि। हलादौ हरिवत्॥
न्यासः
इकोऽचि विभक्तौ। , ७।१।७३

"विभक्तौ" इति वचनात्? "सर्वनामस्थाने" ७।१।७० इति निवृत्तम्()। "अचीति किम्()" इति। एवं मन्यते--त्रपुभ्याम्(), त्रपुभिरित्यत्र व्यञ्जनादौ मा भूदित्येवमर्थमज्ग्रहणं क्रियते, एतच्चाप्रयोजनम्(); अस्त्वन्न नुम्(), "नलोपः प्रातिपदिकान्तस्य" ८।२।७ इति लोपो भविष्यति। इतरो विदिताभिप्राय आह--"उत्तरार्थम्()" इति। "अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः" ७।१।७५ इत्यजादौ यथा स्यात्(), इह मा भूत्()--अस्थिभ्याम्(), अस्थिभिरिति, एवमर्थमज्ग्रहणम्()। इहासय करणस्य यत्प्रयोजनं तन्मया पृष्टम्(), अतस्तदेव कथ्यताम्()? इत्यभिप्रायेणाह--"यद्येवम्()" इत्यादि। इतरो विदिताभिप्राय आह--"इह तु करणस्य" इत्यादि। त्रपुशब्दात्? सम्बोधने प्रथमैकवचने कृते यद्यचीति नोच्येत, तदात्रापि नुम्? स्यात्(), तदत्र नुम्? मा भूदित्येवमर्थमचीत्युच्यते। स्यादेतत्()--भवतु नाम नुम्(), तस्य "स्वमोर्नपुंसकात्()" ७।१।२३ इति सोर्लुकि कृते "नलोपः प्रातिपदिकान्तस्य" (८।२।७) इति नलोपो भविष्यति? इत्याह--"न ङिसम्बुद्ध्योः इत्यादि। "ननु च" इत्यादि। एवकारोऽत्र भिन्नक्रमः प्रतिषेधानन्तरं द्रष्टव्यः। स चौपचारिकमपि दिभक्तेरस्तित्वम्? "न लुमताङ्गस्य" १।१।६२ इति प्रतिषेधान्नास्तीति प्रतिपादयति। द्विविधं हि विभक्तोरस्तित्वम्()--मुख्यम्(), औपचारिकञ्च। तत्र मुख्यं श्रूयमाणाया विभक्तेर्भवति, इतरत्? तु लुप्ताया अपि। कार्यस्यास्तित्वाद्विभक्तेरप्युपचारेणास्तित्वमुच्यते, यथा--अस्त्यतीतं कर्मेति तत्रातीतेन कर्मणा यदाहितं फलदानसामथ्र्यं तस्यस्तित्वात्? तत्? कर्मान्तीत्युच्यते। तदिह "स्वमोर्नपुंसकात्()" ७।१।२६ इति विभक्तेर्लप्तत्वान्मुख्यं तावदस्तित्वं नास्ति। "न लुमताङ्गस्य" १।१।६२ इति प्रत्ययलक्षणप्रतिषेधादौपचारिकमपि नास्त्वेव। तत्र विभक्तावुच्यमानो नुम्? कः प्रसङ्गो यः सर्वथैवासत्यां विभक्तौ हे त्रपो इत्यत्र स्यात्()! नैव प्राप्नोति; तस्मान्नैतदज्ग्रहणस्य प्रयोजनम्()। "एतदेव" इत्यादि। यदि ह्रत्र प्रत्ययलोपलक्षमप्रतिषेधः स्यात्(), अज्ग्रहणमनर्थकं स्यात्(), कुतश्च, तस्मादेतदेवाज्ग्रहणं ज्ञापयति--प्रत्ययलोपलक्षणप्रतिषेधोऽत्रेगन्ते नपुंसके सम्बुद्धिविषये नास्तीति। "तथा च" इत्यादिना ज्ञापकस्य प्रयोजनमाह। सम्बुद्धिविषयो गणः "सम्बुद्धौ च" ७।३।१०६ इति वत्र्तमाने यः "ह्यस्वस्य गुणः" ७।३।१०८ इत्यनेन गुणः स वेदितव्यः। "तौम्बुरवं चूर्णम्()" इति। तुम्()बुरुणो विकारः "औरञ्? ४।