पूर्वम्: ७।२।३४
अनन्तरम्: ७।२।३६
 
प्रथमावृत्तिः

सूत्रम्॥ आर्धधातुकस्येड् वलादेः॥ ७।२।३५

पदच्छेदः॥ आर्धधातुकस्य ६।१ ७५ इट् १।१ वलादेः ६।१

समासः॥

वल् आदिः यस्य सः वलादिः, तस्य ॰ बहुव्रीहिः

अर्थः॥

वलादेः आर्धधातुकस्य इडागमः भवति

उदाहरणम्॥

लविता, लवितुम्, लवितव्यम्। पविता, पवितुम्, पवितव्यम्।
काशिका-वृत्तिः
आर्धधातुकस्य इड् वलादेः ७।२।३५

छन्दसि इति निवृत्तम्। आर्धधातुकस्य वलादेरिडागमो भवति। लविता। लवितुम्। लवितव्यम्। पविता। पवितुम्। पवितव्यम्। आर्धधातुकस्य इति किम्? आस्ते। शेते। वस्ते। रुदादिभ्यः सार्वधातुके ७।२।५६ इत्येतस्मिन् नियमार्थे वज्ञायमाने प्रतिपत्तिगौरवम् भवति इति आर्धधातुकग्रहणं क्रियते। वलादेः इति किम्? लव्यम्। पव्यम्। लवनीयम्। पवनीयम्। इटिति वर्तमाने पुनः इड्ग्रहणं प्रतिषेधनिवृत्त्यर्थम्।
लघु-सिद्धान्त-कौमुदी
आर्धधातुकस्येड्वलादेः ४०३, ७।२।३५

वलादेरार्धधातुरस्येडागमः स्यात्। बभूविथ। बभूवथुः। बभूव। बभूव। बभूविव। बभूविम।
न्यासः
आर्घधातुकस्येङूवलादेः। , ७।२।३५

