पूर्वम्: ७।२।३५
अनन्तरम्: ७।२।३७
 
सूत्रम्
स्नुक्रमोरनात्मनेपदनिमित्ते॥ ७।२।३६
काशिका-वृत्तिः
स्नुक्रमोरनात्मनेपदनिमित्ते ७।२।३६

नियमार्थम् इदम्। स्नुक्रमोः आर्धधातुकस्य वलादेः इडागमो भवति, न चेत् स्नुक्रमी आत्मनेपदस्य निमित्तं भवतः। क्व च तावात्मनेपदस्य निमित्तम्? यत्र आत्मनेपदं तदाश्रयं भवति, भावकर्मकर्मकर्तृकर्मव्यतिहाराः क्रमेर् वृत्त्यादयश्च। तेन अयम् सत्यात्मनेपदे प्रतिषेधो भवति न असति इति। प्रतिषेधफलं च इदं सूत्रम्। स्नुक्रमोरुदित्वातिट् सिद्ध एव। प्रस्नविता। प्रस्नवितुम्। प्रस्नवितव्यम्। प्रक्रमिता। प्रक्रमितुम्। प्रक्रमितव्यम्। अनात्मनेपदनिमित्ते इति किम्? प्रस्नोषीष्ट। प्रक्रंसीष्ट। प्रस्नोष्यते। प्रक्रंस्यते। प्रसुस्नूषिष्यते। प्रचिक्रंसिष्यते। सर्वत्र एव अत्र स्नैतिः क्रमिश्च आत्मनेपदस्य निमित्तम्। सनन्तादपि पूर्ववत्सनः १।३।६२ इति आत्मनेपदं विधीयते। निमित्तग्रहणं किम्? सीयुडादेस् तत्परपरस्य च प्रतिषेधार्थम्। इह तु प्रस्नवितेवाचरति इति प्रस्नवित्रीयते इति क्यङतम् आत्मनेपदस्य निमित्तम्, न स्नौतिः। क्रमेस् तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः। प्रक्रन्ता। उपक्रन्ता। कर्तरि इति किम्? प्रक्रमितव्यम्। उपक्रमितव्यम्। आत्मनेपदविषयातिति किम्? निष्ट्रमितिआ। स्नौतेः सनि किति च प्रत्यये श्र्युकः किति ७।२।११, सनि ग्रहगुहोश्च ७।२।१२ इत्येव प्रतिषेधो भवति। प्रसुस्नूषति। प्रस्नुतः। प्रस्नुतवान्।
न्यासः
स्नुकरमोरनात्मनेपदनिमित्ते। , ७।२।३६

"स्नु प्ररुआवणे" ["ष्णु"--धा।पा।] (धा।पा।१०३८), "क्रमु पादविक्षेपे" (धा।पा।४७३)--अनयोरुदात्तत्वादिटि सिद्धे नियमार्थं वचनम्()--अनात्मनेपदविषय एवानयोर्यथा स्यात्(), अन्यत्रा मा भूदिति। ननु च स्नोतेरुगन्तत्त्वात्? किति सनि च प्रतिषेधविधानात्? तस्य वचनं विद्यर्थमपि सम्भवति? नैतदस्ति; "आर्धधातुकस्येड्वलादेः" ७।२।३५ इत्यनुवत्र्तते। तेनास्याः प्राप्तेर्विषये योगोऽयमिति विज्ञायते। न चास्याः प्राप्तेः सन्कितौ विषयौ; तयोरपवादविषयत्वात्()। आत्मनेपदनिमित्ते इति प्रथमाद्विवचनान्तम्()। स्नुक्रमोरेतद्विशेषणमिति दर्शयितुमाह--"न चेत्()" इत्यादि। "क्व च तावात्मनेपदनिमित्ते" इति। किं यत्रात्मनेपदं प्रति योग्यतामात्रमपि तयोरस्ति तत्रापि तावात्मनेपदनिमित्ते? उत यत्र तदाश्रयमात्मनेपदं भवति तत्र? एवमर्थ पृच्छति--"यत्र" इत्यादि। अत्रैवं