पूर्वम्: ७।१।८४
अनन्तरम्: ७।१।८६
 
सूत्रम्
पथिमथ्यृभुक्षामात्॥ ७।१।८५
काशिका-वृत्तिः
पथिमथ्यृभुक्षाम् आत् ७।१।८५

पथिन् मथिनृभुक्षिनित्येतेषाम् अङ्गानां सौ परतः आकारः आदेशो भवति। पन्थाः। अन्थाः। ऋभुक्षाः। स्थानिन्यनुनासिके ऽपि आकारो ऽनुनासिको न भवति। भाव्यम् अनेन सवर्णानां ग्रहणं न भवति इति शुद्धो ह्ययम् उच्वार्यते।
लघु-सिद्धान्त-कौमुदी
पथिमथ्यृभुक्षामात् २९५, ७।१।८५

एषामाकारोऽन्तादेशः स्यात् सौ परे॥
न्यासः
पथिमथ्यृभुक्षामात्?। , ७।१।८५

हल्ङ्यादिलोपे प्राप्ते नलोपे चात्त्वं विधीयते। "पन्थाः" इति। "थो न्थः" ७।१।८० इति न्यादेशः, "इतिऽसर्वनामस्थाने" ७।१।८६ इत्यत्त्वम्()। ननु चास्य स्थान्यनुनासिको नकारः, तत्र "तपरसतत्कालस्य" १।१।६९ इति सवर्णानां ग्रहणे सत्यान्तरतम्यादनुनासिकेनैवाकारेण भवितव्यम्()। किमिह शुद्धोऽयमुदाह्यियते? इत्याह--"स्थानिन्यनुनासिकेऽपि" इत्यादि। अत्रैव कारणमाह--"भाव्यमानः" इत्यादि। यदि च तपरेणापि भाव्यमानेनाणा सवर्णानां ग्रहणं न भवति, एवं सति "विङ्वनोरनुनासिकस्यात्()" ६।४।४१ इत्यत्रापि न स्यात्(), तथा "जनसनखनां सञ्झलोः" ६।४।४२ इत्यत्रानुनासिकाकारो न स्यात्()। एवं तर्हि नैवायमाकारस्तपरः, किं तर्हि? दकारः। दकारस्तु मुखसुखार्थः, स चत्र्वभूतत्वान्न श्रूयते। स्यादेतत्()--यद्यपि भाव्यमानोऽण्? सवर्णान्न गृह्णातीति (व्या।प।३५) सवर्णानां ग्रहणं न भविष्यति, तथाप्यनुनासिकविशिष्टस्योच्चारणादनुनासिकेनैव युक्तं भवितुम्()? इत्याह--"शुद्धो हि" इत्यादि। अयं ह्रकारः शुद्धो निरनुनासिक उच्यते तस्माच्छुद्ध एवेति नानुनासिकविशिष्टः। अथायं किमर्थं दीर्घ उच्यते, न ह्यस्व एव क्रियताम्(), अत्रापि "अकः सवर्णे" (६।१।१०१) इति दीर्घत्वेन सिध्यत्येव? न सिध्यति; "अतो गुणे" ६।१।९४ इति पररूपत्वं स्यात्()। अकारोच्चारणसामथ्र्यान्न भविष्यतीति चेत्()? न; अस्ति ह्रन्यदकारोच्चारणस्य प्रयोजनम्()। किं तत्()? नकारस्य श्रवणं न स्यादिति। लोपो हि क्रियमाणे गौरवं स्यात्(), तस्माद्दीर्घो विधीयते॥
बाल-मनोरमा
पथिमथ्यृभुक्षामात् , ७।१।८५

