पूर्वम्: ७।२।४९
अनन्तरम्: ७।२।५१
 
सूत्रम्
क्लिशः क्त्वानिष्ठयोः॥ ७।२।५०
काशिका-वृत्तिः
क्लिशः क्त्वानिष्ठयोः ७।२।५०

क्लिशः क्त्वानिष्ठ्योः वा इडागमो भवति। क्लिष्ट्वा, क्लिशित्वा। क्लिष्टः, क्लिशितः। क्लिष्टवान्, क्लिशितवान्। क्लिशू विबाधने इत्यस्य क्त्वायां विकल्पः सिद्ध एव निष्ठायां तु यस्य विभाषा ७।२।१५ इति प्रतिषेधः प्राप्नोति। क्लिश उपतापे इत्येतस्य तु क्त्वायां निष्ठायां च नित्यम् इडागमः प्राप्नोति, तदर्थं क्त्वाग्रहणं क्रियते।
न्यासः
क्लिशः क्त्वानिष्ठयोः। , ७।२।५०

"क्लिष्ट्वा" इति। व्रश्चादिसूत्रेण ८।२।३६ षत्वम्()। "क्लिशित्वा" इति। "रलो व्युपधाद्धलादेः संश्च" १।२।२६ इति कित्त्वम्()। "क्त्वाप्रत्यये विकल्पः सिद्ध एव" इति। ऊदित्वात्? "स्वरति" ७।२।४४ इत्यादिना यदि कत्वाप्रत्यये विकल्पः सिद्ध एव, तत्किमर्थं क्त्वाग्रहणम्()? इत्याह--"क्लिश उपताप इत्यस्य तु" इत्यादि। "नित्यमिडागमः प्राप्नोति" इति। उपतापार्थस्य क्लिशेरुदात्तत्वात्()। "तदर्थम्()" इति। उपतापार्थो यः क्लिशिस्तदर्थम्()। सोऽर्थः प्रयोजनं यस्य तत्? तथोक्तम्()। अथ वा--उपतापर्थस्य क्लिशेर्यो नित्यमिडागमः प्राप्नोति तदर्थम्(), तन्निवृत्यर्थ मित्यर्थः; अर्थशब्दस्य निवृत्तिवचनत्वात्()॥
बाल-मनोरमा
क्लिशः क्त्वानिष्ठयोः ८५६, ७।२।५०

क्लिशः क्त्वानिष्ठयोः। "इड्वा स्या"दिति शेषः। "स्वरति सूती"त्यतो वेत्यनुवृत्तेरिति भावः। नित्यं प्राप्त इति। "आद्र्धधातुकस्येड्वलादे"रित्यनेनेति भावः। विकल्पे सिद्ध इति। ऊदित्त्वादिति भावः। निष्ठायां निषेधे प्राप्ते इति। "यस्य विभाषे"त्यनेनेति भावः।