व्याख्यानम्()--यत्र तदाश्रयमात्()मनेपदं सम्भवति तत्र तावात्मनेपदनिमित्ते। किं पुनस्तद्? यत्र तदाश्रयमात्मनेपदं भवति? इत्याह--"भावकर्मकर्त्तृकर्मकर्मव्यतीहारः, क्रमेश्च" इति। एषु हि स्तुक्रम्याश्रयमात्मनेपदं भवति। आदिशब्देन सर्गादिपरिग्रहः। निमित्तम्()=कारणम्()। न चाकुर्वत्? कार्य#ं कारणं भवति। यत्र त्वकुर्वत्यपि कार्यं कुसूलस्य बीजादौ कारणमपि व्यपदेशः, तत्रासौ योग्यतयौपचारिकः। तस्माद्यत्र स्नुक्रमावाश्रित्यात्मनेपदं भवति, तत्रैव भावकर्मादौ तयोरात्मनेपदनिमित्तं मुख्यं विज्ञायते। "तेन" इत्यादि। यस्मादेवं यत्र तावाश्रित्यात्मनेपदं भवति तत्र तयोरात्मनेपदनिमित्तत्वम्()। तेन सत्यात्मनेपदे प्रतिषेधोऽयं भवति, नासति। न ह्रसत्यात्मनेपदे तयोर्मुख्यमात्मनेपदनिमित्तत्वमुपपद्यते। ततश्च प्रस्नविता, प्रस्नवितुम्(), प्रस्नवितव्यम्(), प्रक्रमिता, प्रक्रमितुम्(), प्रक्रमितव्यमित्यत्र यद्यप्यात्मनेपदयोग्यत्वात्? स्नुक्रमावात्मनेपदस्य निमित्तव्यपदेशमासादयतः, तथापि प्रतिषेधो न भवति। न ह्रत्र मुख्यमात्मनेपदनिमित्तत्वम्(); आत्मनेपदाभावात्()। "प्राप्नोषीष्टेति। आशिषि लिङ्? सीयुट्(), "भावकर्मणोः" १।३।१३ इत्यात्मनपदम्(), "सुट्()तिथोः" ३।४।१०७ इति सुट्(), षत्वम्(), ष्टुत्वम्()। "प्रक्रंसीष्ट" इति। अत्र "प्रोपाभ्यां समर्थाभ्याम" १।३।४२ इति कत्र्तर्थात्मनेपदम्()। "प्रस्नोष्यते" इति। "लृट्? शेषे च" ३।३।१३ इति लृट्()। "प्रचिक्रंसते" [नास्तीदमुदाहरणं काशिकायाम्()। "प्रचिक्रंसिष्यते" इत्येवास्ति] इति। सन्(), "पूर्ववत्सनः" १।३।६२ इत्यात्मानेपदम्()। "सर्वत्रैव" इत्यादि। युक्तं प्रक्रंसीष्ट, प्रस्नीषीष्टेत्यादौ स्नुक्रमोरात्मनेपदस्य निमित्तत्वम्(), तस्मादात्मनेपदस्य विधानात्(); प्रचिक्रंसत इत्यत्र तु कथं क्रमिरात्मनेपदस्य निमित्तम्(), न ह्रत्र क्रमिमाश्रित्यात्मनेपदं भवति, किं तर्हि? सनन्तं धात्वन्तरम्()? इत्याह--"सनन्तादपि" इत्यादि। सनन्तादपि हि यदात्मनेपदं विधीयते "पूर्ववत्सनः" १।३।