पूर्वम्: ७।१।८१
अनन्तरम्: ७।१।८३
 
सूत्रम्
सावनडुहः॥ ७।१।८२
काशिका-वृत्तिः
सावनडुह ७।१।८२

सौ परतः अनडुहो ऽङ्गस्य नुमागमो भवति। अनड्वान्। हे अनड्वन्। अत्र केचितातित्यधिकारादाममोः कृतयोः नुमं कुर्वन्ति। तेन नुमा आममौ न बाध्येते, आऽमम्भ्यां च नुम् इति। अपरे तु सत्यपि सामान्यविशेषत्वे आममोः नुमश्च समावेशम् इच्छन्ति, न बाध्यबाधकभावम्, यथा चिचीषत्यादिषु दीर्घत्वद्विर्वचनयोः इति।
लघु-सिद्धान्त-कौमुदी
सावनडुहः २६१, ७।१।८२

अस्य नुम् स्यात् सौ परे। अनड्वान्॥
न्यासः
सावनडुहः। , ७।१।८२

बाल-मनोरमा
सावनडुहः , ७।१।८२

सावनडुहः। अस्येति। अनुडुह्शब्दस्येत्यर्थः। नुम् स्यादिति। "आच्छीनद्योर्नुं"मित्यतो नुमित्यनुवृत्तेरिति भावः। नुमि मकार इत्। उकार उच्चारणार्थः। मित्त्वादन्त्यादचः परः। अनड्वान् ह् स् इति स्थितम्। ननु आम्नुमौ एतौ मित्त्वादन्त्यादच उकारात्परौ प्राप्तौ। तत्र "चतुरनडुहोः" इत्याम् सर्वनामस्थाननिमित्तकः सामान्यविहितः। "सावनडुहः" इति नुम् तु सर्वनामस्थानविशेषे सौ विहितत्वाद्विशेषविहितः। स च निरवकाशत्वात्सामान्यविहितमामं बाधेत, सोरन्यत्राऽ‌ऽम्बिधेश्चरितार्थत्वात्। तथा च "अनडुन्" इति स्यात्। "अनड्वान्" इति न स्यात्। किंच सम्बुद्धौ हे अनडुह् सिति स्थिते "अम् सम्बुद्धौ" इत्यमागम आमपवादोऽनुपदमेव वक्ष्यते। तत्र "सावनडुहः" इति नुमपि प्राप्तः, सच सम्बुद्धावसम्बुद्धौ च विहितत्वात्सामान्यविहितः। "अम्सम्बुद्धौ" इत्यम् तु सम्बुद्धावेव विहितत्वाद्विशेषविहितः। सच निरवकाशत्वात्सामान्यं नुमं बाधेत, असम्बुद्धौ सौ नुम्विधेश्चरितार्थत्वात्। ततश्च हे अनड्वन्निति न स्यात्। "हो ढः" इति ढत्वे हे अनड्वट् इति स्यादित्याशङ्क्याह--आदित्यधिकारादित्यादि, नुम्न बाध्यत इत्यन्तम्। "सावनडुहः" इति नुम्विधौ तावत् "आच्छीनद्योः" इत्यत आदिति पञ्चम्यन्तमनुवर्तते। अतोऽनडुहोऽवर्णात् परो नुमिति लाभाद्विशेषविहितेनापि "सावनडुह" इति नुमा "चतुरनडुहो"रिति सामान्यविहित आम्न बाध्यते, अवर्णात्परत्वेन विधीयमानं नुमं प्रति आम उपजीव्यत्वात्, उपजीव्योपजीवकयोर्विरोधाऽभावेन बाध्यबाधकभावविरहात्, प्रत्युत आमभावे नुमः प्रवृत्त्यसम्भवात्। तथा "अम्संबुद्धौ" इत्यमा च विशेषविहिभावेन बाध्यबाधकभावविरहात्, प्रत्युत आमभावे नुमः प्रवृत्त्यसंभवादित्यर्थः। ननु "सावनहुडः" इति नुम्विधौ आदित्यनु वर्ततां नाम, तथापि आमुपजीवकत्वं नुमो न लभ्यते, अनडुहि नुमो नकाराऽकारात्परत्वेऽपि आदित्यनुवृत्तेरविरोधादिति चेत्, मैवं-"सावनडुहः" इति नुम्विधौ मित्त्वादन्त्यादच इत्युपस्थितम्। तत्र च आदित्यनुवृत्तमन्वेति। ततस्चानडुहि योऽन्त्यरूपोऽवर्णः तस्मात्परो नुमिति लभ्यते। नकाराकारस्तु नैवंविध इत्यामुपजीवकत्वं नुमो निर्बाधमेव। एवं संबुद्धौ अमुपजीवकत्वमपि ज्ञेयम्। क्वचित्पुस्तके "आमा च नुम् न बाध्यते" इति पठ()ते। तत्रेयं योजना--ननु "बह्वनड्वांहि कुलानी"त्यत्र "नपुंसकस्य झलचः" इति नुमपेक्षया परत्वादाम् स्यात्। कृते त्वामि पुनर्नुम्न भवति, "विप्रतिषेषेन यद्बाधितं तद्बाधितमेवे"ति न्यायादित्यत आह--"आमा च नुम्न बाध्यत" इति। "पुनः प्रसङ्गविज्ञानात्सिद्धम्" इति क्वचिद्विप्रतिषेधेन बाधितस्य पुनरुन्मेषादामि कृतेऽपि "नपुंसकस्य झलचः" इति नुम्निर्बाध इति भावः। सोर्लोप इति। "अनड्ववान् ह् स् इत्यत्र हल्ङ्यादिने"ति शेषः। ननु कृते सुलोपे हकारस्य संयोगान्तलोपे नुमो नकारस्य पदान्तत्वात् "वसुरुआंसुध्वंस्वनडुहां दः" इति दत्वं कुतो न स्यादित्यत आह--नुम्विधीति। यदि ह्रत्र नुमो नस्य दत्वं स्यात्तर्हि अनड्वाहित्यत्र नुमभावेऽपि हस्य दत्वेनैव अनड्वादिति सिद्धेर्नुम्विधिरनर्थकः स्यात्। अतो नुमो नस्य दत्वं नेति विज्ञायत इति भावः।