२।७०, "ओर्गुणः" ६।४।१४६। क्वचित्()--"इकोऽचि व्यञ्जने मा भूवस्तु लोपः स्वरः कथम्()" इत्यादिकं श्लोकद्वयं पठ()ते। "इकोऽचि विभक्तौ" ७।१।७३ इत्यत्राचीति किमर्थमुच्यते, न "इको विभक्तौ" इत्येवोच्येत? प्रयोजनमाह--"व्यञ्जने मा भूत्()" इति। प्रकरणान्नुमिति विज्ञायते। त्रपुभ्याम्, त्रपुभिरित्यत्र व्यञ्जनादौ मा भूदित्येवर्थमज्ग्रहणं क्रियते। यद्येवम्(), नार्थस्तेन, व्यञ्जनादौ नुमस्तु, न च तस्य श्रवणं प्रसज्यते; यस्मात्? "नलोपः प्रातपदिकान्तस्य" ८।२।७ इति नलोपो भविष्यति। पञ्चत्रपुभ्याम्(), पञ्चत्रपुभिरित्यत्र कथं स्वरः? पञ्चभिस्त्रपुभिः क्रीताभ्यां क्रीतैर्वेति "तद्धितार्थोत्तरपदसमाहारे च" २।१।५० इति तद्धितार्थे समास; "संख्यापूर्वो द्विगुः"२।१।५१ इति द्विगुसंज्ञा, "आर्हादगोपुच्छ" ५।१।१९ इत्यादिना ठक्(), तस्य "अध्यद्र्धपूर्वद्विगोर्लुगसंज्ञायाम्()" ५।१।२८ इति लुक्(), ततो विभक्तो नुम्(), नकारलोपः, तस्य "नलोपः सुप्सवरसंज्ञातुग्विधिषु कृति" (८।२।२।) इत्यसिद्धत्वात्? "इगन्तकालकपालभगालशरावेषु द्विगौ" ६।२।२९ इत्यनेन पूर्वपदप्रकृतिस्वरो न प्राप्नोति; अनिगन्तत्वात्? "भ्रः संख्यायाः" (फि।सू।२।२८) इत्याद्युदात्तत्वं स्यात्()। "भ्रः" इति नकाररेफान्तयोग्रहणमिति। "खरो षै" इत्यादि। वैशब्दोऽक्षमायाम्()। पञ्चत्रपुण इत्यत्र श्रूयमाणे नुमि स्वरो भवति। "लुप्ते किं न भविष्यति"? (इति)। भविष्यत्येवेत्यर्थः। किं पुनः कारणं श्रूयमाणे नुमि स्वरो भवति? स्वरविधौ व्यञ्जनस्यादिद्यमानत्वात्()। अथ वा--समुदायभक्तो ह्रसौ नुम्? नोत्सतेऽवयवस्य त्रपुशब्दस्येगन्ततां विहिन्तुम्()। इह तर्हि रायमतिक्रान्ताभ्यां ब्राआहृणकुलाभ्याम्()--अतिराभ्यामिति "कुगतिप्रादयः" २।२।१८ इति समासे कृते "ह्यस्वो नपुंसके प्रातिपदिकस्य" (१।२।४७) इति ह्यस्वत्वे च कृते यदि व्यञ्जनादौ नुम्? स्यात्(), तदा तस्य लोपे कृते नलोपस्यासिद्धत्वात्? "रायो हलि" ७।२।८५ इति हलादावुच्यमानमात्वं न प्राप्नोति, नुमा व्यवदानात्(), समुदायभक्तोऽसौ समुदायमेव न व्यवदव्यात्(), अवयवं तु व्यवदधात्येव। तथा प्रियास्तिरुआओऽनयोब्र्राआहृणकुलयोरिति बहुव्रीहौ कृते प्रियतिसृभ्यामिति--यदि व्यञ्जनादौ नुम्? स्यात्(), तदा "त्रिचतुरोः स्त्रियां तिसृचतसृ" ७।२।