पूर्वम्: ७।२।११
अनन्तरम्: ७।२।१३
 
सूत्रम्
सनि ग्रहगुहोश्च॥ ७।२।१२
काशिका-वृत्तिः
सनि ग्रहगुहोश् च ७।२।१२

ग्रह गुह इत्येतयोः उगन्तानां च सनि प्रत्यये परतः इडागमो न भवति। जिघृक्षति। जुघुक्षति। उगन्तानां च रुरूषति। लुलूषति। सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूउर्णुभरज्ञपि सनाम् ७।२।४९ इति विकल्पविधानात् श्रयतिरत्र न अनुकृस्यते। ग्रहेर् नित्यं प्राप्तः। गुहेः ऊदित्वाद् विकल्पः।
लघु-सिद्धान्त-कौमुदी
सनि ग्रहगुहोश्च ७१३, ७।२।१२

ग्रहेर्गुहेरुगन्ताच्च सन इण् न स्यात्। बुभूषति॥
लघु-सिद्धान्त-कौमुदी
इति सन्नन्तप्रक्रिया ७१३, ७।२।१२

लघु-सिद्धान्त-कौमुदी
अथ यङन्तप्रक्रिया ७१३, ७।२।१२

न्यासः
सनि ग्रहगुहोश्च। , ७।२।१२

ग्रहेः सनि चित्यमिटि प्राप्ते गुहेरप्यूदित्त्वात्? "स्वरति" ७।२।४४ इत्यादिसूत्रेण विकल्पे प्राप्तेऽस्यारम्भः। चकारः "उकः" ७।२।११ इत्यनुकर्षणार्थः। ननु च "इको झल्()" (१।२।९) इत्युगन्तानां किदेव सन्? तत्र पूर्वेणैव प्रतिषेधः सिद्धः किमुक इत्यनुकर्षणार्थेन चकारेण? नैतदस्ति; न हीट्प्रतिषेधमन्तरेण सनो झलादित्वमुपपद्यते, कुतः कित्त्वम्()! अनेन त्विटि प्रतिषिद्धे झलादित्वं सनो जायते, पश्चाद्गुणप्रतिषेधार्थं कित्त्वमिति क्रमः। "जिघृश्रति" इति। "रुदविद" १।२।८ इत्यादिना सनः कित्त्वे सति ग्रह्रादि ६।१।१६ सूत्रेण सम्प्रसारणम्(), "हो ढः" ८।२।३१ इति ढत्वम्(), "षढोः कः सि" ८।२।४१ इति कत्वम्(), "इण्कोः" ८।२।५७ इति षत्वम्(), "एकाचो वशो भष्()" ८।२।३७ इत्यादिना भष्भावेन गकारस्य घकारः, द्विर्वचनम्(), अभ्यासकार्यम्()। "जुधुक्षति" इति। "रुदविद" १।२।८ इत्यादिना सनः कित्त्वे सति ग्रह्रादि ६।१।१६ सूत्रेण सम्प्रसरणम्(), "हो ढः" ८।२।३१ इति ढत्वम्(), "षढोः कः सि" ८।२।४१ इति कत्वम्(), द्विर्वचनम्(), अभ्यासकार्यम्()। "जुघुक्षते" ["जुधुक्षति"--काशिका, पदमञ्जरी च] इति। "गुहू संवरणे" (धा।पा।८९६), "पूर्ववत्सनः" १।३।६२ इत्यात्मनेपदम्()। "रुरूषति" इति। "अज्झनगमां सनि" ६।४।१६ इति दीर्घः। अथ चकारेण यथेगन्तमनुकृष्यते, तथा चैकयोगनिर्दिष्टः श्रयतिरप्यनुकृष्येत? इत्यत आह--"श्रिस्वृयूर्णुरभज्ञपि" इत्यादि। श्रयतेः "सनीदन्तर्घ" ७।२।४९ इतीटो विकल्पं विधास्यतीत्यतस्तस्येहानुवत्तिरपार्थिकेति नानुकृष्यते।
बाल-मनोरमा
सनि ग्रहगुहोश्च ४३७, ७।२।१२

सनि ग्रहगुहोश्च। चकारात् "श्र्युकः किती"त्यत उक इत्यनुकृष्यते, न तु श्रयतिः, तस्य "सनीवन्तर्धे"ति विकल्पस्य वक्ष्यमाणत्वात्। "नेड्वशि कृती"त्यतो नेडिति स इति स्थिते सनः कित्त्वात् "ग्रहीज्ये"ति रेफस्य संप्रसारणमृकार इत्यर्थः। ननु गृह् स इति स्थिते हस्य ढत्वे भष्भावापेक्षया परत्वात्कत्वे सस्य षत्वे च कृते झषन्तत्वाऽभावे कथं भष्भाव इत्यत आह-- सनः षत्वस्येति। कत्वस्याऽसिद्धत्वादित्येव सुचवचम्। जिघृक्षतीति। गृह् स इति स्थिते हकारादिणः परस्य षत्वं परत्वात् प्राप्तं, तस्याऽसिद्धत्वात् हस्य ढत्वे भष्भावः, ततः कत्वे कात्परस्य षत्वमिति क्रम इतिभावः। गुहेः जुघुक्षतीत्युदाहार्यम्। उगन्तात् - - बुभूषति। अत्र "श्र्युकः किती"त्यनेन तु न सिध्यति, तत्र कित एव निषेधात्। परत्वादिडागमे "इको झ"लित्यस्याऽप्राप्तेः। स्पष्टं चेदं शब्देन्दुशेखरे। सुषुप्सतीति। सनः कित्त्वात् "वचिस्वपी"ति संप्रसारणं, लघूपधगुणाऽभावश्च।

तत्त्व-बोधिनी
सनि ग्रहगुहोश्च ३८१, ७।२।१२

सनि ग्रहगुहोश्च। ग्रहेर्नित्यं, गुहेर्विकल्पेन प्राप्ते निषेधोऽयम्। सनः षत्वस्यासिद्धत्वाद्भष्भाव इति। रकुत्वस्याऽसिद्धत्वाद्भष्भाव इत्येव सुवचम्। केचित्तु ढत्वे सति भष्भाव इत्यध्यहारेण योजयन्ति। तथा च जगृह्? स इति स्थिते इणः परत्वेन सस्य षत्वं प्राप्तं,तस्याऽसिद्धत्वाड्ढत्वे भष्भावः। ततश्च कत्वे कवर्गात्परस्य षत्वमिति विधिक्रमः। अन्ये तु षत्वे ढत्वे च कृते पश्चाद्भष्भावे कर्तव्ये सकारपरत्वाऽभावाद्भष्भावो न स्यादित्याशङ्कायां सनः षत्वस्याऽसिद्धत्वादिति ग्रन्थः प्रवृत्त इति कार्याऽसिद्धपक्षावलम्बनेन व्याचक्षते। जिघृक्षतीति। गुहेर्जुघुक्षति। सूत्रे चकारात् "श्र्युकः किती" त्यत उक इत्यनुकृष्यते। उगन्तात्- बुभूषति। लुलूषति। श्रयतिस्तु नाऽनुकृष्यते, तस्य "सनीवन्तर्धे"ति विकल्पविधानात्।