पूर्वम्: ७।२।२७
अनन्तरम्: ७।२।२९
 
सूत्रम्
रुष्यमत्वरसंघुषास्वनाम्॥ ७।२।२८
काशिका-वृत्तिः
रुष्यमत्वरसङ्घुषाऽस्वनाम् ७।२।२८

वा इति वर्तते। रुषि अम त्वर सङ्घुष आस्वन इत्येतेषां निष्ठायां वा इडागमो न भवति। रुष्टः रुषितः। तीषसहलुभरुष। रिषः ४।२।४७ इति विकल्पविधानात् यस्य विभाषा ७।२।१५ इति प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्। अम अभ्यान्तः, अभ्यमितः। त्वर तूर्णः, त्वरितः। आदितश्च ७।२।१६ इति प्रतिषेधे प्राप्ते वचनम्। सङ्घुष सङ्घुष्टौ पादौ, सङ्घुषितौ पादौ। सङ्घुष्टं वाक्यमाह, सङ्घुषितं वाक्यमाह। सङ्घुष्टौ दम्यौ, सङ्घुषितौ दम्यौ। सम्पूर्वस्य घुषेरविशद्दने ऽपि परत्वादयम् एव विकल्पो भवति। आस्वन आस्वान्तो देवदत्तः, आस्वनितो देवदत्तः। आस्वान्तं मनः, आस्वनितं मनः। आङ्पूर्वस्य स्वनेर् मनो ऽभिधाने ऽपि परत्वादयं विकल्पः क्षुब्धस्वान्त इति निपातनं बाधते।
न्यासः
रुष्यमत्वरसंघुषास्वनाम्?। , ७।२।२८

"रुष रोषे" (धा।पा।१६७०), "अम गत्यादिषु" (धा।पा।४६५)। "अम रोगे" (धा।पा।१७२०) इत्येतस्य चौरादिकस्य ग्रहणं न भविष्यति; एकाच ७।२।१० इत्यधिकारात्()। "ञि त्वरा सम्भ्रमे" (धा।पा।७७५) सम्पूर्वः। पूर्वोक्तो धुषिः। आङ्पूर्वः पूर्वोक्त एव स्वनिः। "आस्वान्तः" इति। पूर्ववद्दीर्घः। "तूर्णः" इति। "ज्वरत्वररुआव्यविमवामुपधायाः" ६।४।२० इत्यूठ्()। "सम्पूर्व" इत्यादि। "घुषिर्? अविशब्देने" (धा।पा।६५३) इत्यस्यावकाशोऽसम्पूर्वत्वे सत्यविशब्देन--घुष्टा रज्जुः, धुष्टौ पादाविति। अस्य च वचनस्यावकाशः सम्पूर्वत्वे सति विशब्दने--संघुषितं वाक्यमाह, संघुष्टं वाक्यमाहेति; सम्पूर्वत्वे सत्यविशब्दन उभयप्राप्तौ परत्वादनेन विक्लपो भवति--संघुष्टौ दन्तौ, संघुषितौ दन्ताविति। "आङ्पूर्वस्य" इत्यादि। "क्षुब्धस्वान्त" ७।२।१८ इति स्वनरिट्प्रतिषेधस्यावकाशः। अनाङपूर्वत्वे सति मनोऽभिधाने स्वान्तं मन इत्यस्यावकाशः, आङ्पूर्वत्वे सतयमनोऽभिधानम्()। "आस्वन्तो देवदत्तः, आस्वनितो देवदत्तः" इति। आङ्पूर्वत्वे सति मनोऽभिधाने स्वान्तं मन इत्यस्यावकाशः, आङ्पूर्वत्वे सत्यमनोऽभिधानम्()। "आस्वन्तो देवदत्तः, आस्वनितो देवदत्तः" इति। आङ्पूर्वत्वे सति मोनऽभिधाने परत्वादयमेव विकलपो भवति--आस्वान्तं मनः, आस्वनितं मनः॥
बाल-मनोरमा
रुष्यमत्वरसङ्घषाऽ‌ऽस्वनाम् ८७६, ७।२।२८

रुष्यमत्वर। रुषि, अम,त्वर, संघुष् , आस्वन्--एषां द्वन्द्वः। णेरिति निवृत्तम्। पञ्चम्यर्थे षष्ठी। तदाह-- एभ्य इति। वा स्यादिति। "वा दान्ते" त्यतस्तदनुवृत्तेरिति भावः। रुष्टः रुषित इति। "तीषसहे"ति रुषो वेट्कत्वात् "यस्य विभाषे"ति निषेधे प्राप्ते विकल्पोऽयम्। आन्तः अमित इति। "अम गत्यादिषु" क्तः। इडभावपक्षे "अनुनासिकस्ये"ति दीर्घः। तूर्णः त्वरित इति। "ञि त्वरा संभ्रमे" क्तः, इडभावपक्षे "ज्वरत्वरे"त्यूठ्। "रदाभ्या"मिति नत्वम्। णत्वम्। "आदितश्चे"ति नित्यमिण्निषेधे प्राप्ते विकल्पोऽयम्। आदित्त्वस्य तु फलमात्मनेपदमात्रं। तदाह-- अस्य आदित्वे फलं मन्दमिति। तथा च "एध वृद्धौ" इत्यादिवद्ध्रस्वानुबन्धत्वमेव न्याय्यमिति भावः। संघुष्टः संघुषित इति। "घुषिरविशब्दने" इति घुषेः संपूर्वस्य नित्यमिण्निषेधे प्राप्ते विकल्पोऽयम्। आस्वान्तः आस्वनित इति। आङ्()पूर्वात् स्वनेः क्तः। इडभावपक्षे "अनुनासिकस्ये"ति दीर्घः। "क्षुब्धस्वान्ते"ति निपातनं तु आङ्()पूर्वस्य स्वनेर्न भवति, परत्वादस्यैव विकल्पस्य प्राप्तेरित्याहुः। "न वे"ति सूत्रभाष्ये तु "सङ्घुषाऽ‌ऽस्वनोर्विषये उभयत्र विभाषे"त्युक्तम्।

तत्त्व-बोधिनी
रुष्यमत्वरसङ्घषाऽ‌ऽस्वनाम् ७२०, ७।२।२८

रुष्य। रुष रोषे "तीषसहे"ति विकल्पितेट्कत्वात् "यस्य विभाषे"त नित्ये निषेधे प्राप्ते विकल्पो विधीयते। अम गत्यादिषु। अम रोगे इति चौरादिकस्तु न गृह्रते, "एकाचः" इत्यधिकारादित्ययाहुः। आन्त इति। "अनुनासकिस्ये"ति दीर्घः। तूर्ण इति। ञित्वरा संभ्रमे, "ज्वरत्वरे"त्यूठ्। निष्ठानत्वम्। "आदितश्चे"ति निषेधे प्राप्ते विकल्पः। एवं च आदित्त्वस्य फलमात्मनेपदमात्रं, तच्च एधत्यादिवद्ध्रस्वानुबन्धत्वेऽपि सिध्यत्येवेत्याशयेनाह-- फलं मन्दमिति। संघुष्ट इति। संपूर्वाद्धुषेर्विशब्दने इटि प्राप्ते विकल्पोऽयम्। अविशब्दनेऽपि संपूर्वस्य परत्वादयं विकल्प एव। आस्वान्त इति। आङ्पूर्वस्य स्वनेर्मनोभिधानेऽप्ययमेव विकल्पः, परत्वात्। आस्वान्तं मनः। आस्वनितं मन इति।