९९ इत्यनेन तिरुआआदेशो न प्राप्नोति, समुदायभक्तेन नुमा त्रिशब्दस्य व्यवधानात्()? नैतदस्ति; "रायात्वं तिसृबावं ["तिसृभावश्च"--मूलपाठः] च व्यवधानान्नुमापि हि" (इति)। भवतीति शेषः। व्यवधानादिति ल्यब्लोपे पञ्चमी, यथा--प्रासादात्? प्रेक्षत इति। प्रासादमारुह्रेत्यर्थः। तदयमर्थः--नुमा व्यवधानमपि प्राप्य राय आत्त्वं तिसृभावञ्च भवतीति। कस्मात्? पुनर्व्य्रवधाने तौ भवतः"? "रायो हलि" ७।२।८५ इत्यत्र रायो या विहिता विभक्तिः, त्रिशब्दाच्च या विहिता विभक्तिस्तस्यामिति विहितविशेषणपक्षस्य तत्रश्रयणात्()। अथ वा--किं व्यवधानचिन्तया, परत्वादेव हि तौ भविष्यतः, तयोस्तु कृतयोः "सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव" (व्या।प।४०) इति पुनर्नुम्? न भवति। नुम्परत्वमनङ्गीकृत्य "व्यवधानान्नुमापि हि" इत्युक्तम्()। अत एवापिशब्दः पक्षान्तरद्योतनाय प्रयुक्तः। व्यवधाने च यथा भवति, तथोक्तमेव। एवं तर्हि नुम्नुटोर्विप्रतिषेधार्थमज्ग्रहणमिति नुटि कृते नुम्न क्रियते। "ह्यस्वनद्यायो नुट्()" ७।१।५४ इति अस्यावकाशः--अग्नीनाम्(), वायूनमिति, इगन्तनुमोऽव काशः--त्रपुणे, जतुन इति; इहोभयं प्राप्नोति--त्रपूणाम्(), जतूनामिति, पूर्वविप्रतिषेधे नुडागमो भवति, नुटि च सति "नामि" ६।४।३ इति दीर्घत्वं प्राप्नोति, अ()स्मस्तु सत#इ न स्यात्(); अनजन्तत्वात्(), यथा--वर्मणामित्यत्र। स चायं विप्रतिषेधोऽज्ग्रहणे सत्युपपद्यते। नुटि कृते नुम्? न प्राप्नोति; अनजादित्वात्()। नुम्यपि कृते नुण्न प्राप्नोति, ह्यस्वान्ताभावादित्येवमभयोस्तुल्ययोर्विप्रतिषेध उपपद्यते। अक्रियमाणेऽज्ग्रहणे नुटि कृतेप्यकृतेऽपि हलादावजादौ च नुमा भवितव्यमिति तस्य नित्यत्वम्()। नुमि कृते ह्यस्वान्तत्वाभावान्नुटा न भवितव्यमिति तस्यानित्यत्वम्()। नित्यानित्ययोश्चातुल्यबलत्वादयुक्तो विप्रतिषेध इति नित्यत्वान्नुमैव भवितव्यमिति। तस्मादज्ग्रहणं विप्रतिषेधार्थमिति। अत्र परीहारान्तरमाह--"नुड् वाच्यः" इति। लाघवार्थम्()। नुडर्थः पूर्वविप्रतिषेधः। तादध्र्यन्नुदित्युक्तः। क्रियमाणेऽप्यज्ग्रहणे विप्रतिषेदेन नुमेव प्राप्नोति, ततोऽवश्यं पूर्वविप्रतिषेधेन नुड्? वाच्यः--"नुमचिरतृज्वद्भावेभ्यो नुङ्? भवति पूर्वविप्रतिषेधेन" (वा।११;७।१।९६) इति। क्रियमाणेऽप्यज्ग्रहणे पूर्ववप्रतिषेधो वक्तव्यः अक्रियमाणे त()स्मस्तेनैव यत्नेन नुड्? भविष्यतीति किं यत्नद्वयेन, तस्मादज्ग्रहणमनर्थकम्()? ननु चेष्टवाची परशब्दः, इष्टवाचित्वाद्भविष्यति, अलं यत्नेन/ असदेतत्(), अवश्यं पूर्वविप्रतिषेधः परिगणयतव्यः, अन्यथेदमिष्टमिदमनिष्टमित्येतदेव न ज्ञायते। ननु च त्रपूणामित्यत्र पूर्वविप्रतषेधेन नुटि कृते नुम्? मा भूदित्येवमर्थमज्ग्रहणं कत्र्तव्यम्()? नैतदस्ति; अस्त्वत्र नुम्? तस्य लोपो भविष्यति। नलोपस्य दीर्घविधावसिद्धत्वात्? "नामि" (६।