पूर्वम्: ७।२।१६
अनन्तरम्: ७।२।१८
 
सूत्रम्
विभाषा भावादिकर्मणोः॥ ७।२।१७
काशिका-वृत्तिः
विभाषा भावाऽदिकर्मणोः ७।२।१७

भवे आदिकर्मणि च आदितो धातोः विभाषा निष्ठायाम् इडागमो न भवति। मिन्नमनेन, मेदितमनेन प्रमिन्नः, प्रमेदितः। सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन। शकितो घटः कर्तुम्, शक्तो घटः कर्तुम्। भावे न भवत्येव, शक्तमनेन। अस्यतेर्भावे, असितमनेन। आदिकर्मणि च न भवत्येव, अस्तः काण्डः।
न्यासः
विभाषा भावादिकर्मणोः। , ७।२।१७

"मिन्नमनेन" इति। "नपुंसके भावे क्तः" ३।३।११४। "मेदितम्()" इति। "निष्ठा शीङ" १।२।१९ इत्यादिना कित्त्वप्रतिषेधे गुणः। "प्रमिन्नः" इति। प्रशब्द आदिकर्म द्योतयति। "आदिकर्म" इति। आदिभूतक्रियाक्षण इति। तस्मिन्? भूतत्वेन विवक्षिते यः क्तः स पुनः "आदिकर्मणि क्तः कत्र्तरि च" ३।४।७१ इत्यनेन कत्र्तरि कारके भवति। शक्तो घटः कर्त्तुम्(), शकिको घटः कर्त्तुमित्यस्य सिद्धये विभावेति योगविभागोऽत्र कत्र्तव्यः। तत्र "आदितः" ७।२।१६ इति नानुवरत्तनीयम्()। "भावादिकर्मणोः" इत्यत्र द्वितीये योगेऽनुवत्र्तमीयमेव॥
बाल-मनोरमा
विभाषा भावादिकर्मणोः ८६१, ७।२।१७

विभाषा भावादिकर्मणोः। आदितो निष्ठाया इड्वेति। "आदितश्चे"त्यत आदित इति, "()आईदितः" इत्यतो निष्ठाग्रहणं , "नेड्वशी"त्यतो नेति चानुवर्तते इति भावः। निषेधस्य वैकल्पिकत्वात्पक्षे इडभ्यनुज्ञायते। प्रस्वेदितश्चैत्र इति। चैत्रकर्तृका आरभ्यमाणप्रस्वेदनक्रियेत्यर्थः। ञीद्भिरिति। ञिरिद्येषां ते ञीतः, तैर्मिदिप्रभृतिभिरिति तदर्थः। स विषयः कित्त्वप्रतिषेधस्येति बोध्यम्। स्विद्यतेस्त्विति। "ञि ष्विदा गात्रप्रक्षरणे" इति दैवादिकस्यैव कित्त्वनिषेधविधौ ग्रहणमित्यर्थः। स्विदित इति। "विभाषा भावे"ति पक्षे इट्। कित्त्वनिषेधविधौ स्विद्यतेग्र्रहणाऽभावात्कित्त्वान्न गुण-। अत्र स्विदादीनाम् "आदितश्चेति इट् प्रतिषिध्यते। भावादिकर्मणोस्तु पक्षे इट्।

तत्त्व-बोधिनी
विभाषा भावादिकर्मणोः ७०६, ७।२।१७

प्रस्वेदित इति। प्रशब्द आदिकर्मद्योतनार्थः। स्वेदितमित्यादि भावे। भ्वादिरत्रेति। "ञिष्विदा स्नेहनमोचनयोः" इति पठितः। स्विद्यतेस्त्विति। "ष्विदा गात्र प्रक्षरणे" इति दिवादिषु पठितस्य स्विदित इत्येवेति, कित्त्वनिषेधाऽभावादिति भावः। न च ष्विदेति दैवादिकोऽपि ञीदिति वाच्यम्, हरदत्तग्रन्थविरोधादिति भावः। अत्र हरदत्तः-- ञिक्ष्विदा स्नेहनमोचनयोरिति दिवादिर्गृह्रते न तु ञिक्ष्विदा अव्यक्ते शब्दे इति भ्वादिरपि, मिदिना साहचर्यादित्याह। तच्चिन्त्यम्। भ्वादिष्वपि मिदेः पठ()मानत्वात्। तस्मादविशेषादुभयोग्र्रहणं न्याय्यं। तदेतदाह-- दिवादी भ्वादी चेति।