पूर्वम्: ७।२।२८
अनन्तरम्: ७।२।३०
 
सूत्रम्
हृषेर्लोमसु॥ ७।२।२९
काशिका-वृत्तिः
हृषेर् लोमसु ७।२।२९

लोमसु वर्तमानस्य हृषेर् निष्ठायां वा इडागमो न भवति। हृष्टानि लोमानि, हृषितानि लोमानि। हृष्टं लोमभिः, हृषितं लोमभिः। हृष्टाः केशाः, हृषिताः केशाः। हृष्टं केशैः हृषितं केशैः। हृषु अलीके इत्युदित्त्वान् निष्ठायामनिट्, हृष तुष्टौ इत्ययं सेट्, तयोरुभयोरिह ग्रहणम् इत्युभयत्र विभाषा इयम्। लोमानि मूर्धजानि अङ्गजानि च सामान्येन गृह्यन्ते, यथा लोमनखं स्पृष्ट्वा शौचं कर्तव्यम् इति। तद्विषये च हर्षे वर्तमानो लोमसु वर्तते इत्युच्यते। लोमसु इति किम्? हृष्टो देवदत्त इत्यलीकार्थस्य, हृषितो देवदत्तः इति तुष्ट्यर्थस्य। विस्मितप्रतिघातयोश्च इति वक्तव्यम्। हृष्टो देवदत्तः, हृसितो देवदत्तः। विस्मितः इत्यर्थः। हृष्टाः दन्ताः, हृषिताः दन्ताः। प्रतिहताः इत्यर्थः।
न्यासः
ह्मषेर्लोमसु। , ७।२।२९

"ह्मष्टानि लोमानि" इति। गत्यर्थामकर्मकादिना (३।४।७२) अकर्मकत्वात्? कत्र्तरि क्तः। "ह्मष्टं लोमभिः" इति। "नपुंसके भावे क्तः" ३।३।११४ इति क्तः। निष्ठायामनिट्()" इति। "उदितो वा" ७।२।५६ इति क्त्वाप्रत्यय इटि विकल्पिते निष्ठायां "यस्य विभाषा" ७।२।१५ इति प्रतिषेधात्()। "अयं सेट्()" इति। उदात्तत्वादिट्प्रतिषेधाभावात्()। "उभयत्रविभाषेयम्()" इति। प्राप्ते चाप्राप्ते च। आलीक्यार्थस्य प्रतिषेधे प्राप्ते विकल्पः, तुष्ट()र्थस्य चाप्राप्ते; लोमशब्दस्याङ्गजतेष्वेव रूढत्वात्()। लोमस्वित्युच्यमानेङ्गजेष्वेव न केशेषु भवितव्यमिति कस्याचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्त्तुमाह--"लोमानि" इत्यादि। कथम्()? इत्याह--"यथा लोमनखम्()" इत्यादि। अत्र हि सामान्येन ग्रहणं तेषाम्()। तथा हि--केशानपि स्पृष्ट्वा शौचं क्रियत इति। कथं पुनः क्रियावचनसय धातोद्र्रव्येषु लोमसु वृत्तिरुपपद्यते? इत्याह--"तद्विषये" इत्यादि। तानि लोमानि विषयो यस्य स तथोक्तः। ह्मषेर्योऽर्थः स लोमत्साध्यत्वाल्लोमविषयः। तत्र वत्र्तमानो ह्मषिरप्यर्थद्वारेण लोमसु वत्र्तते इत्युच्यते। तदेवमर्थद्वारेण लोम्नां ह्मषिं प्रति विशेषणत्वं दर्शितं भवति। "विस्मितप्रतिधातयोश्च" इति। निपातनमिति। विस्मिप्रतिधातयोर्निष्ठायामिण्? न भनत्येवमर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--ह्मषेरिति योगविभागः क्रियते, ततो विस्मितप्रतिधातयोरपि भविष्यतीति। अथ वा--बहुवचननिर्देशोऽत्र क्रियते, आद्यर्थोऽयं विज्ञायते लोमादिषु लोमस्विति तेन विस्मतप्रतिधातयोरपि भविष्यति॥
बाल-मनोरमा
तत्प्रत्ययस्य च १११४, ७।२।२९