४।३) इति दीर्घत्वमनजन्तत्वान्न स्यादिति चेत्()? मा भूदनेन, "नोपधायाः" ६।४।७ इत्यनेन भविष्यति। इह तर्हि शुचीनामित्यतर "इन्हन्पूषार्यम्णां शौ" (६।४।१२) इति नियमाद्दीर्घत्वं न स्यात्()? नैतदस्ति; लक्षणप्रतिपदोक्तपरिभाषया (व्य।प।३) प्रतिपदोक्तस्येन्नन्तस्य स न#इयमः। अयञ्च नुमि कृते सतोन्नन्त इति लाक्षणिकत्वादेवास्य नियमेन प्रत्याख्यानं करिष्यते। एवं प्रत्याख्यातेऽज्ग्रहणे अत उत्तरतोऽज्ग्रहणस्य प्रयोजनं दर्शयितु माह--"उत्तरार्थं तु" इति। तुशब्दस्तह्र्रर्ते। तर्हिशब्दः पक्षान्तरोपन्यासे। यद्येतत्? प्रयोजनं नोपपद्यते, उत्तरार्थं तह्र्रज्ग्रहणं कत्र्तव्यम्()। "इह तु करणस्य यत्प्रयोजनं तदुच्यताम्()? इत्याह--"इह" इत्यादि। अपिशब्दोऽत्र गम्यमानार्थत्वान्न प्रयुक्तः। इहापि प्रयोजनमस्ति, किं पुनस्तत्()? इत्याह--"त्रपो" इति। हे त्रपो इत्यस्योदाहरणस्य साधुत्वार्थमज्ग्रहणम्()। अक्रियमाणे त्वज्ग्रहणे प्रत्ययलोपलक्षणमिहास्तीति न ज्ञाप्येत; यतश्च हे त्रपो इत्यत्र लुपतायां सम्बुद्धावुच्यमानो गुणो न स्यात्(), अज्ग्रहणे सत्यत्रापि प्रत्ययलोपलक्षणो भवति। तस्मादेतदर्थमज्ग्रहणं कत्र्तव्यम्(), उत्तरार्थञ्च॥
बाल-मनोरमा
इकोऽचि विभक्तौ ३१८, ७।१।७३

इकोऽचि। "इदितो नुम् धातोः" इत्यतो नुमित्यनुवर्तते। "नपुंसकस्य झलचः" इत्यतो "नपुंसकस्ये"त्यनुवर्तते, "अङ्गस्ये"त्यदिकृतमिका विशेष्यते, ततस्तदन्तविधिः, तदाह--इगन्तस्येत्यादिना। अचि विभक्ताविति। अजादौ विभक्तावित्यर्थः। "इकोऽचि सुपी"त्येव सुवचम्। विभक्तौ किम्? मधु=मद्यं, तस्येदं माधवम्। अणि परे नुमि टिलोपे "माध"मिति स्यात्। वारिणी इति। वारि-औ इति स्थिते शीभावे नुमि "अट्कुप्वाङिति णत्वे रूपम्। वारीणीति। जश्शसोः शिभावे नुमि "सर्वनामस्थाने चे"ति दीर्घे णत्वे रूपम्। हे वारि सु इत्यत्र सोर्लुकि प्रक्रियां दर्शयति--पक्ष इति। "ह्यस्वस्य गुण" इति सम्बुद्धिनिमित्तको गुणः कदाचिद्भवतीत्यर्थः। नन्विह सम्बुद्धेर्लुका लुप्तवान्न लुमतेति प्रत्ययलक्षणनिषेधात्कथं गुण इत्यत आह-न लुमतेतिनिषेधस्यानित्य्त्वादिति। अत्र च "इकोऽचि विभाक्तौ" इत्यत्राज्ग्रहणं ज्ञापकम्। हलादिषु भ्यामादिषु सत्यपि नुमि "न लोपः प्रातिपदिकान्तस्ये"ति तस्य लोपसम्भवादचीति व्यर्थम्। न च सम्बुद्धिव्यावृत्त्यर्थमज्ग्रहणं, तुत्र नुमि सति "न ङिसम्बुद्धयो"रिति निषेधे सति