पूर्वम्: ७।२।१०३
अनन्तरम्: ७।२।१०५
 
सूत्रम्
कु तिहोः॥ ७।२।१०४
काशिका-वृत्तिः
कु तिहोः ७।२।१०४

तकारादौ हकारादौ च विभक्तौ परतः किम् इत्येतस्य कु इत्ययम् आदेशो भवति। कुतः। कुत्र। कुह। तिहोः इति इकारः उच्चारणार्थः।
लघु-सिद्धान्त-कौमुदी
कु तिहोः १२०३, ७।२।१०४

किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः। कुतः, कस्मात्॥
न्यासः
कु तिहोः। , ७।२।१०४

पूर्वस्यायमपवादः। तिशब्दस्य विभक्तेरभावादिकार उच्चारणार्थः। तकारस्यैव प्रयोजनम्()। तत्र "यस्मिन्विधिस्तदादावल्ग्रहणे" (व्या।प।१२७) तकारादेशो विभक्तौ कार्यं विधीयते। अत आह--"तकारादौ" इत्यादि। "कुतः" इति। "पञ्चम्यास्तसिल्()" ५।३।७। "कुत्र" इति। "किमोऽत्()" ५।३।१२ इत्यत्र परसूत्राद्वाग्रहणं पुरस्तादपकृष्यते। तेन पक्षे "सप्तम्यास्त्रल्()" ५।३।१० इति त्रल्यपि भवति। "कुह" इति। "वा ह च च्छब्दसि" ५।३।१३ इति हः। एषाञ्च तसिलदीनां "प्राग्दिशो विभक्तिः" ५।३।१ इति विभक्तिसंज्ञा॥
बाल-मनोरमा
कु तिहोः १९२९, ७।२।१०४

कुतिहोः। "कु" इति लुप्तप्रथमाकम्। "किमः कः" इत्यस्मात् "किमः" इत्यनुवर्तते। "अष्टन आ" इत्यतो "विभक्ता"विति। तिश्च ह् च तयोरिति द्वन्द्वः। इकार उच्चारणार्थः। ताभ्यां विभक्तिर्विशेष्यते। तदादिविधिः। तदाह--किमः कुः स्यादित्यादिना। कुत इति। किंशब्दात् पञ्चम्यन्तात्तसिल्। सुब्लुक्। किमः कुभावः। "तसिलादयः प्राक्पाशपः" इत्युक्तेरव्ययत्वम्। वेत्यनुवृत्तेः फलमाह--कस्मादिति। "तिहो"रित्युक्तेरत्र न कुभावः। सर्वनाम्न उदाहरति--यत इति। यच्छब्दात्पञ्चम्यन्तात्सुब्लुक्, तसिलो विभक्तित्वात्तस्मिन्परे त्यदाद्यत्वं पररूपम्। एवं तच्छब्दात्तत इति रूपम्। पक्षे तस्मादिति भवति। अत इति। एतच्छब्दात्पञ्चन्तात्तसिल्। सुब्लुक्। एतदोऽन्। सर्वादेशः। नलोपः। पक्षे "एतस्मा"दिति भवति। इत इति। इदंशब्दात्पञ्चम्यन्तात्तसिल्। सुब्लुक्। "इदम इश्"। पक्षे अस्मादिति भवति। अमुत इति। अदस्शब्दात्पञ्चम्यन्तात्तसिल्, उत्वमत्वे च। पक्षे "अमुष्मा"दिति भवति। बहुत इति। पक्षे "बहुभ्य" इति भवति। द्व्यादेस्त्विति। सर्वनामत्वात्प्राप्तस्तसिल्-द्व्यादिपर्युदासान्नेत्यर्थः।

तत्त्व-बोधिनी
कु तिहोः १४७३, ७।२।१०४

कु तिहोः। तकारादिकार उच्चारणार्थः। वेत्यनुवृत्तेः फलं दर्शयेति---कस्मादिति। यतस्तत इति। "कृत्तद्धिते"ति प्रातिपदिकत्वात्सुपो लुकि त्यादाद्यत्वम्। पक्षे--यस्मात्। तस्मात्। इति इति। "इदम इश्"। पक्षे अस्मात्। अत इति। एतदोऽनादेशः। पक्षे एतस्मात्। अमुत इति। "अदसोसे"रिति मुत्वम्। पक्षे। अमुष्मात्। बहुत इति। पक्षे---बहुभ्यः। द्वाभ्यामिति। सर्वनामत्वात्प्राप्तोऽपि तसिल् "अद्व्यादिभ्यः"इति पर्युदासान्न। तसेरिति। "प्रतियोगे पञ्चम्यास्तसिः;, "अपादाने चाहीयरुहो"रिति विहितस्य तसेस्तसिलादेश इत्यर्थः। विभक्त्यर्थ चेति। अन्यथा परत्वात्तसौ कृते तस्याऽप्राग्दिशीयत्वाद्विभक्तिसंज्ञाया अभावात्त्यदाद्यत्वांऽबावे "यतोऽवगच्छती"त्यादि न सिध्येदिति भावः। ननु तसेग्र्रामत इत्यादौ चरितार्थत्वात्किमादिभ्यस्तसिलो बाध्यत्वेन तसिर्नप्रवर्तते, तस्य निरलकाशत्वात्। तथा च "तसेश्चे"ति विधानं व्यर्थमिति वाच्यं, "कुतोऽवहीयते" "कुतोऽवरोहती"त्यादौ तसिलः सावकाशत्वात्।

सर्वोभयार्थाभ्यामेव।सर्वोभयार्थाभ्यामेवेति। अत्र चाभिधानस्वाभाव्यमेव हेतुः। तेनेह नभवति---परिषिञ्चति। अभिषिञ्चति। उपर्यर्थे परिः। अभिस्त्वाभिमुख्ये। नन्वोदनं परिषिञ्चतीत्यत्र सर्वतोभावो परिरिति तसिलभावः कथमिति चेन्मैवम्। वावचनाऽनुवृत्त्या तु तत्सिद्धेः।