"आस्ते, शेते, वस्ते" इति। "आस उपवेशने" (धा।पा।१०२१), "शीङ्? स्वप्ने" (धा।पा।१०३२), "दस आच्छादने" (धा।पा।१०२३)। अदादित्वाच्छपो लुक्(), "शीङः सार्वधातुके गुणः" ७।४।२१। आर्धधातुकग्रहणादिह--सार्वधातुकस्येण्न भवतीति। ननु च "रुदादिभ्यः सार्वधातुके" ७।२।७६ इत्येतन्नियमार्थ विज्ञायते--"रुदादिभ्य एव सार्वधातुकस्य नान्येभ्य" इति। "रुदादिभ्यः सार्वधातुकस्यैव" इत्येषा तु विपरीतनियमाशङ्का न कत्र्तव्या। यदि ह्रेवंविधो नियमः स्यात्(), तदा रुदादेः परस्य सन इडागमो न स्यात्(); नियमेन व्यावर्त्तितत्वात्()। ततश्च "रुदविद" १।२।८ इत्यत्र रुदिग्रहणमनर्थकं स्यात्(); "हलन्ताच्च" १।२।१० इति कित्त्वस्य सिद्धत्वात्()। तस्मान्नात्र विपरीतनियमाशङ्का। "रुदादिभ्य एव सार्वधातुकस्य, नान्येभ्यः" इत्येष नियमो भविष्यति, ततो नार्थः सार्वधातुकनिवृत्त्यर्थेनाद्र्धधातुकग्रहणेन? इत्यत आह--"रुदादिभ्यः" इत्यादि। "रुदादिभ्यः सार्वधातुके" ७।२।७६ इत्येतस्मिन्नियमार्थे विज्ञायमाने कश्चिन्मन्दबुद्धिः प्रतिपत्ता विपरीतनियमं सम्भावयेत्(), तत्रानन्तरोक्तया नीत्याऽभिमतनियमे प्रतिपद्यमाने "प्रतिपत्तिगौरवं भवति" इति। इतिकरणो हेतौ। यत एव "रुदादिभ्यः सार्वधातुके" ७।२।७६ इत्येतस्मिन्नियमार्थे विज्ञायमाने प्रतिपत्तिगौरवं भवति, अतो हेतोरार्धधातुकग्रहणं कस्मान्न भवति? नार्हतीत्येवमर्थं भवितुम्()। यदि ह्रङ्गस्य स्यात्(), "एकाच उपदेशेऽनुदात्तात्()" ७।२।१० इति प्रत्ययस्येट्प्रतिषेधोऽनर्थकः स्यात्(); प्राप्त्यभावा। "न क्त्वा सेट्()" १।२।१८, "निष्ठा शीङ्()" १।२।१९ इति वचनाच्च। न ह्रस्येडागमे सति क्त्वानिष्ठयोः सेट्त्वमुपपद्यते। इह तर्हि वृक्षात्वम्(), वृक्षतेति प्रातिपदिकप्रत्ययस्य मा भूदित्येवमर्थं कस्मान्न भवति? एवमर्थमपि नार्हति भवितुम्(), "ऋत इद्धातोः" ७।१।१०० इत्यतः "धातोः" इत्यनुवत्र्तते। नन्वेवमपि लूभ्याम्(), लूभिरित्यत्र प्राप्नोतीत्येव, न ह्रत्र प्रकृतेः प्रतिपदिकत्वेन धातुत्वं विहन्यते "क्विबन्ता धातुत्वं न जहति" (व्या।प।१३२) इति कृत्वा, तस्मादिह मा भूदित्येवमर्थमार्धधातुकग्रहणं युक्तम्()? नैतदस्ति; "ॠत इद्धातोः" ७।१।१०० इत्यत्र हि स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणम्()। अत इहापि "धातो" रित्यनुवत्र्तमानं तथाभूतमेवानुवत्र्तते। तेन "धातोः" इत्येवंविहितस्येङ्()विधानात्? लूभ्याम्(), लूभिरित्यत्रासत्यार्धधातुकग्रहण इटः प्रसङ्गो न भवति। तथा जुगुप्सत इत्येवमादावपि; न ह्रत्र धातोरित्येवं सन्? विहितः, किं तर्हि? गुपादीन्? धातून्? स्वरूपेणोपादाय। तस्मादेतन्निवृत्त्यर्थमप्यार्धधातुकग्रहणं न भवतीति वेदितव्यम्()। "ऋत इद्धातोः" ७।१।१०० इत्यत्र स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणं स्यात्()। तदा तस्यापि "ऋतः" इति विशेषणं न परिकल्प्येत। तस्य धातुशब्देऽसम्भवात्? तदर्थस्य विशेषणं विज्ञायत इत्यदोवः। अथ वा--तत्र तन्त्रेण द्वे धादुग्रहण उपात्ते; तत्रैकमर्थपदात्मकम्(), अपरं स्वरूपपदात्मकम्()। तत्र यदर्थपदात्मकं तत्र तस्योपयोगः, अपरस्य त्वत्रेति न कश्चिद्दोषः। तस्मात्? प्रतिपत्तिगौरवपरीहारार्थमेवार्धधातुकग्रहणम्()। अथेङ्ग्रहणं किमर्थम्(), यावता "नेङ्वशि कृति" (७।२।२८) इत्यत इङ्ग्रहणमनुवरत्तते? इत्याह--"इडिति वत्र्तमाने" इत्यादि। तद्धिड्ग्रहणं प्रतिषेधेन सम्बद्धम्(), अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्()। तन्निवृत्यर्थ पुनरिड्ग्रहणं क्रियते। ननु च प्राप्तौ सत्यां प्रतिषेधः स्यात्(), न च वलादेरार्धधातुकस्य केनचिदिट्प्राप्नोति, अतः प्राप्त्यभावादेव विधिरयं विज्ञास्यते, न प्रतिषेधः? नैतदस्ति; एतस्मादेव प्रतिषेधवचनाद्विधिरप्यनुमीयते। नूनमार्धधातुकस्येङ्()विधिरस्तीति येन वलादेः प्रतिषेधं शास्ति। पुनरिड्ग्रहणात्? तु विधिरेष विज्ञास्यते॥
बाल-मनोरमा
आद्र्धधातुकस्येड्?वलादेः ३३, ७।२।३५

सिपस्थलि बभू थ इति स्थिते --आद्र्धधातुस्येट्। "नेड्वशि कृती"त्यस्मादनुवृत्त्यैव सिद्धेरिहेड्ग्रहणं न कार्यमिति "नेड्वशी"ति सूत्रभाष्ये प्रत्याख्यातम्। आद्र्धधातुकस्येति किम्?। जुगुप्सति। अत्र "गुप्तिज्()किद्भ्य" इति सनो धातोरित्यधिकृत्य विहितत्वाऽभावान्नाद्र्धधातुकत्वम्। बभूविथेति। सिपस्थलि तस्य इडागमे वुगादि पूर्ववत्। बभूवथुरिति। थसोऽथुसादेशे वुगादि पूर्ववत्। सकारस्य रुत्वविसर्गौ। बभूवेति। मध्यमपुरुषबहुवचनस्य अकारः सर्वादेश इति "परस्मैपदानां णलतु"सित्यत्रोक्तम्। वुगादि पूर्ववत्। बभूवेति। मिपो णलि वुगादि पूर्ववत्। बभूविवेति। वसो वादेशे वलादित्वादिडागमे वुगादि पूर्ववत्। नचात्र "श्र्युकः किती"तीडागमनिषेधः शङ्क्यः, "कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी"ति क्रादिनियमादिटसिद्धेः। बभूविमेति। मसो मादेशे इडागमे वुगादि पूर्ववत्। इति लिट्प्रक्रिया।

