पूर्वम्: ७।२।४१
अनन्तरम्: ७।२।४३
 
सूत्रम्
लिङ्सिचोरात्मनेपदेषु॥ ७।२।४२
काशिका-वृत्तिः
लिङ्सिचोरात्मनेपदेषु ७।२।४२

वृ̄तो लिङि सिचि च आत्मनेपदपरे वा इडागमो भवति। वृषीष्ट, वरिषीष्ट। प्रवृषीष्ट, प्रावरिषीष्ट। आस्तरिषीष्ट, आस्तीर्षीष्ट। सिचि खल्वपि अवृत, अवरिष्ट, अवरीष्ट। प्रावृत, प्रावरिष्ट, प्रावरीष्ट। आस्तीर्ष्ट, आस्तरिष्ट, आस्तरीष्ट। आत्मनेपदेषु इति किम्? प्रावारिष्टाम्। प्रावारिषुः। लिङः प्रत्युदाहरणं न दर्शितम्, असम्भवात् यासुटो ऽवलादित्वातिति।
लघु-सिद्धान्त-कौमुदी
लिङ्सिचोरात्मनेपदेषु ६९४, ७।२।४२

वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड् वा स्यात्तङि॥
न्यासः
लिङ्?सिचोरात्मनेपदेषु। , ७।२।४२

वृ()त उदात्तत्वादिटि प्राप्ते विकल्पार्थ आरम्भः। "आत्मनेपदेषु" इति परसपतमीयम्()। सिचश्चैतद्वि शेषणम्()। यद्येवम्(), लिङ्? विशेषितो न स्यात्(), ततश्च लिङ्? परस्मैपदेष्वपि प्रसज्येत? नैतदस्ति; "वलादेः" ७।२।३५ इत्यधिकारात्(), लिङ्श्च परस्मैपदेषु यासुडादित्वाभावात्()। "आत्मनेपदपरे" इति। आत्मनेपदं परं यस्मात्? स तथोक्तः। एतच्च सिजित्यनेनैव सम्बध्यते, न लिङित्यनेम; सिचमेव प्रत्यात्मनेपदग्रहणस्य विशेषणभावात्()। "वृ()षीष्ट" इति। "उश्च" १।२।१२ इति कित्त्वाद्गुणाभावः। "आस्तीर्षीष्ट"इति। पूर्ववत्? कित्त्वदीर्घत्वादिः। "अवृत" इति। "ह्यस्वादङ्गात्()" ८।२।२७ इति सिचो लोपः॥
बाल-मनोरमा
लिङ्सिचोरात्मनेदेषु ३५८, ७।२।४२

"इट् सनि वा" इत्यत इड्वेत्यनुवर्तते। "वृ()तो वे"त्यतो "वृत" इति। तदाह--वृङ्वृञ्भ्यामित्यादिना।

तत्त्व-बोधिनी
लिङ्सिचोरात्मनेपदेषु ३१३, ७।२।४२

लिङ्सिचोः। "वृ()त इत्यनुवर्तते। आत्मनेपदेषु किम्?। अवारीत्। अवारिष्टाम्। अवारिषुः। "सिचि च परस्मैपदेषु" इति निषेधादिह "वृ()तो वे"ति न दीर्घः।