तत्प्रत्ययस्य च। पूर्वसूत्रे यदनुवृतं तत्सर्वमिहाप्यनुवर्तते तच्छब्देन ढप्रत्ययः परामृश्यते। तदाह--ढप्रत्ययान्तस्येति। प्रावाहणेयिः प्रवाहणेयिरिति। शुभ्रादिढगन्तादिञ्। ननु पूर्वसूत्रेणैव सिद्धत्वादिदं व्यर्थमित्यत आह--बाह्रेति। ढक्प्रत्ययान्ताद्बहिर्भूतो य इञ् तन्निमित्ता "तद्धितेष्वचामादे"रिति नित्या आदिवृद्धिः। डाश्रयेणेति। ढप्रत्यये परे विहितेनेति यावत्। तथाविधेन वृद्धिविकल्पेन पूर्वसूत्रविहितेन बाधितुं न शक्यते, भिन्ननिमित्तकत्वादित्यर्थः। पूर्वसूत्रं हि केवलढ प्रत्ययान्ते ढप्रत्ययं परनिमित्तत्वेनाश्रित्य प्रवृत्तं ढङ्निमित्तामादिवृदिं()ध बाधत इति युक्तं, न त्विञ्प्रत्ययनिमित्तामपि नित्यामादिवृद्धिम्।?तस्तस्या अपि बाधनार्थमिदं सूत्रमित्यर्थः। इदं वृद्धिविधिद्वयमपि "शुभ्रादिभ्यश्चे"त्यत्रैव वक्तुं युक्तम्। कल्याण्या। इनङि ङकार इत्।

बाल-मनोरमा
ह्मषेर्लोमसु ८७७, ७।२।२९

ह्मषेर्लोमसु। लोमसु कर्तृष्विति बोध्यम्। इदं च "अजर्य"मिति सूत्रे भाष्ये स्पष्टम्। ह्मष्टं ह्मषितं लोमेति। "गत्यर्थाऽकर्मके"ति कर्तरि क्तः। रोमाञ्चितभूतमित्यर्थः। विस्मितप्रतिघातयोश्चेति। वार्तिकमिदम्। "ह्मषेर्निष्ठाया इड्वे"ति शेषः। उदित्त्वादिति। "उदितो वे"ति क्त्वायां वेट्कत्वात् "यस्य विभाषे"ति निष्ठायां नेडित्यर्थः। तथा अलीकेऽर्थे ह्मष्ट इत्येव। मृषोक्तवानित्यर्थः। इडिति। "ह्मष तुष्टौ" इति धातोः क्ते इडेव भवतीत्यर्थः। ह्मषितः। तुष्ट इत्यर्थः। विस्मितप्रतिघातयोस्तु धातूनामनेकार्थत्वाद्वृत्तिः। तत्र लोमसु, विस्मितप्रतिघातयोश्च "ह्मषु अलीके" इत्यस्मात्। "यस्य विभाषेटति नित्यमिण्निषेधे प्राप्ते विभाषेयम्। "ह्मष तुष्टौ" इत्यस्मात्तु नित्यमिट्प्राप्तौ विभाषेति विवेकः।

तत्त्व-बोधिनी
तत्प्रत्ययस्य च ९३१, ७।२।२९

तत्प्रत्ययस्य च। "प्रवाहणस्य"इति वर्तते। तच्छब्देन ढप्रत्ययः परामृश्यते। तदाह---ढान्तस्येत्यादि। बाह्रतद्धितनिमित्तेति। ढक्()प्रत्ययान्ताद्बहिर्भूतो य इञ् तन्निमित्तेत्यर्थः।

तत्त्व-बोधिनी
ह्मषेर्लोमसु ७२१, ७।२।२९

ह्मषेः। ह्मषु अलीके। उदित्तवन्निष्ठायामनिट्, ह्मष तुष्टौ सेट्, उभयोरपि ग्रहणमित्युभयत्र विभाषेयम्।