पूर्वम्: ७।२।४८
अनन्तरम्: ७।२।५०
 
सूत्रम्
सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्॥ ७।२।४९
काशिका-वृत्तिः
सनि इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूउर्णुभरज्ञपिसनाम् ७।२।४९

इवन्तानां धातूनाम्, ऋधु भ्रस्ज दम्भु श्रि स्वृ यु ऊर्णु भर ज्ञपि सनित्येतेषां च सनि वा इडागमो भवति। इवन्तानाम् दिदेविषति, दुद्यूषति। सिसेविषति, सुस्यूषति। ऋधु अर्दिधिषति, ईर्त्सति। भ्रस्ज बिभ्रज्जिषति, बिभ्रक्षति, बिभर्ज्जिषति, बिभर्क्षति। दम्भु दिदम्भिषति, धिप्सति, धीप्सति। श्रि उच्छिश्रयिषति, उच्छिश्रीषति। स्वृ सिस्वरिषति, सुस्वूर्षति। यु यियविषति, युयूषति। ऊर्णु प्रोर्णुनविषति, प्रोर्णुनविषति, प्रोर्णुनूषति। भर इति भृञित्येतस्य भौवादिकस्य ग्रहणम्, शपा निर्देशात्। विभरिषति, बुभूर्षति। ज्ञपि जिज्ञपयिषति, ज्ञीप्सटि। सन् सिसनिषति, सिषासति। केचिदत्र भरज्ञपिसनितनिपतिदरिद्राणाम् इति पठन्ति। तनि तितनिषति, तितंसति, तितांसति। पति पिपतिषति, पित्सति। दरिद्रा दिदरिद्रिषति, दिदरिद्रासति। सनि इति किम्? देविता। भ्रष्टा।
न्यासः
सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्?। , ७।२।४९

