पूर्वम्: ७।१।९५
अनन्तरम्: ७।१।९७
 
सूत्रम्
स्त्रियां च॥ ७।१।९६
काशिका-वृत्तिः
स्त्रियां च ७।१।९६

असर्वनामस्थानार्थम् आरम्भः। स्त्रियां च क्रोष्तुशब्दस्य तृज्वद् भवति। क्रोष्ट्री। क्रोष्ट्रीभ्याम्। क्रोष्ट्रीभिः। क्रोष्टुशब्दं केचिद् गौरादिषु पठन्ति, ते ङीषि प्रत्यये तृज्वद्भावं कुर्वन्ति। तेषां पञ्चभिः क्रोष्ट्रीभिः क्रीतैः पञ्चक्रोष्टृभी रथैः इति स्त्रीशब्दस्य लुकि कृते न सिध्यति, तत्र प्रतिविधेयम्। ये तु गौरादिषु न पठन्ति, तेषां स्त्रियाम् इत्यर्थनिर्देशः, स्त्रियां वर्तमानः क्रोष्टुशब्दः तृज्वद् भवति। कृते ऽतिदेशे ऋन्नेभ्यो ङीप् ४।१।५ इति ङीप्प्रत्ययः। तत्र उदात्तयणो हल्पूर्वात् ६।१।१६८ इत्यन्तोदात्त एव क्रोष्ट्रीशब्दो भवति।
लघु-सिद्धान्त-कौमुदी
स्त्रियां च २३२, ७।१।९६

स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते॥
न्यासः
स्त्रियाञ्च। , ७।१।९६

"क्रीष्ट्रीभिः" इति। तृज्वद्भावे कृते यणादेशः। केन पुनः क्रोष्टुशब्दादीकारः, तृज्वद्भावे कृते "ऋन्नेभ्यो ङीप्()" (४।१।५) इत्यनेनेति चेत्()? न; अनुदात्तत्वप्रसङ्गादित्यत आह--"क्रोष्टुशब्दं केचित्()" इत्यादि। "पञ्चभिः क्रोष्ट्रीभिः क्रीतैः" इति। "तद्धितार्थोत्तरपदसमाहारे च" २।१।५० इति समासः। "आर्हादगोपुच्छ" ५।१।१९ इत्यादिना ठक्(), तस्य "अध्यद्र्धपूर्व" ५।१।२८ इत्यादिना लक्(), "लुक्तद्धितलुकि" १।२।४९ इति स्त्रीप्रत्ययस्य लुक्(), त()स्मल्लुप्ते ये ङीष्प्रत्यये कृते तृज्वद्भावं कुर्वन्ति तेषां तृजवद्भावो न भवति, तस्मात्? "प्रतिविषेयम्()" इति। प्रतिविधानं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिविधानम्()--चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन लुप्तेऽपि स्त्रीप्रत्यये भविष्यति। ये तर्हि गौरादिषु न पठन्ति तेषामीकारः कथम्()? इत्याह--"गौरादिषु" इत्यादि। तेषां पञ्चक्रोष्टुभिरित्यत्र न किञ्चित्? प्रतिविधेयम्(); परस्य स्त्रीप्रत्ययस्य निमित्तत्वेनानाश्रितत्वात्()। ननु च तेषामपि स्त्रीप्रत्ययस्य लुप्तत्वादसस्यामङ्गसंज्ञायामङ्गस्योच्यमानस्तृण्वद्भावो न प्राप्नोतीति प्रतिविधेयमेव? नैतदस्ति; लुप्ते हि स्त्रीप्रत्यये प्रत्ययलक्षणेनाङ्गसंज्ञा भवत्येव। "न लुमताङ्गस्य" १।१।६२ इति यः प्रतिषेधः सोऽङ्गाधिकार विहितस्यैव कार्यस्य। न चाङ्गसंज्ञाऽङ्गाधिकारे विहिता। "कृतेऽतिदेशे" इत्यादि। "इकोऽचि विभक्तौ ७।१।७३ इत्यनुवृत्तेर्विभक्तावुत्पन्नायां तदाश्रयायाञ्चाङ्गसंज्ञायां स्त्रियां वत्र्तमानस्य क्रोष्टुशब्दस्यातिदेशः क्रियते। तस्मिन्? कृते ऋकारान्तत्वात्? "ऋन्नेभ्यो ङीप्()" ४।१।५ इति ङीब्भवति। ननु च ङीप्प्रत्यये कृतेऽन्तोदात्तः क्रोष्ट्रीशब्दो न सिध्यति? इत्याह--"तत्र" इत्यादि। क्रोष्ट्रीशब्दोऽन्तोदात्तोऽतिदिश्यत इति तृसम्बन्धिन ऋकारस्य स्थाने यणादेशो भवन्नुदात्तयण्? भवति, ततश्च "शतुरनुमो नद्यजादी" ६।१।१६७ इत्यनुवत्र्तमाने "उदात्तयणो हल्पूर्वात्()" ६।१।१६८ इत्यन्तोदात्तो भवति क्रोष्ट्रीशब्दः॥
बाल-मनोरमा
स्त्रियां च ३०३, ७।१।९६

अथ क्रोष्टुशब्दस्य स्त्रियां विशेषमाह--स्त्रियां च। "तृज्वत्क्रोष्टुः" इत्यनुवर्तते। रूपातिदेशोऽयमित्युक्तम्। तदाह--स्त्रीवाचीत्यादिना। तथाच स्त्रियामुदन्तः क्रोष्टुशब्दो नास्त्येव। किन्तु क्रोष्टृ इति ऋदन्त एवेति फलितम्।