पूर्वम्: ७।१।९७
अनन्तरम्: ७।१।९९
 
सूत्रम्
चतुरनडुहोरामुदात्तः॥ ७।१।९८
काशिका-वृत्तिः
चतुरनडुहोरामुदात्तः ७।१।९८

चतुरनडुः इयेतयोः सर्वनामस्थाने परतः आम् आगमो भवति, स चोदात्तः। चत्वारः। अनड्वान्, अनड्वाहौ, अनड्वाहः। अनड्वाहम्। तदन्तविधिरत्र इष्यते। प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः। प्रियानड्वान्, प्रियान्ड्वाहौ, प्रियानड्वाहः। अनडुहः स्त्रियाम् वेति वक्तव्यम्। अनडुही, अनड्वाही। गौरादिपाठात् सिद्धम्।
लघु-सिद्धान्त-कौमुदी
चतुरनडुहोरामुदात्तः २६०, ७।१।९८

अनयोराम् स्यात्सर्वनामस्थाने परे॥
न्यासः
चतुरनडुहोरामुदात्तः। , ७।१।९८

"सर्वनामस्थाने" ७।१।८६ इति स्वर्यते, न "तृतीयादिषु" ७।१।९७ इति। "आगमा अनुदात्ता भवन्ति" (व्या।प।१०५) इत्यनुदात्तत्वे प्राप्ते, उदात्तत्वार्थं वचनम्()। "तदन्तविधिरत्रेष्यते" इति। "अङ्गाधिकारे तस्य तदुत्तरपदस्य" (पु।प।वृ।८५) इति वचनात्()। "प्रियचत्वाः" इति। बहुव्रीहिः। "सर्वनामसंख्ययोरुपसंख्यानम्()" (वा।११३) इति संख्यायाः पूर्वनिपाते प्राप्ते "वा प्रियस्य" (वा।११४) इति प्रियशब्दस्य पूर्वनिपातः॥
बाल-मनोरमा
चतुरनडुहोरामुदात्तः , ७।१।९८

अनडुह् स् इति स्थिते। चतुरनडुहोः। अनयोरिति। चतुरनडुहोरित्यर्थः। सर्वनामस्थान इति। "इतोऽत्सर्वनामस्थाने" इत्यतः स् इति स्थिते-।

तत्त्व-बोधिनी
चतुरनडुहोरामुदात्तः २९२, ७।१।९८

चतुरडुहोः। "इतोत्सर्वनामस्थाने"इत्यतोऽनुवर्तनादाह--सर्वनामस्थान इति।

सावनडुहः। "आच्छीनद्यो"रित्यतो नुममनुवर्त्त्याह---नुम्स्यादिति। विशेषविहितेन यासुटा सामान्यविहितः सीयुडिव नुमा आम्बाध्यतामित्याशङ्कां निराकरोति---अवर्णात्परोऽयमित्यादिना। उपजीव्योपजीकयोर्विरोधाऽभावेन बाध्यबाधकभावो नेति भाव।