तत्त्व-बोधिनी
आद्र्धधातुकस्येड्वलादेः २७, ७।२।३५

"नेड्वशि कृती"त्यत इडित्यनुवर्तमाने पुनरिड्ग्रहणं निषेधसंबद्धस्येटो निवृत्त्यर्थम्। वस्तुतस्तु "समर्थानां प्रथमाद्वे"त्यनुवृत्तस्य पदत्रयसय् मध्ये "प्राग्दिश्" इत्यनन्तरं "समर्थानां प्रथमा"दिति निवृत्तं, "वे"तित्वनुवर्तत इति व्याख्यानमिव "नेति निवृत्तम्, इडित्यनुवत्र्तते" इति व्याख्यातुं शक्यत्वादिड्ग्रहणं त्युक्तं शक्यम्, तथापि स्पष्टप्रतिपत्त्यर्थं तत्स्वीकृतमिति बोध्यम्। आद्र्धधातुकस्येति किम्?। आस्ते, शेते। वलादेः किम्?। एधनीयम्। ननु "रुदादिभ्यः सार्वधातुके" इत्यनेन सार्वधातुकस्य यदीड्भवति तर्हि रुदादिभ्य एवे"ति नियमादास्ते शेत इत्यत्र इड्न भवेदित्याद्र्धधातुकस्येति ग्रहणं व्यर्थम्। न च रुदादिभ्यः सार्वधातुक एवेति विपरीतनियमाद्रोदितेत्यत्र न स्यात्, आस्ते शेत इत्यत्र तु स्यादिति शङ्क्यम्। "रुदविदमुषग्रहिस्वपिप्रच्छः संश्चे"ति क्त्वाप्रत्यये औपदेशिककित्त्वस्य सुस्थत्वात्। "हलन्तञ्चे"ति झलादिसनः कित्त्वाच्च। तस्माद्विपरीतनियमाऽसंभवेनाद्र्धदातुकग्रहणं व्यर्थमेव। ननु तद्ग्रहणाऽभावे वलादेरित्यस्य-- अङ्गस्येति यदधिकृतं तद्विशेष्यं स्यात्, ततश्च अडाटाविवेडागमोऽतादवस्थ्यात्, अकृते।()पि तद्ग्रहणेऽङ्गस्य यो वलादिरङ्गनिमित्तं तस्येडिति व्याख्यानादिष्टसिद्धेश्च। तस्मादुभयथापि व्याख्यानेशरणीकर्तव्ये "आद्र्धधातुकस्ये"त्यस्य त्याग एव श्रेयान्। नन्वेवं "केशवः", "अङ्गना" "वृक्षत्व"मित्यत्रेट् स्यात्। "ऋत इद्धातो"रित्यतो धातोरित्यनुवर्तनादधातोः परस्य न भवतीति परिहारसंभवेऽपि लूभ्यां पूभ्यामित्यत्र दुर्वार एवेडागमः। विहितविशेषणेनाप्ययं वारयितुमशक्यः, क्विबन्ता धातुत्वं न जहतीति लूभ्यां लूभिरित्यत्र ब्यामादेर्धातोर्विहितत्वाऽनपायात्। किंच "जुगुप्सते" इत्यादौ "गुप्तिज्किद्भ्यः" इति धातोर्विहितस्य सन इड् दुर्वारः स्यात्। न चेह धातोः परत्र विहितस्य वलादेरिति व्याख्यानलाभाय धातोरिति पञ्चम्यन्तमपेक्षितं, तच्च दुर्लभम्, "ऋत इद्धातो"रित्यत्र धातोरित्यस्य षष्ठ()न्तत्वात्, तथा च वृक्षत्वमित्यादावपीडागमप्रसङ्ग इति वाच्यं, शब्दाधिकारपक्षे स्वरितत्वेन तत्सदृशशब्दोऽनुमीयत इति पञ्चम्यन्तलाभात्। अस्तु वा षष्ठ()न्तत्वं, विहितत्वं षष्ठ()र्थ इति व्याख्यायामिष्टसिद्धः। तस्माज्जुगुप्सत इत्यादावतिप्रसङ्गवारणार्थमाद्र्धधातुकस्यति ग्रहणम्। केचित्तु--- धातोरित्युच्चार्य विहितो यः प्रत्ययस्तस्य#एडिति यदि व्याख्यायेत तदा लूभ्यां जुगुप्सत इत्यत्रातिप्रसङ्गाऽभावादाद्र्धधातुकस्येति व्यर्थमित्याहुः। बभूविवेति। न चाऽत्र "श्र्युकः किती"तीण्निषेधे वुगागमोऽपि न स्यादिति शङ्क्यं, क्रादिनियमादिटः प्रवृत्तेः॥