पूर्वम्: ७।२।१०२
अनन्तरम्: ७।२।१०४
 
सूत्रम्
किमः कः॥ ७।२।१०३
काशिका-वृत्तिः
किमः कः ७।२।१०३

किम् इत्येतस्य कः इत्ययम् आदेशो भवति विभक्तौ परतः। कः, कौ, के। साकच्कस्य अप्ययम् आदेशो भवति, तेन अकार एव किमो न विधीयते किमो ऽत् ५।३।१२ इति।
लघु-सिद्धान्त-कौमुदी
किमः कः २७३, ७।२।१०३

किमः कः स्याद्विभक्तौ। कः। कौ। के इत्यादि। शेषं सर्ववत्॥
न्यासः
किमः कः। , ७।२।१०३

अथाकार एव किमः कस्मान्न विधीयते, एवं हि लघु सूत्रं भवति, अकारो हि प्रकृतोऽनुवत्र्तत इति, तत्रैवं सुत्रं कत्र्तव्यम्(), "किमोऽत्()" इति? अत आह--"साकच्कस्यादेशो भवति" इति। तेनाकारः किमो न विधीयते" इति। अयं ह्रादेशः "तन्मध्यपतितस्तद्ग्रहणेन गृह्रते" (व्या।पा।२१) अकचश्च किम्ग्रहणेन ग्रहणात्? साकच्कस्यापि भवति; तेनाकार एव किमः स्थाने न विधीयते। यदि हि विधीयेत, तदाऽनकच्कस्यादेशे कृते यश्चादकचि कक इत्यनिष्टं रूपं स्यादित्यभिप्रायः। कथं पुनः किमोऽत्त्वे कृते क इति भवति, यावता मकारस्यात्त्वे कृते सतकारस्य यणादेशे कृते क्य इति स्यात्()? नैष दोष; इकारस्यापि ह्रत्त्वं विधीयते, यदिह पूर्वसूत्रात्? "अः" इत्यनुवत्र्तते। नालोऽन्त्यस्यात्वं भवति यत्? पुनरिहाकारग्रहणं क्रियते। तेन "अनन्त्यविकारेऽन्त्यसदेशस्य" (व्या।प।६३) इतीकारसय, तत्र द्वयोरकारयोः परपूर्वत्वे क इति सिद्धम्()। क्यचित्? पाठः "इमः" इति। तत्रायं पूर्वपक्षः--अथाकार एवेमः कस्मान्न विधीयते? लघु ह्रेवं सूत्रं भवति; प्रकृतस्याकारस्येहानुवृत्तेः, तत्रैवं तावत्? सूत्रं कत्र्तव्यम्()--"इमः" इति। न चैवं सति "तिम ष्टिम आद्रीभावे" (धा।पा।११२३,११२४) इत्यस्य क्विबन्तस्य तीन्(), तिमौ, तिम इत्यत्रापि प्रसज्येत, त्यदादिभिरिमो विशेषणात्()--त्यदादीनां य इमिति? न; "दश्च" ७।२।१०९ इति मत्वे कृत इदम इमौ इम इत्यत्रापि प्रसज्येत। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) नापीम इत्युचयमाने "अलोऽन्त्यस्य" १।१।५१ इति प्रसज्येतेत्याशङ्कनीयम्(), यस्मान्नानर्थकेऽलोन्त्यविधिः (व्या।प।६२)? इत्यत आह--"साकच्कस्यापि" इत्यादि। पूर्व एव पाठः साधुतरः। इतरत्र तु पाठ उत्तरसूत्रेण क्वादेश इमः कृते द्वयोः ककारयोश्च संयुक्तयोः श्रवणं प्रसज्येत, तच्चानिष्टम्()॥
बाल-मनोरमा
किमः कः , ७।२।१०३

