पूर्वम्: ७।२।१८
अनन्तरम्: ७।२।२०
 
सूत्रम्
धृषिशसी वैयात्ये॥ ७।२।१९
काशिका-वृत्तिः
धृषी शसी वैयात्ये ७।२।१९

वियातस्य भावो वैयात्यम् प्रागल्भ्यम्, अविनीतता। तत्र धृष शस इत्येतयोः निष्ठायाम् इडागमो न भवति। धृष्टो ऽयम्। विशस्तो ऽयम्। धृषेः आदितश्च ७।२।१६ इति प्रतिषेधः सिद्ध एव, शसेरपि उदितो वा ७।२।५६, यस्य विभाषा ७।२।१५ इति? नियमार्थं वचनम्, धृषिशस्योः वैयात्ये एव इड् न भवति। भावादिकर्मणोरपि वैयात्ये धृषिर्नास्ति। धृष्टः। विशस्तः। वैयात्ये इति किम्? धर्षितः। विशसितः।
न्यासः
घृषिशसी वेयात्ये। , ७।२।१९

"वियातस्य भावो वैयात्यम्()" इति। यातम्()=यातिः, प्राप्तिः विरूपं यातं यस्यासन्मार्गविषयत्वात्? स वियातः=अविनीत इत्युच्यते; तद्भावो वैयात्यम्()। ब्राआहृणादित्वात्? ५।१।१२३ ष्यञ्()। "षुष्टः" इति। "ञि धृषा प्रगल्भ्ये" (धा।पा।१२६९)। "विश्तः" इति। "शसु हिंसायाम्()" (धा।पा।७२७), शसेरपि "उदतो वा" (७।२।५६) इति विकल्पविधानात्? "यस्य विभाषा" ७।२।१५ इतीट्प्रतिषेधः सिद्ध एवेति सम्बध्यते। यदि तर्हि सिद्ध एव प्रतिषेधः तत्? किमर्थं वचनम्()? इत्याह--"नियमार्थम्()" इत्यादि। वैयात्य एव वत्र्तमानोर्यथा स्यात्(), अन्यत्र मा भूत्()। अथ धृषेः "विभाषा भादिवादिकर्मणोः" (७।२।१७) इति विकल्पे प्राप्ते नित्यार्थ वचनमिति कस्मान्न भवति? इत्याह--"भावादिकर्णणोरप , इत्यादि। अत्र चाभित्रानशक्तिस्वाभाव्यं हेतः। "धार्षितः" इति। "धर्षितः इति। पूर्ववत्? कित्त्वे प्रतिषिद्दे गूणः॥
बाल-मनोरमा
धृषिशसी वैयात्ये ८६६, ७।२।१९

धृषिशसी। वियातः = अविनीतः, तस्य भावो वैयात्यम्। तत्र "ञि धृषा प्रागल्भ्ये" इत्यस्य आदित्तवादेवेण्निषेधः सिद्धः, "शसु हिंसाया"मित्यस्य तु "उदितो वे"ति क्त्वायां वेट्कत्वात् "यस्य विभाषे"तीण्निषेधः सिद्धः, अतो नियमार्थमित्याह-- अविनय एवेति। धृष्टो विशस्त इति। अविनीत इत्यर्थः। अन्यत्रेति। वैयात्याऽभावे इत्यर्थः। धर्षित इति। बालात्कृत इत्यर्थः। विससित इति। हिंसित इत्यर्थः। अत्र वैयात्याऽभावादिण्निषेधो नेति भावः। ननु धृषेरादित्त्वात् "विभाषा भावादिकर्मणो"रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु, ततश्च भावादिकर्मभ्यामन्यत्र वैयात्याऽभावेऽपि "आदितश्चे"तीण्निषेद एव स्यादित्यत आह-- भावादिकर्मणोस्त्विति। नास्तीति। अनभिधानादिति भावः। तत्र वृद्धसंमतिमाह-- अत एवेति। भावकर्मणोर्धृषेरनभिधानादेवेत्यर्थः। अन्यथा धृषेरादित्त्वात् "विभाषा भावादिकर्मणो"रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः। चिन्त्यमिति। धृषेरादित्त्वं हि नवैयात्ये आदित्त्वलक्षणेण्निषेधार्थं , "धृषिशसी वैयात्ये" इत्येव सिद्धेः, नापि वैयात्यादन्यत्र आदित्त्वलक्षणेण्निषेधार्थम्, धृषेर्वैयात्य एव इष्निषेधनियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाऽभावात्। नापि धृषेर्वैयात्ये भावादिकर्मणोर्विषये "विभाषा भावादिकर्मणो"रिति इड्विकल्पार्थं, भावादिकर्णोर्वैयात्ये धृषेरनभिधानात्। तस्माद्धृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः। माध्वस्त्विति। अवैयात्ये भावादिकर्मणोरनभिधाने प्रमाणाऽभावादिति भावः। तत्र अवैयात्ये भावे उदाहरति-- धृष्टं धर्षितमिति। आदिकर्मण्युदाहरति-- प्रधृष्टओः प्रधर्षित इति।

तत्त्व-बोधिनी
धृषिशसी वैयात्ये ७११, ७।२।१९

धृषिशसी। ञिधृषा प्रागल्भे। शसु हिंसायाम्। अनयोः "आदितश्च" "यस्य विभाषे"ति सूत्राभ्यामिट्प्रतिषेधे सिद्धेऽप्यनयोर्वैयात्य एवाऽनिट्त्वं नान्यत्रेति नियमार्थमित्याह--- अविनये एवेति। विरुद्धं यातो वियातः = अविनीतः, तस्य भावो वैयात्यम्। ननु धृषेः "विभाषा भावादिकर्मणो"रिति विकल्पे प्राप्ते नित्यार्थं कस्मान्न भवतीत्याशङ्कायामाह-- नास्तीति। अनभिधानादिति भावः। अत्र प्रमाणमाह-- अत एवेति। माधवस्त्विति। एवं च आदित्त्वस्य फलवत्तवाद्धरदत्तोक्तं यच्चिन्त्यं तदेव चिन्त्यमिति भावः।