पूर्वम्: ७।२।१५
अनन्तरम्: ७।२।१७
 
सूत्रम्
आदितश्च॥ ७।२।१६
काशिका-वृत्तिः
आदितश् च ७।२।१६

आदितश्च धतोर् निष्थायम् इडागमो न भवति। ञिमिदा मिन्नः। मिन्नवान्। ञिक्ष्विदा क्ष्विण्णः। क्ष्विण्णवान्। ञिष्विदा स्विन्नः। स्वन्नवान्। कारो ऽनुक्तसमुच्चयार्थः। आश्वस्तः। वान्तः। योगविभागकरणं किमर्थम्, आदितश्च विभाषा भावादिकर्मणोः इत्येवं पठितव्यम्, अन्यत्र हि भावादिकर्मभ्याम् यस्य विभाषा ७।२।१५ इति प्रतिषेधो भविष्यति? ज्ञापनार्थम् एतत्। ज्ञापयति यदुपाधेर् विभाषा तदुपाधेः प्रतिषेधः इति। तेन विभाषा गमहनविदविशाम् ७।२।६८ इत्यत्र विदेर्लाभार्थस्य विभाषा इति ज्ञानार्थस्य प्रतिषेधो न भवति। विदितः। विदितवान्।
न्यासः
आदितश्च। , ७।२।१६

भावादिकर्मणोरनन्तरं विभाषां वक्ष्यति, ततोऽन्यत्र कत्र्तरि कर्मणि चायं प्रतिषेधो विज्ञायते। "आ()आस्तः" इत। "()आआस प्राणने" (धा।पा।१०६९)। "वान्तः" इति। "टु वम अद्गिरणे" (धा।पा।८४९)। "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इति दीर्घः। "योगविभागकरणं किमर्थम्()" इति। पृष्टस्य "आदितश्च विभाषा भावादिकर्मणोः" इति। यद्येकयोगः क्रियते, ततो भावादिकर्मभ्यामन्यत्र प्रतिषेधो न स्यादिति प्रतिवचनमात्रङ्क्याह--"आदितश्च" इत्यादि। "आदितश्च विभाषा भावादिकर्मणोः" इत्येकयोगे भावादकर्मणोर्विभाषायां विहितायां ततोऽन्यत्र कत्र्रादौ "यस्य विभाषा" ७।२।१५ इति प्रतिषेधो भविष्यति, तस्मादपार्थक योगविभागकरणम्()। "ज्ञापनार्थम्()" इत्यादिनाऽपार्थकत्वं परिहरति। "यदुपाधेर्विभाषा तदुपाधेः" इति। उभयत्रापि बहुव्रीहिः। उपाधिः=विशेषणम्()। स चैतदर्थं उपाधिर्विज्र्ञेयः। यदि यदुपाधार्विभाषा तदस्योपाधेरपि प्रतिषेधः स्यात्(), तदा योगविभागां न कुर्यात्()। एकयोगेनापि भावादिकर्मणोर्विहिते विकल्पे ततोऽन्यत्र "यस्य विभाषा" ७।२।१५ इति प्रतिषेधो लभ्यत एव, कृतश्च योगविभागः, तस्मादेतेन योगविभागकरणेन सूचितम्()--यदुपाधेर्विभाषा तदुपाधेर्निषेध इति। "तेन" इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति। अत्र विदेर्लाभार्थस्य विभाषेति विशिना तौदादिकेन साहचर्चाल्लाभार्थस्य तौदादीकस्य ग्रहणम्()। "यस्य विभाषा" ७।२।१५ इति च तस्यैव प्रतिषेधो भवति, नान्यस्य। यदि यदुपाधेर्विभाषा तदुपाधेर्निषेध इति ज्ञाप्यते, "जृव्रश्चोः क्त्विः" ७।२।५५, "उदितो वा" ७।२।५६ इति क्त्वाप्रत्यये भावविषये विभाषिते "यस्य विभाषा" ७।२।१५ इति भावविषय एव निष्ठायामिट्प्रतिषेधः स्यात्(), न कर्त्तृकर्मणोः? नैष दोषः; आश्रीयमाणो हि धर्मो भेदको भवति। न च क्त्वाप्रत्यये निष्ठायां वा भिन्नमभिधेयं निमित्तत्वेनाश्रितम्()। तस्माद्भवत्येवात्र प्रतिषेधः। अत्र लिङ्गम्()--"तेन निर्वृत्तम्()" ४।२।६७ इति निद्र्दशः॥
बाल-मनोरमा
आदितश्च ८४३, ७।२।१६

आदितश्च। निष्ठाया इण्न स्यादिति। "()आईदितः" इत्यतो निष्ठायामिति, "नेड्वशी"त्यतो नेडिति चानुवर्तते इति भावः। ति च। "चरफलोश्चे" ति सूत्रानुवृतिं()त मत्वाह-- चरलोरिति। अत उत्स्यादिति। "उत्परस्याऽतः" इत्यतस्तदनुवृत्तेरिति भावः। कितीति। "दीर्घ इणः किती"त्यतो मण्डूकप्लुप्त्या तदनुवर्तते इति भावः। वस्तुतस्तु कितीत्यनुवृत्तिर्निर्मूला, निष्पला च, तयोः सेट्कत्वेन निष्ठां विना तकारादिप्रत्ययाऽभावात्। कथं तर्हीति। प्रफुल्लमित्यस्य सोपसर्गत्वेन निष्ठातस्य लत्वाऽसंभवादिति भावः। समाधत्ते-- फुल्लेति। ननु फुल्लेः पचाद्यचैव फुल्ल इत्यस्य सिद्धेः फुल्ल इत्यस्य निपातनं व्यर्थमित्यताअह-- सूत्रं त्विति। उत्फुल्लसंफुल्ल्योरिति। "निष्ठातस्य लत्वनिपातन"मिति शेषः। सोपसर्गार्थं वचनम्।