तस्य विशेषमाह-किमः कः। विभक्ताविति। "अष्टन आ विभक्तौ" इत्यतस्तदनुवृत्तेरिति भावः। ननु "इमः" इत्येव सूत्र्यतां। "त्यदादीनाम" इत्यनुवृत्तौ त्यदादीनामिमोऽकारः स्यादित्यर्थलाभात्। "द्विपर्यन्ताना"मिति तु न सम्बध्यते, द्विपर्यन्तेषु त्यदादिषु इमोऽसम्भवात्। एवं च किंशब्दे "इम्" इत्यस्य स्थाने अकारे सति "क" इत्यदन्तत्वं सिध्यति। नच "अलोऽन्त्यस्ये"ति किंशब्दे इमोमकारस्यैव अकारः स्यात्। ततश्च इकारस्य यणि क्य इति स्यादिति वाच्यम्, "नानर्थकेऽलोन्त्यविधिः" इति निषेधेन अलोऽन्त्यपरिभाषाया अप्रवृत्तौ इमः कृत्स्नस्य स्थाने अकारे सति "क" इत्यस्य सिद्धेरित्यत आह-अकच्सहितस्येति। त्यदादेरिमोऽकारविधौ "अव्ययसर्वनाम्ना"मिति किंशब्दस्य अकचि कृते ककिमिति स्थिते इमोऽकारे कृते "कक" इति रूपं स्यात्। "किमः कः" इत्युक्तौ तु साकच्कस्यापि किंशब्दस्य "तन्मध्यपतितस्तद्ग्रहणेन गृह्रते" इति न्यायेन किंशब्दत्वात्तस्य कादेशे सति "क" इत्येव रूपं सिध्यतीति भावः। अत्र त्यदादीनामित्यनुवर्त्त्य वचनविपरिणामेन त्यदादेः किमः क इति व्याख्येयम्। अतः सर्वाद्यन्तर्गणकार्यत्वादुपसर्जनत्वे कादेशो न भवति। एवं च विभक्त्युत्पत्तौ कादेशे सर्वशब्दवद्रूपाणीत्याह-कः कावित्यादि। मारुते वेधसि ब्राध्ने पुंसि कः, कं शिरोऽम्बुनोः" इत्यमरः। तत्र कशब्दस्य किंशब्दत्वाऽभावान्न सर्वनामत्वम्। वेधसि तु किंशब्दोऽप्यस्ति। तस्य सर्वनामत्वमस्ति नास्तीति पक्षद्वयं "कस्येत्" इति सूत्रे भाष्ये स्थितम्। कायं हविरित्यत्र यदि किमः कादेशो, यदि वा शब्दान्तरम्, उभयथापि "कस्मा अनुब्राऊही"ति भवितव्यम्। सर्वस्य सर्वनामसंज्ञा। सर्वश्च प्रजापतिः। प्रजापतिश्च कः। अपर आह--उभयथापि कायानुब्राऊहीत्येव संज्ञैषा तत्रभवत इति।

तत्त्व-बोधिनी
किमः कः ३०२, ७।२।१०३

किमः कः। "कायतोर्डिमि"रिति डिमिप्रत्यये निष्पन्नः किंशब्दः। विभक्ताविति। "अष्टन आ विभक्ता"वित्यतोऽनुवर्तत इति बावः। नन्वत्र"इमः"इत्येव सूत्र्यताम्स तेन तिमष्ठिमादीनां क्विबन्तानामतिप्रसङ्गवारणाय त्यदादीनामित्यनुवर्त्त्य "त्यदादीनामिमः अः स्या"दिति व्याख्यास्यते द्विशब्दात्प्रा()क्कशब्दस्य पाठः कर्तव्यः। "नानार्थके"इति निषेधादारम्भसामथ्र्याच्चालोन्त्यविधिर्न भविष्यति, त()त्क कादेशेनेत्यत आह--अकच्सहितस्यापीति। इमोऽकारविधौ तु साकच्कस्य "कक"इति रूपं स्यादिति भावः। नन्वेवं गणकार्यत्वाऽभावादुपसर्जनत्वेऽपि स्यात्, मैवम्, "त्यदादीना"मित्यनुवर्त्त्य"त्यदादीनां किम"इति व्याख्यानात्।