६२ इत्यनेन। तेन तत्रापि पूर्ववदिति वचनात्? पूर्व धातुस्वरूपमात्मनेपदस्य निमित्तमाश्रीयत इति। यद्यपि सनन्तादात्मनेपदं विधीयते तथापि क्रमेस्तत्र निमित्ताभावोऽस्त्येवेत्यभिप्रायः। अथ निमित्तग्रहणं किमर्थमुपादीयते, न "आत्मनेपदे" इत्येवोच्यते? इत्यत आह--"निमित्तग्रहणम्()" इत्यादि। सीयुट्? आदिर्यस्य स सीयुडादिः, तदात्मनेपदे परं यस्मात्? स तत्परः स्यप्रत्ययः, स परो यस्मात्? स तत्परपरः सन्प्रत्ययः; तयोः प्रतिषेदो यथा स्यादित्यवमर्थं निमित्तग्रहणम्()। तत्र सीयुडादेः प्रतिषेधार्थम्()--प्रस्नोषीष्ट, प्रक्रंसीष्टेति; तत्परपरस्य च प्रतिषेधार्थम्()--प्रचिक्रंसिष्यत इति; अत्र हि निमित्तग्रहणं न क्रियते, तदा "आत्मनेपदे" इत्येषा परसप्तमी विज्ञायेत। न च प्रस्नीषीष्ट, प्रक्रंसीष्टेत्यात्मनेपदे परत आर्धधातुकमस्ति तथा ह्रात्मनेपदस्यागमः सीयुट्(), तदेकदेशात्वदात्मनेपदे परत उच्चार्थमाणः प्रतिषेधो न स्यात्()। प्रचिक्रंसिष्यत इत्यत्र "आत्मनेपदे" इत्येतस्यां परसप्तम्यां विज्ञायमानायां "तस्मिन्निति निर्दिष्टे पूर्वस्य" (१।१।६६) इति निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्? स्येन व्यवधाने सति सन इट्प्रतिषेधो न स्यात्? निमित्तग्रहणे तु सति भवति। अस्ति ह्रत्र सर्वत्र स्नुक्रमोर्यथायोगमात्मनेपदं प्रति निमित्तभावः। तस्मान्निमित्तग्रहणं कत्र्तव्यम्()। प्रस्नवित्रीयत इत्यत स्नौतेरात्मनेपदं परं चोपलब्धम्(); अतः स्नौतिरात्मनेपदसय निमित्तमिति प्रतिषेधेन भवितश्यमिति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्त्तुमाह--इह प्रस्नवितेवाचरति" इत्यादि। क्वचित्? "प्रस्नवितारमिवाचरति" इति पाठः, स तु नोपपद्यते। न हि कर्मणः क्यङ्? विधीयते, किं तर्हि? सुबन्तात्? कर्त्तुः। तस्मात्? प्रमादकृतोऽयं पाठः। प्रस्नवितेवाचरतीति तृ()जन्तात्(), "कर्त्तुः क्यङ सलोपश्च" ३।१।११ इति क्यङ्(), "रीङृतः" ७।४।२७ इति रीङ्()। क्यङन्तादातमनेपदं विधीयमानं ङित इत्येवं विधीयते। स च स्नौतिर्ङित्? किं तर्हि? क्यङन्तः। तस्मात्? क्यङन्तमेवात्मनेपदनिमित्तं न स्नौतिरिति न भवति प्रतिषेधः। "क्रमेस्तु" इत्यादि। निमित्तग्रहणात्? सत्येवात्मनेपदे प्रतिषेधेन भवितव्यम्(), नासतीति। कत्र्तरि कृति प्रतिषेधो न प्राप्नोतीत्युपसंख्यायते। "प्रक्रान्ता, उपक्रान्ता" इति। "प्रोपाभ्यां समर्थाभ्याम्()" (१।३।४२) इति प्रोपाम्यामुपसुष्टात्? क्रमेरात्मनेपदवषानादिह क्रमेरात्मनेपदस्य विषयः। "आत्मनेपदविषयः" [आत्मनेपदविषयात्()--मूलम्()] इति। आत्मनेपदं विषयो यस्य स आत्मनेपदविषयः। "प्रक्रमितव्यम्(), उपक्रमितव्यम्()" इति। "तयोरेव कृत्यक्तखलर्थाः" ३।४।७० इति भावे कर्मणि कृत्यः। "निष्क्रमिता" इति। "इदुदुपषस्य" ८।३।