पूर्वम्: ७।१।७
अनन्तरम्: ७।१।९
 
सूत्रम्
बहुलं छन्दसि॥ ७।१।८
काशिका-वृत्तिः
बहुलं छन्दसि ७।१।८

छन्दसि विषये बहुलं रुडागमो भवति। देवा अदुह्र। गन्धर्वा अप्सरसो अदुह्र। दुहेर्लङि झकारस्य अदादेशे कृते रुट्। लोपस्य आत्मनेपदेषु ७।२।४१ इति तकारलोपः। न च भवति, अदुहत। बहुलवचनादन्यत्र अपि भवति। अदृश्रमस्य केतवः। ऋदुशो ऽडि गुणः ७।४।१६ इत्येतदपि बहुलवचनादेव अत्र न भवति।