पूर्वम्: ७।२।५१
अनन्तरम्: ७।२।५३
 
सूत्रम्
वसतिक्षुधोरिट्॥ ७।२।५२
काशिका-वृत्तिः
वसतिक्षुधोरिट् ७।२।५२

वसतेः क्षुधेश्च क्त्वानिष्ठयोः इडागमः भवति। उषित्वा। उषितः। उषितवान्। क्षुधित्वा। क्षुधितः। क्षुधितवान्। वसति इति विकरणो निर्देशार्थ एव। वस्तेस् तु उदात्तत्वादेव भवितव्यम् इटा। पुनरिड्ग्रहणं नित्यार्थम्।
न्यासः
वसतिक्षुधेरिद। , ७।२।५२

"वस निवासे" (धा।पा।१००५), "क्षुध बुभुक्षायाम्()" (धा।पा।११९०)--अनयोरनुदत्तत्वादिट्()प्रतिषेधे प्राप्ते क्त्वानिष्ठयोरिङ्()विधनार्थ वचनम्()। "उषित्वा" इति। क्त्वा, इट्(), "न क्त्वा सेट्()" १।२।१८ इति कित्त्वप्रतिषेधे प्राप्ते "मुडमृव" १।२।७ इत्यादिना कित्त्वम्(), वच्यादिसूत्रेण (६।१।१५) यजादित्वात्? सम्प्रसारणम्(), "शासिवसिचसीनां च" ८।३।६० इति षत्वम्()। "क्षुधित्वा" इति। अत्रापि "रलो व्युपधाद्धलादेः संश्च" १।२।२६ इति पक्षे कित्त्वम्()। "वसतीति विकरणनिर्देशः" इत्यादि। "विकरणनिर्देशो धातुनिर्देशार्थे एव" इत्युक्तम्()। अथ "वस आच्छादने" (धा।पा।१०२३) इत्यस्य निवृत्त्()यर्थः कस्मान्न विज्ञायते? इति यश्चीदयेत्(), तं प्रत्याह--"वस्तेः" इत्यादि। अथ वावस्तः, वावस्तवानित्यत्र यङ्लुङ्()निवृत्त्यर्थः कस्मान्न विज्ञायते? इति यश्चोदयेत्(), तं प्रत्याह--"वस्तेः" इत्यादि। अथ वावस्तः, वावस्तवानित्यत्र यङ्लुङ्()निवृत्त्यर्थः कस्मान्न विज्ञायते? विहितविशेषणपक्षविज्ञानादपि यङ्लुङ्()निवृत्तिः शक्यते कर्त्तुमित्यभिप्रायः। अथेडित्यनुवत्र्तमाने पुनरिङ्ग्रहणं किमर्थम्()? इत्याह--"पुनरिङ्ग्रहणं नित्यार्थम्" इति। पूर्वकमिङ्ग्रहणं विकल्पेन सम्बद्धम्(), अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्()। तस्मात्तन्निवृत्त्यर्थ पुनरिङ्ग्रहणं कृतम्()॥
बाल-मनोरमा
वसतिक्षुधोरिट् ८५३, ७।२।५२

वसतिक्षुधोरिट्। पञ्चम्यर्थे षष्टी। क्त्वानिष्ठयोरिति। "क्लिशः क्त्वानिष्ठयो"रित्यतस्तदनुवृत्तेरिति भावः। नित्यमिति। इडित्यनुवर्तमाने पुनरिड्ग्रहणस्य "स्वरतिसूती"त्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः। "एकाच उपदेश" इति इण्निषेधबाधनार्थमिदं सूत्रम्। उषित इति। यजादित्वात्संप्रसारणम्, "शासिवसिघसीनां चे"ति षः।

तत्त्व-बोधिनी
वसतिक्षुघोरिट् ६९९, ७।२।५२

उषित इति। यजादित्वात्संप्रसारणम्। "शासिवसी" ति षः। "वसती"ति शपा निर्देशः स्पष्टार्थः। वस्तेः सेट्कत्वाद्भवितव्यमेवेटा। क्षुधित इति। एवं च "तस्याऽलमेषा क्षुधितस्ये"ति प्रयोगो निर्बाध एवेति क्षुधेर्धातोर्भावे क्विपि "तारकादित" जिति धातुवृत्तिषु यदुक्तं, तन्नादर्तव्यम्। समानन्यायतया क्रुधितादावुयोक्ष्यत इति वा कथंचिन्नेयम्।