नकारश्रवणप्रसङ्गादिति वाच्यं, सम्बुद्धेर्लुका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुमः। प्राप्तेरेवाऽभावात्। "न लुमते"ति निषेधस्याऽनित्यत्वे तु सम्बुद्धौ प्रत्ययलक्षणेन प्राप्तं नुमं वारयितुमज्ग्रहणमर्थवदिति भवत्यज्ग्रहणं "न लुमते"त्यस्यानित्यत्वे लिङ्गमित्याहुः। अत एव "इकोऽची"ति सूत्रे हे त्रपो इति, एङ्()ह्यस्वादिति सूत्रे हे त्रपु इति च भाष्यं सङ्गच्छते। आङो नेति। रूपे विशेषाऽभावेऽपि नुमपेक्षया परत्वेन नाभावस्यैव न्याय्यत्वादिति भावः। ङसिङसोर्विशेषमाह-घेरिति। नुमं बाधित्वा परत्वाद्गुणे प्राप्त इत्यर्थः।

वृद्ध्यौत्त्वेति। वार्तिकम्। वृद्ध्यादीनां क्रमेण-गावौ हरौ क्रोष्ट्रा हरये इत्यवकाशः। नुमोऽवकाशो वारीणि इति। अतिसखीनीत्यत्र जश्शसोः "सख्युरसम्बुद्धौ" इति णित्त्वाद्वृद्धिः परत्वान्नुमं बाधित्वा प्राप्ता। वारिणीत्यत्र ङौ तु "अच्च घेः" इत्यौत्त्वं प्राप्तम्। प्रियक्रोष्टूनीत्यत्र जश्शसोस्तृज्वत्त्वं प्राप्तम्। वारिशब्दान्ङ्यादौ गुणः प्राप्तः। अत्र पूर्वविप्रतिषेधान्नुमेवेत्यर्थः। वारिणे इति। ङयि गुणं बाधित्वा नुमि णत्वे रूपम्। वारिण इति। ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम्। वारिणोरिति। ओसि यणं बाधित्वा नुमि णत्वे रूपम्। वारिण इति। ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम्। वारिणोरिति। ओसि यणं बाधित्वा नुमि णत्वे रूपम्। वारि-आमित्यत्र परत्वान्नुटं बाधित्वा नुमि प्राप्त आह--नुमचिरेति। नुडिति। नुम्नुटोः को विशेष इत्यत आह-नामीति दीर्घ इति। नुमि तु सति तस्याङ्गभक्तत्वा"न्नामी"ति दीर्घो न स्यादिति भावः। वारिणीति। ङौ "अच्च घेः" इत्यौत्त्वं परमपि बाधित्वा "वृद्ध्यौत्त्वे"ति पूर्वविप्रतिषेधान्नुम्। न विद्यते आदिः= उत्पत्तिः यस्य सः अनादिः=ई()आरः। अनादिः अविद्या। अनाद#इ ब्राहृ। त्रिलिङ्गोऽयं विशेष्यनिघ्नः। तस्य नपुंसकत्वे प्रथमाद्वितीययोर्वारिवद्रूपाणि।

तत्त्व-बोधिनी
इकोऽचि विभक्तौ २८०, ७।१।७३

इकोऽचि। विभक्तौ किं? मधु मद्यं तस्येद माधवम्। अत्र नुमि सति टिलोपः स्यात्।

वृद्धौत्त्वतृज्वद्भावगुणेभ्यो नुम्पूर्वविप्रतिषेधेन। वृद्ध्यौत्वेति। "अति सखिनी"त्यत्र "सख्युरसंबुद्धा"विति णिद्वद्भावाद्वृद्धिः प्राप्ता, "वारिणी"त्यत्र तु "अच्च घे"रित्यौत्त्वम्, "प्रियक्रोष्टूनी त्यादौ तृज्वद्भावः प्राप्तः ननु नुम्रुटोः को विशेषस्तन्नाह----नामीति दीर्घत्वमिति। नुमस्त्वङ्गभक्तत्वात्तस्मिन्सति दीर्घो न स्यादिति भावः।