तेषु विशेषमाह--पथिमथ्यृभुक्षामात्। पन्थाश्च, मन्थाश्च ऋभुक्षाश्च, पथिमथ्यृभुक्षाणः, तेषामिति विग्रहः। "सावनडुहः" इत्यतः "सा"वित्यनुवर्तते। आदिति तपरकरणम्। आकार एव विधेयः। तदाह--एषामित्यादिना। "अलोऽन्त्यस्ये"ति नकारस्य आकारः। ननु नकारस्य आन्तरतम्यादनुनासिक एव आकारः प्राप्नोति। नच निरनुनासिकस्यैवाकारस्योच्चारणाच्छुद्ध एव आकार इति वाच्यं, गुणानामभेदकत्वाद्भेदकत्वेऽपि तपरकरणेन अनुनासिकस्याप्याकारस्य ग्रहणात्, व्यक्तिपक्षे तपरसूत्रस्य अनण्सु दीर्घप्लुतेषु विध्यर्थत्वात्। नच ग्रहणकसूत्रे वार्णसमाम्नायिकत्वेन निश्चितस्याऽण्ग्रहणस्य अप्रत्यय इत्यस्य च तपरसूत्रे अनुवृत्तेराकास्स्येहानण्त्वाद्विधीयमानत्वाच्च न तत्काल इति वाच्यं, तपरसूत्रे अण्ग्रहणस्य अप्रत्ययग्रहणस्य चानुवृत्तौ मानाऽभावादित्यत आह--आ आदिति सवर्णदीर्घेणाकारान्तरं प्रश्लिष्यते। ततश्चाननुनासिकरूप आकारो भवतीति लभ्यते। नच सर्वादेशत्वं शङ्क्यम्। नह्रत्र वर्णद्वयं विधीयते, विशेषणविशेष्यबावेनान्वयाभ्युपगमेन अननुनासिकाकारस्यैकस्यैव विधानादिति भावः। भाष्ये तु अनुनासिकविधेः संमतत्वे प्रतिपत्तिलाघवाय अनुनासिकस्यैव "उञः, ऊ#ँ" इत्यत्रेव उच्चार्य विधानसंभवात्तदनुच्चारणाच्छुद एव आकार इह विधेय इत्युक्तम्। तपरकरणं तु उच्चारणार्थमेव। वस्तुतस्तु "भाव्यमानेन सवर्णानां ग्रहणं ने"ति परिभाषयैव अनुनासिकाकारनिराससंभवादाकारप्रश्लेषक्लेशो व्यर्थः। "भाव्यमानोऽण् सवर्णान्न गृह्णाती"ति पाठस्तु प्रामादिकः, "ज्यादादीयसः" इति सूत्रे आदिति तपरनिर्देशेनेयं परिभाषा ज्ञाप्यते-"भाव्यमानेन सवर्णानां ग्रहणं ने"त्यवे भाष्ये पाठात्, अणुदित्सूत्रभाष्येऽप्यण्ग्रहणरहिताया एवास्याः परिभाषायाः पाठदर्शनाच्चेत्यास्तां तावत्। नकारस्य आत्त्वे पथि आ स् इति स्थिते।

तत्त्व-बोधिनी
पथिमथ्यृभुक्षामात् ३२६, ७।१।८५

पथिमथि। "गमेरिनि"रित्यत "इनि"रिति "परमे कि" दित्यतः "कि"दित्यनुवर्तमाने "मन्थः"इत्यनेन निष्पन्नो मथिन्शब्दः। "पतस्थ च"चादिनिः। पथिन्। "ऋभुक्षः स्वर्गवज्रयोः"। ततो मत्वर्थीयेनिना ऋभुक्षिन्निति बोध्यम्। ननु "अस्थिदधी"ति सूत्रे उदात्ततया पठितेऽप्यनङीष्टसिद्धौ "अनुङुदात्तः"इत्युदात्तग्रहणं "गुणा अभेदकाः"इति पक्षं ज्ञापयतीति निर्विवादम्। तथाच तस्मिन्पक्षे सूत्रेननुनासिकोच्चारणेऽप्यान्तरतम्यादनुनासिकाऽ‌ऽकारः स्यादत आह---आ-आदिति।