पूर्वम्: ७।२।३
अनन्तरम्: ७।२।५
 
सूत्रम्
नेटि॥ ७।२।४
काशिका-वृत्तिः
नेटि ७।२।४

इढादौ सिचि हलनतस्य अङ्गस्य वृद्धिर् न भवति। अदेवीत्। असेवीत्। अकोषीत्। अमोषीत्। हलन्तस्य इत्येव, अलावीत्। ननु च एतदप्यन्तरङ्गत्वात् गुणावादेशयोः कृतयोः हलन्तं भवति? न एतदेवम्। अन्तरङ्गम् अपि गुणम् वचनारम्भसामर्थ्यात् सिचि वृद्धिर् बाधते इत्युक्तम्।
लघु-सिद्धान्त-कौमुदी
नेटि ४७९, ७।२।४

इडादौ सिचि हलन्तस्य वृद्धिर्न। अगोपीत्, अगौप्सीत्॥
न्यासः
नेटि। , ७।२।४

हलन्तस्याच इति या वृद्धिः प्राप्ता सा हलन्तलक्षणा वृद्धिरनेन प्रतिषिध्यते "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इति कृत्वा। "अदेवीत्(), असेवीत्()" इति। "दिवु क्रीडादो" (धा।पा।११०७), "सिवु तन्तुसन्तानेट ["षिवु"--दा।पा।] (धा।पा।११०८)। वृद्धौ प्रतिषिद्धायां "पुगन्तलघूपधस्य" ७।३।८६ इति गुणः। "अकोषीदमोषीत्()" इति। "कुष निष्कर्णे" (धा।पा।१५१८), "मुष स्तेये" (धा।पा।१५३०)। "नन्वत्रैतदन्तरङ्गत्वात्()"[नन्वत्रैतदप्यन्तरङ्गत्वात्()--कीशिका] इति चोद्यम्()। "नैतदेवम्()" इति परिहारः। उभयञ्चैतद्गतार्थम्()॥
बाल-मनोरमा
नेटि ११२, ७।२।४

नेटि। प्रागुक्तं नेति। "वदव्रजहलन्तस्याच" इत्युक्तं नेत्यर्थः। ततर् वदव्रजयोर्विशिष्य विधानाद्धलन्तलक्षणाया एव वृद्धेर्निषेधोऽयम्। हलन्तलक्षणा वृद्धिस्तुअधाक्षीदित्यादावनिडादौ सिचि चरितार्था। नन्वातीदित्यातौ अकारस्य वृद्धौ सत्यामसत्यां च आटा एकादेशे सति रूपे विशेषाऽभावा()त्क तन्निषेधेनेत्याशङ्क्याह--मा भवानतीदिति। माङ्योगे आडभावे सति वृद्धिनिषेधः सफल इति भाव-। चितीति। ईदित्त्वम् "()आईदितो निष्ठाया"मिति इण्निषेधार्थम्। चेततीति। शपि लघूपधगुणः। चिचेतेति। तिबादेशणलः पिच्वेन असंयोगादिति कित्त्वस्याऽप्रवृत्तेर्न गुणनिषेधः। चिचिततुरित्यादौ तु कित्त्वान्न गुणः। अचेतीदिति। "इट ईटी"ति सलोपः। अचेतिष्टामिति। अपृक्तत्वाऽभावादीडभावान्न सिज्लोपः। नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः। च्युतिरिति। च्युतिरिति। अत्र इकारस्य रेफस्य च प्रत्येकमित्संज्ञायामिदित्त्वानुमि प्राप्ते आह-- इर इत्संज्ञति। तथा च इरिति समुदायस्य इत्संज्ञकत्वादिदित्त्वाऽभावान्न नुमिति भावः। च्योततीति। लघूपधगुणः। चुच्योतेति। णलः पित्त्()वेन कित्त्वाऽभावान्न गुणनिषेध इति भावः। चुच्युततुरित्यादौ तु कित्त्वान्न गुणः। लुङि च्लेः स#इचि प्राप्ते।

तत्त्व-बोधिनी
नेटि ८७, ७।२।४

नेटि। प्रागुक्तं नेति। हलन्तत्वादेव सिद्धे वदव्रजोर्विशिष्य विधानान्न निषेधः, किंतु हलन्तलक्षणा या एव वृद्धेर्निषेधः तस्या अनिडादौ सिचि चारितार्थतत्वात्। अमुमेवार्थ मनसि निधाय क्वचित्पुस्तकेषु "हलन्तलक्षणा वृद्धिर्ने"इत्येव पठ()ते। इर इत्संज्ञेति। इकारस्य "उपदेशेऽजनुनासिकः" इति, रेफस्य तु "हलन्त्य"मिति प्रत्येकमित्संज्ञायाम् "इदित" इति नुम् स्यादिति भावः। एतस्य वैयथ्र्यं "चक्षिङ् व्यक्ताव्यां वाची"त्यत्र स्फुटीभविष्यति।