पूर्वम्: ७।१।९२
अनन्तरम्: ७।१।९४
 
सूत्रम्
अनङ् सौ॥ ७।१।९३
काशिका-वृत्तिः
अनङ् सौ ७।१।९३

सखिशब्दस्य सौ परतः अनङित्ययम् आदेशो भवति, स चेत् सुशब्दः सम्बुद्धिः न भवति। सखा। असम्बुद्धौ इति किम्? हे सखे।
लघु-सिद्धान्त-कौमुदी
अनङ् सौ १७५, ७।१।९३

सख्युरङ्गस्यानङादेशोऽसम्बुद्धौ सौ॥
न्यासः
अनङ् सौ। , ७।१।९३

पूर्वेण णित्त्वे प्राप्तेऽनङ्? विधीयते। तस्य ङकारोऽन्त्यादेशार्थः। अकार उच्चारणार्थः। "सखा" इति। "सर्वनामस्थाने चासम्बुद्धौ" ६।४।८ इति दीर्घः, हल्ङ्यादिसुलोपः, ६।१।६६, "नलोपः प्रातिपदिकान्तस्य" ८।२।७ इति नकारस्य। आकारे विदातव्येऽनङ्वचनं सोर्लोपो यथा स्यात्()। अकारविधाने तस्य लोपो न स्यात्(), यथा--पन्था इति॥
बाल-मनोरमा
अनङ् सौ २४६, ७।१।९३

अनङ् सौ। "सख्युरसम्बुद्धौ" इत्यनुवर्तते। "अङ्गस्ये"त्यधिकृतं। तदाह--सख्युरङ्गस्येत्यादिना। "सौ" इति प्रथमैकवचनम्, नतु सप्तमीबहुवचनम्, "असम्बुद्धा"विति पर्युदासात्। अनङि ङकार इत्। नकारादकार उच्चारणार्थः। अनेकाल्त्वात्सर्वादेशत्वमाशह्क्याह--ङिच्चेति।

तत्त्व-बोधिनी
अनङ् सौ २०७, ७।१।९३

अनङ् सौ। नकारादकार उच्चारणार्थः। "असंबुद्धौ" इति पर्युदासात्साविति प्रथमैकवचनं गृह्रते, न तु सप्तमीबहुवचनम्। "सौर्डा" इत्येव सिद्धे अनङिधामन्यातोऽपि स्यादिति ज्ञापनार्थम्, तेन उशनसः संबुद्धावनङ् सिह्रतीति प्राञ्चः। यद्यपि "सोर्डे" त्युक्ते "ऋदुशन---" इत्युत्तरसूत्रेणापि ङा स्यात्। ततश्च "उशने"त्यत्र "सर्वनामस्थाने चाऽसंबुद्धौ"इति दीर्घः स्यात्।"पुरुदंसे"त्यत्र तु "सान्तमहतः"इति दीर्घः स्यात्, तथापि संज्ञापूर्वकविधेरनित्यत्वादङ्गवृत्तपरिभाषया वा कतत्समाधेयमिति तेषामाशयः।