पूर्वम्: ७।१।८५
अनन्तरम्: ७।१।८७
 
सूत्रम्
इतोऽत् सर्वनामस्थाने॥ ७।१।८६
काशिका-वृत्तिः
इतो ऽत् सर्वनामस्थाने ७।१।८६

पथ्यादीनाम् इकारस्य स्थाने अकारादेशो भवति सर्वनामस्थाने परतः। पन्थाः, पथानौ, पन्थानः। पन्थानम्, पन्थानौ। मन्थाः, मन्थानौ, मन्थानः। मन्थानम्, मन्थानौ। ऋभुक्षाः, ऋक्भुक्षाणौ, ऋभुक्षाणः। ऋभुक्षाणम्, ऋभुक्षाणौ। आतिति वर्तामाने पुनरद्वचनं षपूर्वार्थम्। ऋभुक्षणम् इत्यत्र वा षपूर्वस्य निगमे ६।४।९ इति दीर्घविकल्पः।
लघु-सिद्धान्त-कौमुदी
इतोऽत्सर्वनामस्थाने २९६, ७।१।८६

पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे॥
न्यासः
इतोऽत्सर्वनामस्थाने। , ७।१।८६

अथ "आत्()" ७।१।८५ इत्यनुवत्र्तमाने किमर्थमद्वचनम्(), ह्यस्वस्य श्रवणं यथा स्यादिति चेत्()? नैतत्(); कृते हि ह्यस्वत्वे सौ परतौऽकः सवर्णे दीर्घत्वेन ६।१।९७ भवितव्यमन्यत्र "नोपधायाः" ६।४।७ इत्यनेन, तत्कुतो ह्यस्वस्य श्रवणम्()? इत्याह--"आदिति वत्र्तमाने" इत्यादि। षपूर्वोऽर्थः प्रयोजनं यस्य तत्? तथोक्तम्()। कथं पुनरिवं षपूर्वार्थं भवति? इत्याह--"ऋभुक्षणम्()" इत्यादि। यदि प्रकृतो दीर्घ एव विधीयते, तदा ऋभुक्षमिन्द्रमित्यत्र ह्यस्वस्य श्रवणं न स्यात्()। ह्यस्वविधाने तु "वा षपूर्वस्य निगमे" (६।४।९) इति दीर्घविधानात्? पक्षे भवति। स्थानिन्यादेशे च तपरकरणं मुखसुखार्थमित्येके। पथीरित्यत्र दीर्घनिवृत्त्यर्थमितयन्ये। पन्थानमिच्छति "सुप आत्मनः क्यच्()" ३।१।८, "अकृत्सार्वधातुकयोः" ७।४।२५ दीर्घः--पथीयति; पथीयतेः क्विप्(), "अतो लोपः" ६।४।४८ इत्यल्लोपः, "क्यस्य विभाषा" ६।४।५० इति यकारसय लोपः--पथीः॥
बाल-मनोरमा
इतोऽत्सर्वनामस्थाने , ७।१।८६

इतोऽत्। पथिमथ्यृभुक्षाम् इत्यनुवर्तते। "इत" इति तपरकरणं स्पाष्टार्थं , पथ्यादिषु त्रिषु दीर्घप्लुतयोरसंभवात्। भाव्यमानत्वादेव सवर्णाऽग्रहकत्वे सिद्धे अदिति तपरकरणमपि स्पाष्टार्थमेव। तदाह--पथ्यादेरित्यादिना। पथ आ स् इति स्थिते।

तत्त्व-बोधिनी
इतोऽत्सर्वनामस्थाने ३२७, ७।१।८६

इतोऽत्सर्वनाम। "आ"दिति वर्तमाने पुनरद्वचनं किमर्थं, कृतेऽप्यद्वचने "पन्था"इत्यत्र सवर्णदीर्घेण भाब्यमन्यत्र तूपधाया दीर्घेणेति चेन्मैवम्, "ऋभुक्षण"मित्यत्र "वा षपूर्वस्य निगमे" इति दीर्घविकल्पे सति पक्षे ह्यस्वाश्रवणार्थमद्ववचनस्यावश्यकत्वात्।