इवन्तानामिति। "दिवु" (धा।पा।११०७), "सिवु" (धा।पा।११०८) इत्येवमादीनाम्()। "ऋधु वृद्धौ" (धा।पा।१२४५ "भ्रस्ज पाके" (धा।पा।१२८४), "दम्भे" ["दम्भने"--धा।पा।] (धा।पा।१२७०), "श्रिञ्()सेवायाम्()" (धा।पा।८९७), "स्वृ शब्दोपतापयोः" (धा।पा।९३२), "यू मिश्रणे" ["मिश्रणेऽमिश्रणे च"--धा।पा।] (धा।पा।१०३३), "ऊर्णु आच्छादने" (धा।पा।१०३९), "श्रिञ्? भरणे" (()), मारणतीषणनिशामनेषु ज्ञपिण्र्यन्तः। "षणु दाने" (धा।पा।१४६४), "वन षण सम्भक्तौ" (धा।पा।४६३,४४४)--द्वयोरपि ग्रहणम्(); विशेषानुपादानात्()। अत्र भ्रस्जेरनुदात्तत्वात्(), ल्वुयुर्णुभृञां चोगन्तत्वात्? "सनि ग्रहगुहीश्च" ७।२।१२ इति प्रतिषेधे प्राप्ते, शेषाणामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पोऽयमारभ्यते। "दुद्यूषति" इति। दिवेः सन्(), "हलान्तच्च" १।२।१० इति सनः कित्त्वम्(), "च्छ्वो शूडनुनासिके" ६।४।१९ इत्यूठि यणादेशः, द्विर्वचनम्()--"द्यूष" इत्येतस्य, "हलादिः शेषः" ७।४।६० इति चत्र्वम्()--धकारस्य दकारः। "विभ्रज्जिषति" इति। "झलां जश्? झशि" ८।४।५२ इति सकारस्य दकारः, "स्तोः श्चुना श्चुः" ८।४।३९ इति श्चुत्वम्()--दकारस्य जकारः। "बिभक्र्षति" इति। भ्रस्जो रोपधाया रमन्यतरस्याम्()" (६।४।४७) इत्यकारात्? परो रमागमः "रोपधयोः" इति षष्ठीनिर्देशाद्रेफस्योपधायाश्च सकारस्य निवत्र्तकः, "चोः कुः" ८।२।३० इति कुत्वम्(), "इण्कोः" ८।३।५७ इति"आदेशप्रत्यययोः" ८।३।५९ इति षत्वम्()। "घिप्सति, घीप्सति" इति। "दम्भ इच्च" ७।४।५६ इतीत्त्वमीत्त्वञ्च, "खरि च" ८।४।५४ इति चत्र्वम्(), भकारस्य पकारः, पूर्ववदभ्यासलोपः, "हलान्ताच्च" १।२।१० इति कित्त्वादनुनासिकलोपः। "उच्छिश्रीषति" इति। "इको झल्()" १।२।९ इति कित्त्वम्(), "अज्झनगमां सनि" ६।४।१६ इति दीर्घत्वम्(), द्विर्वचनमभ्यासकार्यम्()। "आदेशप्रत्ययोः" ८।३।५९ इति षत्वम्(), दकारस्य चुत्वम्()--चकारः। "शश्छोऽटि" ८।४।६२ इति शकारस्य च्छकारः। "सिस्वरिषति" इति। द्विर्वचनम्? "स्वृ" इत्येतस्य, "उरत्()" ७।४।६६ इत्यत्त्वम्(), रपरत्वञ्च। "सुस्वूर्षति" इति। पर्ववद्दीर्घः, "उदोष्ठ()पूर्वस्य ७।१।१०२ इत्युत्त्वम्(), रपरत्वम्(), "हलि च" ८।२।७० इति दीर्घः, द्विर्वचनम्()--"स्वूर्ष" इत्येतस्य, अभ्यासकार्यम्(), "आदेशपरत्ययोः" ८।३।५९ इति षत्वम्()। "यियिविषति" इति। "ओः पुयण्ज्यपरे" ७।४।८० इत्यभ्यासस्येत्त्वम्()। "प्रोर्णुनूषति" इति। "अजादेद्वितीयस्य" ६।१।२ इति वचनाद्()द्वितीयस्यैकाचः "नुस" इत्येतस्य द्विरुक्तिः, रेफस्य पूर्वन्न द्विर्वचनम्()। "प्रोर्णुनविषति" इति। इट, पक्षे "विभाषोर्णोः" १।२।३ इति यदा ङित्त्वं तदोवङ्(), अन्यदा तु गुणः। "भुञित्येतस्य भौवादिकस्य ग्रहणम्()" इति। अथ ङुभृञित्यस्य जौहोत्यादिकस्य ग्रहणं कस्मान्न भवति? इत्याह--"शपा निर्देशात्()" इत्यादि। यदि जौहोत्यादिकस्य भृञो धारणपोषणार्थस्य ग्रहणमभिमतं स्यात्(), तदा "भृ" इत्येवं निर्देशं कुर्यात्(), न तु "भर" इति शपानिर्देशम्(), कृतश्च शपा निर्देशः, तस्माद्भौवादिकस्य ग्रहणमिति गम्यते। "बुभूर्षति" इति। पूर्वदुत्त्वदीर्घत्वे। "ज्ञीप्सति" इति। "ज्ञा" इत्येतस्माण्णिच्(), "अर्त्तिह्रौ" इत्यादिना पुक्(), पूर्वदीत्त्वाभ्यासलोपौ। "सिषासति" इति। "जनसनखनां सञ्झलोः" इत्यात्वम्()। "केचिदत्र" इत्यादि। केचिदिति वचनात्? केचिन्न पठन्तीत्युक्तं भवति। ये तु न पठन्तितेऽत्र तनिपतिदरिद्राणामुपसंख्यानं कुर्वन्ति। "तितंसति, तितांसति" इति। "तेनोतेर्विभावा" ६।४।१७ इति पक्षे दीर्घः। "पित्सति" इति। "सनिमीमा" ७।४।५४ इत्यादिनेसादेशः, अभ्यासलोपः, "स्कोः" ८।२।२९ इत्यादिना सलोपः। "दिदरिद्रिषति, दिदरिद्रासति" इति। "दरिद्रातेरार्धधातुके" (वा।७८९) इत्यादिना विकल्पेनाकारलोपः॥
बाल-मनोरमा
सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ४४६, ७।२।४९

सनीवन्तर्ध। सनि इवन्तेति च्छेतः। इवन्त, ऋध, भ्रस्ज, दन्भु, श्रि, स्वृ, यु, ऊर्णु, भर , ज्ञपि , सन्, -- एषां द्वन्द्वः। इव् अन्ते येषां ते इवन्ताः। "स्वरती"त्यतो वेति, "इण्निष्ठाया"मित्यत इडिति चानुवर्तते। तदाह -- इवन्तेब्य इत्यादि। वन्तस्य दिव्()धातोरुदाहरिष्यन्नाह-- इडभावे इति। वस्येति। वकारस्येत्यर्थः। यणिति। "कारादिकारस्ये"ति शेषः। द्वित्वमिति। "द्यु इत्यस्ये"ति शेषः। दुद्यूषतीति। "अज्झने"ति दीर्घः। इट्पक्षे आह--दिदेविषतीति। अझलादित्वान्न सनः कित्त्वम्, अतो नोठ्, किन्तु लघूपधगुण इति भावः। इवन्तस्योदाहरणान्तरं सिवुधातोः सुस्यूषतीति वक्ष्यते। तत्र द्वितीयस्य षत्वमाशङ्क्य आह-- स्तौतिण्योरिति। सुस्युषतीति। सिवुधातोः सनि इडभावे दुद्यूषतीतिवद्रूपम्। इट्पक्षे आह -- सिसेविषतीति। ऋध्()धातोः सनि ईत्र्सतीति रूपं वक्ष्यन्नाह--