पूर्वम्: ७।१।९०
अनन्तरम्: ७।१।९२
 
सूत्रम्
णलुत्तमो वा॥ ७।१।९१
काशिका-वृत्तिः
णलुत्तमो वा ७।१।९१

उत्तमो णल् वा णित् भवति। णित्कार्यं तत्र वा भवति इत्यर्थः। अहं चकर, अहं चकार। अहं पपच, अहं पपाच।
लघु-सिद्धान्त-कौमुदी
णलुत्तमो वा ४५८, ७।१।९१

उत्तमो णल् वा णित्स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्॥
न्यासः
णलुत्तमो वा। , ७।१।९१

"णित्कार्यं वा भवतोत्यर्थः" इति। अनेन णित्कार्यस्य पक्षेऽबावाण्णिद्वा भवतीत्युच्यते, न तु णित्त्वस्यैव प्रतिषेध इति दर्शयति। न तु णल उपदेशावस्थायां सिद्धं णित्त्वं तद्वचनशतेनापि शक्यं तिषेद्धुमिति भावः। "चकार, चकर" इति। यदा णित्त्वं तदा "अचो ञ्णिति" ७।२।११५ इति वृद्धिः, अन्यदार्धधातुकलक्षणो गुणः। "पपाच, पपच" इति। यदा णित्त्वं तदा "अकत उपधायाः" ७।२।११६ इति वृद्धिः, अन्यदा तदभावः॥
बाल-मनोरमा
णलुत्तमो वा १२७, ७।१।९१

णलुत्तमः। णित्स्यादिति। "गोतो णि"त्यतस्तदनुवृत्तेरिति भावः। चखाद चखदेति। णित्त्वे उपधावृद्धिः। तदभावे न।