४१ इति विसर्जनीयस्य षत्वम्()। निष्फूर्वात्? क्रमेरात्मनेपदस्याभावादिहात्मनेपदस्य वषयो न भवति। अथ प्रसुस्नूषति, प्रस्नुतः, प्रस्नुतवानित्यत्र कस्मान्न भवति, न ह्रत्र स्नौतिरात्मनेपदविषयः? इत्यात आह--"स्नौतेः" इत्यादि। ननु "श्रयुकः किति" ७।२।११, "सनि ग्रहगुहोश्च" ७।२।१२ इतीट्प्रतिषेधस्य धात्वन्तरमुगन्तमवकाश इति परत्वादिदैवात्र भवितव्यम्(), न प्रतिषेधेन? नैतदस्ति; उक्तं हि पुरस्तात्? प्रतिषेधकाण्जस्य बलीयस्त्वात्? प्रयोजनमिण्मात्रस्थानाश्रितविशेषविधानस्य प्रतिषेधो यथा स्यादिति॥
बाल-मनोरमा
स्नुक्रमोरनात्मनेपदनिमित्ते १६३, ७।२।३६

स्नुक्रमोः। पञ्चम्यर्थे षष्ठी। आत्मनेपदनिमित्तस्याऽभावः--अनात्मनेपदनिमित्तम्। अर्थाभावेऽव्ययीभावेन सह नञ्तत्पुरुषो विकल्प्यत इत्युक्तेः समासः। आत्मनेपदनिमित्ताऽभावे सति स्नुक्रम्भ्यां परस्य वलाद्याद्र्धधातुकस्य इट् स्यादित्यर्थः। स्नुक्रमोरनुदात्तोपदेशानन्तर्भावदिटि सिद्धे वचनमिदं नियमार्थमित्याह--अत्रैवेडिति। एवं च भावकर्मलकारेषु इण्न भवति। उपस्नोष्यते जलेन। बावलकारोऽयम्। उपक्रस्यते। कर्मणि लुट्। स्यः। "प्रस्नुत"मित्यत्र तु श्र्युकः कितीति निषेधान्नेट्, "आद्र्धधातुकस्येड्वलादे"रितीड्विधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामथ्र्यात्। "स्नुक्रमोरनात्मनेपदे" इति तु न सूत्रितम्, आत्मनेपदभिन्ने परस्मैपदे परे इत्यर्थे चिक्रमिषिष्यतीत्यसिद्देः, स्येन व्यवधानात्। आत्मनेपदे परे नेडित्र्थे तु प्रचिक्रंसिष्यत इत्यसिद्धिः, अतो निमित्तग्रहणमित्यलम्। अक्रमीदिति। "ह्म्यन्ते"ति न वृद्धिः। इति क्रम्यन्ताः परस्मैपदिनो गातः। रेवत्यन्ता इति। "रेवृ प्लवगता"वित्येतत्पर्यन्ता इत्यर्थः। अयपयेत्यारभ्य शल चलने इत्यतः प्राग यकारान्ताः।

तत्त्व-बोधिनी
स्नुक्रमोरनात्मनेपदनिमित्ते १३७, ७।२।३६

स्नुक्रमो। अनात्मनेपदनिमित्ते इति। आत्मनेपदनिमित्ताऽभावे इत्यर्थः। अन्ये तु द्विवचनस्थाने व्यत्ययेन एकवचनम्, अनात्मनेपदनिमित्तयोरित्यर्थ इत्याहुः। उभयोरपि भावकर्मकर्मव्यतिहारास्तङो निमित्तं, क्रमेस्तु वृत्तिसर्गादयोऽपीति बोध्यम्। स्नुकर्मोरुदात्तत्वदिटि सिद्धे नियमार्थोऽमित्याह-- अत्रैवेडिति। अनात्मनेपदेति किम्?। "उपस्नोष्यते जलेन"। "उपक्रंस्यते"। "आक्रंस्यते"। निमित्त इति किम्? स्नौतीति स्नविता, स इवाचरति स्नवित्रीयते। इह क्यङ् आत्मनेपदनिमित्तं न तु स्नौतिरित्याहुः।